By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > वित्तीयवार्ता > Computer > Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम्
ComputerUncategorizedउत्तराखण्डवार्ताःपञ्चागम्बोधकथाराजनैतिक वार्तासंस्कृतगतिविधयःसंस्कृतबोधकथाहिमाचलवार्ता

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम्

डॉ मनोज शैल
Last updated: 2024/12/23 at 11:17 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

Sanskrit Competitions : राज्यस्तरीय- सूत्रान्त्याक्षरी- स्पर्धायां क्यार्टू- संस्कृत- महाविद्यालयेन सततं तृतीयवारं प्राप्तं प्रथमं स्थानम्

हिमसंस्कृतवार्ता:- डॉ. सन्तोषकुमार:, ठियोग:।

सिरमौर-जनपदस्य गोरक्षनाथ- राजकीय- संस्कृत- महाविद्यालय: नाहनम् इत्यत्र हिमाचल- संस्कृत- अकादम्या द्विदिवसात्मक- राज्यस्तरीय- अन्तर्महाविद्यालयीय- संस्कृत- प्रतियोगितानाम् आयोजनं कृतम्। १५ महाविद्यालयानां १०४ प्रतिभागिनस्तत्र विविधासु स्पर्धासु भागमगृह्णन्। राजकीय-संस्कृत-महाविद्यालय: क्यार्टू इत्यस्य प्राचार्या: डॉ. राकेशकुमारशर्ममहोदया: असूचयन् यद् तत्र डॉ. वेदप्रकाशपाण्डेयवर्यस्य डॉ. दिनेशभारद्वाजमहोदयस्य च मार्गनिर्देशने अस्माकं महाविद्यालयस्य छात्रदलमपि भागं गृहीतवत्। सूत्रान्याक्षरीस्पर्धार्थम् अक्षय: भुवनेश्वरी च, वेदमन्त्रोच्चारणाय विक्रान्त:, गीतिकास्पर्धायै सुशान्त:, श्लोकोच्चारणस्पर्धार्थं नेहा, भाषणप्रतियोगितायै रीतिका, प्रश्नोत्तरी-स्पर्धार्थं हर्षिता पीयूषश्च, सद्योभाषणाय च अक्षय: महाविद्यालयस्य प्रातिनिध्यमकुर्वन्। सर्वेषामेव प्रस्तुतय: प्रशंसनीया: आसन्। महाविद्यालयस्य प्रतिनिधिभि: छात्रै: एतासु स्पर्धासु सूत्रान्त्याक्षरी- स्पर्धायां प्रथमं स्थानम्, गीतिकास्पर्धायां द्वितीयं स्थानम्, भाषणस्पर्धायां च सान्त्वनापुरस्कार: चतुर्थं वा स्थानं प्राप्तम्। महाविद्यालयस्य कृते गौरवमयस्समाचारोऽयं यत् सूत्रान्त्याक्षरी-स्पर्धायां सततं तृतीयवारं क्यार्टू-संस्कृत-महाविद्यालयो विजयी अभवत्। प्राचार्यमहाभागै: उक्तं यत् इदं महाविद्यालय-प्राध्यापकानां प्रतिनिधिभूतच्छात्राणां च कठिनतपस: फलम्। विजयोत्सवोपलक्ष्ये महाविद्यालये हर्षमयं वातावरणमस्ति। सर्वेऽपि छात्रा:, प्राध्यापका:, प्राध्यापिका:, कर्मचारिणश्च महाविद्यालयस्य विजेतृदलं वर्धापनवचोभिरभिनन्दितवन्त:।

You Might Also Like

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

व्यवस्थापरिवर्तनेन राज्ये “नीलक्रान्तिः” इत्यस्य आरम्भं भवति, युन: स्वग्रामेषु जीविका: लप्स्यन्ते

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

एम्स् बिलासपुरे हाइड्रोथर्मल् ऑटोक्लेव् रिएक्टर्-प्रौद्योगिक्या सटीकं, सुरक्षितं च सुलभं चिकित्सोपचारं भविष्यति

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, Himachal Sanskrit Academy, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, चकमोह संस्कृत महाविद्यालय, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार, हिमाचल संस्कृत अकादमी
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Dalai Lama : धर्मगुरुः दलाईलामा जनवरी द्वितीये दिनाङ्के कर्नाटकं गमिष्यति, तिब्बतीनववर्षस्य लोसरं यावत् तत्र स्थास्यति
Next Article हिममयं हिमाचलम् –  हिमाचले  समाप्ता हिमपातस्य प्रतीक्षा।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?