By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : प्रमुखा: राष्ट्रीयवार्ता: नागरिक-केन्द्रित- शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यम् प्रददाति प्रारूपगत-आंककीय-वैयक्तिक-दत्तांश-संरक्षण-नियमः – प्रधानमन्त्री
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > National News : प्रमुखा: राष्ट्रीयवार्ता: नागरिक-केन्द्रित- शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यम् प्रददाति प्रारूपगत-आंककीय-वैयक्तिक-दत्तांश-संरक्षण-नियमः – प्रधानमन्त्री
दिवसविशेषःप्रादेशिकवार्ताराष्ट्रीयवार्ताः

National News : प्रमुखा: राष्ट्रीयवार्ता: नागरिक-केन्द्रित- शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यम् प्रददाति प्रारूपगत-आंककीय-वैयक्तिक-दत्तांश-संरक्षण-नियमः – प्रधानमन्त्री

डॉ मनोज शैल
Last updated: 2025/01/08 at 11:10 AM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National News : प्रमुखा: राष्ट्रीयवार्ता:

नागरिक-केन्द्रित- शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यम् प्रददाति पंचविंशत्यधिकद्विसहस्रतमवर्षीयः प्रारूपगत-आंककीय-वैयक्तिक-दत्तांश-संरक्षण-नियमः – प्रधानमन्त्री

 

हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी सूचितवान् यत् पञ्चविंशत्यधिकद्विसहस्रतमवर्षीयः प्रारूपगत-आङ्ककीय-वैयक्तिक-दत्तांश-संरक्षण-नियमः नागरिक-केन्द्रित- शासनं प्रति भारतस्य प्रतिबद्धतायै प्राधान्यम् प्रददाति। सूचनाप्रसारणमन्त्रिणः अश्विनी-वैष्णवस्य सन्देशस्य प्रत्युत्तरे श्रीमोदी अवधानं दत्तवान् यत् नियमानां उद्देश्यं वैयक्तिक-दत्तांशस्य रक्षणं भवति तथा च विकासस्य समावेशस्य च प्रोत्साहनं भवति इति।

 

गृहमन्त्रिणा अमितशाहेन कृतं केन्द्रीयान्वेषणविभागद्वारा विकसितस्य निर्मितस्य च भारतपोल-इत्यभिनामधेयकस्य आन्तर्जालिकपटलस्य शुभारम्भ: 

 

हिमसंस्कृतवार्ता: । गृहमन्त्री अमितशाहः अद्य नवदिल्ल्याम् केन्द्रीयान्वेषणविभागद्वारा विकसितस्य निर्मितस्य च भारतपोल-इत्यभिनामधेयकस्य आन्तर्जालिकपटलस्य शुभारम्भं कृतवान्। अस्य भारतपोल् इत्याख्यस्य पटलस्योद्देश्यं इण्टरपोलइत्यनेन माध्यमेन अन्ताराष्ट्रिय-सहायतायै सर्वेषु अनुरोधेषु कार्याचरणं सुव्यस्थितं-करणमिति वर्तते। यस्मिन् रेडनोटिस इति सम्बद्धानि नैकानि प्रतिवेदनानि समाविष्टानि सन्तीति। अत्रावसरे गृहमन्त्री अमितशाहः स्वीयोद्बोधने अकथयत् यत् भारतपोल् इति अन्ताराष्ट्रिय-स्तरीयं निरीक्षणं नवीनं युगं प्रति नेष्यति। असौ पुनः न्यगादीत् यत् साम्प्रतम् अन्वेषण-विभागाः आवश्यक-सूचनाः प्राप्तुं इण्टरपोल इत्यनेन सङ्घटनेन संयोजिताः भवितुं शक्नुवन्ति। श्रीशाहः अग्रे अवोचत् यत् अनेन पदक्षेपेण आतङ्कवादसम्बद्धेभ्यः अपराधेभ्यः मादकपदार्थेभ्यः इत्यादिभ्यः प्रसङ्गेभ्यः निवारणं मेलिष्यति।

अत्रावधौ गृहमन्त्रिणा प्रोदिरितं यत् अधुना आधुनिक-प्रणालीनाम् उपयोगद्वारा विदेशेषु निवसन्तः अपराधिनः भारते च अपराधान् कृत्वा विदेशान् प्रति गतान् अपराधिनः प्रत्यानेतुं सरलता भविष्यति।

अपरत्र श्रीशाहः पञ्चत्रिंशत्सङ्ख्यकेभ्यः केन्द्रीयान्वेषण-विभागीयेभ्यः अधिकारिभ्यः कर्मचारिभ्यश्च आरक्षिपदकानि प्रदत्तवान्। एतेभ्यः पदकलब्धेभ्यः जनेभ्यः विशिष्टसेवायै राष्ट्रपतेः आरक्षि-पदकानि अपि च निरीक्षणे उत्कृष्टतायै केन्द्रीयगृहमन्त्रिणः पदकानि प्रदत्तानि।

 

दिल्ली-विधानसभा-निर्वाचनम् एकस्मिन्नेव चरणे फरवरीमासस्य पञ्चमे दिनाङ्के समनुष्ठास्यते – निर्वाचनायोगः

हिमसंस्कृतवार्ता: । दिल्ली-विधानसभा-निर्वाचनं एकस्मिन्नेव चरणे फरवरीमासस्य पञ्चमे दिना‌ङ्के समनुष्ठास्यते तत्रैव मतगणना अष्टमे दिनाङ्के निर्धारितास्ति। निर्वाचनायोगेन अद्य सप्तति-सदस्य-युतायाः दिल्लीविधानसभायाः निर्वाचनाय समुद्धोषणा कृता। अद्य नवदिल्ल्यां वार्ताहरान् संसूचयन् मुख्यनिर्वाचना-युक्तः राजीवकुमारः अकथयत् यत् सम्बद्धाधिसूचना अस्य मासस्य दशमे दिनाङ्के प्रख्यापयिष्यते। मुख्यनिर्वाचनायुक्तेन ईवीएम् यन्त्रसम्बद्धान् आरोपान् अपि निराकृताः।

 

 

नेपाल-तिब्बतयोः सीम्नि सप्त दशमलव एकं तीव्रस्तरीयेन भूकम्पेन पञ्चनवतिजनाः मृत्युमुपगताः

हिमसंस्कृतवार्ता: । प्रातः काले नेपाल-तिब्बतयोः सीम्नि सप्त दशमलव एकं तीव्रस्तरीयेन भूकम्पेन पञ्चनवतिजनाः मृत्युमुपगताः तत्रैव त्रिंशदधिकैकशतजनाः व्रणिताः अभवन्। अस्य भूकम्पस्य केन्द्रं नेपालसीम्नः समीपे तिब्बतस्य शिजांगस्थलम् आसीत्। येन हि बिहार-पश्चिमब‌ङ्गाल-सिक्किमराज्यानि समेत्य उत्तरभारतस्य अनेकेषु भागेषु कम्पनम् जनैः अनुभूतम्।

 

असम-दुर्घटना

असमप्रशासनेन दिमा-हसाओ-जनपदस्य उमराङ्गसो-नगरस्य कृष्णाङ्गार-आकरे अवरूद्धानां खनितृणां सहायतायै नौसैन्यबलस्य गाहितृन् तत्र नियोजयितुं सम्प्रार्थिताः। त्रिशतफुटपरिमिते जलप्लाविते रष्टहील इत्यत्र कृष्णाङ्गार-आकरे एते खनितारः अवरूद्धास्सन्ति इति सूच्यते। सेनया राज्यापात्मोचनबल- राष्ट्रियापत्मोचन-बलाभ्यां सह संयुक्तरूपेण साहाय्योद्धारकार्याणि समारब्धानि ।

 

एच. एम. पी. वी. संक्रमणम्

केन्द्र-स्वास्थ्य-सचिवः पुण्य-सलिला-श्रीवास्तव इत्येषा कथितवती यत् ह्युमन्- मेटान्यूमो-वायरस एच्. एम्. पी. वी. इत्येतत् सङ्क्रमणं जनानां कृते चिन्तायाः कारणं नास्ति। राज्यैः केन्द्रशासितप्रदेशैः च सह दृश्य-श्रव्य-परान्तर्जालीयोपवेशने स्वास्थ्य-सचिवः भारते श्वसन-रोगाणां वर्तमानस्थितिं, एच्. एम्. पी. वी. प्रकरणानां स्थितिं, च प्रबन्धयितुं सार्वजनिक-स्वास्थ्य-उपायान् च समीक्षितवती। एषा राज्यानि इन्फ्लूएन्ज़ा-सदृशस्य रोगस्य, तीव्र-श्वसन-सङ्क्रमणस्य च निरीक्षणं सुदृढ समीक्षां च कर्तुं संसूचितवती। अनया एतदपि कथितं यत् सामान्यतया शीतमासेषु श्वसनरोगाणां वृद्धिः दृश्यते इति, तथा च आश्वासितं यत् श्वसनरोगस्य कस्यैचिदपि सम्भाव्यवृद्धये देशः सुसज्जः अस्ति। अत्रान्तरे, पश्चिमीय-महाराष्ट्र, नागपुरे च एच्. एम्. पि. वि. इत्यस्य द्वे प्रकरणे समङ्किते। द्वयोः प्रकरणयोः सप्तवर्षीयः त्रयोदशवर्षीयः च बालकौ सम्मिलितौ।

 

केन्द्रेण राज्यानि केन्द्रशासितप्रदेशाः भारतीय- नागरिक-सुरक्षा-संहितायाः नवसप्तत्यधिक-चतुश्शत-परिच्छेदस्य उपबन्धानां प्रवर्तनाय निर्दिष्टम्

हिमसंस्कृतवार्ता:।

केन्द्रेण राज्यानि केन्द्रशासितप्रदेशाः च त्रयोविंशत्यधिक-द्विसहस्र-तम्याः भारतीय- नागरिक-सुरक्षा-संहितायाः नवसप्तत्यधिक-चतुश्शत-परिच्छेदस्य उपबन्धानां प्रवर्तनाय निर्दिष्टम्, येन निगडितेभ्यः जनेभ्यः साहाय्यं भविष्यति। अयं प्रभागः अन्वीक्षार्थं प्रतीक्षमाणानां कारागारवासिनां सङ्ख्यां न्यूनीकृत्य निगडितेभ्यः जनेभ्यः साहाय्यं प्रददाति । केन्द्रीय गृह मन्त्रालयः अस्मिन् विषये सर्वेषां राज्यानां केन्द्रशासितप्रदेशानां च मुख्यसचिवान् उद्दिश्य पत्रम् अलिखत्। नूतनस्य नियमस्य अन्तर्गतं, प्रथमवारम् अपराधं कुर्वन्तः अपराधिनः अधिकतमस्य कारावासस्य तृतीयांशस्य सेवाः प्रदानानन्तरं बन्धपत्रे मुक्ताः भवितुम् अर्हन्ति।

 

अत्याधुनिक-स्वदेशिक- प्रौद्योगिकीनां विकासाय, विनिर्माण-क्षमतानां निर्माणाय च बलं प्रदत्तवान् वायुसेनाध्यक्षः

हिमसंस्कृतवार्ता:।

वायुसेनाध्यक्षः एयर्-चीफ्-मार्शलू ए. पी. सिंहः अत्याधुनिक-स्वदेशिक- प्रौद्योगिकीनां विकासाय, विनिर्माण-क्षमतानां निर्माणाय च बलं प्रदत्तवान्। असौ अवदत् यत् सप्तचत्वारिंशदधिक-द्विसहस्रतमे वर्षे विकसित-भारतस्य लक्ष्यं साधयितुं रक्षाक्षेत्रस्य एयरोस्पेस इत्येतस्य क्षेत्रस्य च प्रमुखं योगदानं भविष्यति। एतद् वक्तव्यम् असौ अद्य नवदिल्ल्यां ‘atma nirbharta in aerospace way ahead’ इत्येतस्मिन् विषये आयोजिते एकविंशतितमे सुब्रोतो-मुखर्जी-सम्मेलने प्रदत्तवान्।

 

केन्द्रीयकृषिकृषककल्याणमन्त्रिणा शिवराजसिंह चौहानेन मिलितवन्त: कृषकाः

 

दिल्ल्याः कृषकाः अद्य नवदिल्ल्यां केन्द्रीयकृषिकृषककल्याणमन्त्रिणा शिवराजसिंह चौहानेन सह मेलनं कृतवन्तः। तदनु श्रीचौहानेन वार्ताहरैः सह सम्भाषयता उक्तं यत् केन्द्रप्रशासनस्य विभिन्नानां योजनानां लाभः राष्ट्रियराजधान्याः कृषकाः नैव प्राप्नुवन्ति तावत् एतस्मिन् सन्दर्भे दिल्ल्याः मुख्यमन्त्रिणं आतिशि इत्येतां प्रति एकं पत्रं विलिखितम्।

 

ऋतुविभागः – हिमाचल प्रदेश-पश्चिमराजस्थानयोः अनेकेषु भागेषु शीतलहरी

 

भारतीयऋतु विज्ञानविभागेन हिमाचल प्रदेश-पश्चिमराजस्थानयोः अनेकेषु भागेषु शीतलहरी अनुमानिता। बिहार-पञ्जाब-हरियाणा-चण्डीगढ-हिमाचलप्रदेश- उत्तरप्रदेश-राज्याणां केषुचित् भागेषु श्वः यावत् प्रातःसमये सघन नीहारो भविष्यति इति सम्भाव्यते ।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

TAGGED: Himachal news, himsanskritnews headlines, India News, National News, national News Headlines, News Aaj Tak, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के संस्कृत समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article गुजरातराज्यसंस्कृतविभागस्योपाध्यक्षरूपेण डॉ.पङ्कज त्रिवेदी नियुक्तः
Next Article HMPV VIRUS – हिमाचले एच.एम.पी.वी. विषाणो: कियत् संकटम् ?
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?