By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > वित्तीयवार्ता > Computer > KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः।
ComputerUncategorizedउत्तराखण्डवार्ताःपञ्चागम्प्रादेशिकवार्ताबोधकथाराजनैतिक वार्तासंस्कृतगतिविधयःसंस्कृतबोधकथा

KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः।

डॉ मनोज शैल
Last updated: 2024/12/16 at 9:06 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

KKSU Ramtek : संस्कृतविश्वविद्यालये भारतीयभाषापरिवारमहोत्सवः महता उत्साहेन आचरितः।

भारतीयभाषासु मधुरता अनुभवस्य विषयः अस्ति- डॉ. लीना रस्तोगी 

हिमसंस्कृतवार्ता: – रामटेकम्।

कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालये भारतीयभाषा- परिवारमहोत्सवः महता उत्साहेन आचरितः कालिदास यस्मिन् संस्कृतविश्वविद्यालयस्य प्राध्यापकैः छात्रैः च बहुभाषिकाप्रस्तुतिः प्रशंसनीया आसीत्।

सर्वासां‌ भारतीयभाषाणां माधुर्यं सौन्दर्यं च अनुभवितुं सर्वाभि: भाषाभि: प्रेम तासां साहित्यस्य अध्ययनं च महत्त्वपूर्णम् वर्तते। प्रख्यातसंस्कृतविशेषज्ञा डॉ. लीना रस्तोगी अवदत् यत् भाषायाः वास्तविकं माधुर्यं बोल्यां निहितं भवति, सर्वासु भारतीयभाषासु एषा अद्वितीयं वैशिष्ट्यम् अस्ति। सा कविकुलगुरु- कालिदास- संस्कृत- विश्वविद्यालयस्य आधुनिकभाषाविभागेन आयोजिते भारतीयभाषापरिवारोत्सवे विशेषव्याख्यातृरूपेण संबोधयन्ती आसीत्। कुलपति प्रो. हरेरामत्रिपाठीवर्यस्य मार्गदर्शने आयोजिते अस्मिन् भाषामहोत्सवे संकायप्रमुखा डॉ. कविता होले इत्यनया अध्यक्षता कृता

भारतीयभाषाणां साहचर्यं समन्वयञ्च च अखण्डम्– डॉ. देवानन्दशुक्लः

अस्मिन्नवसरे कुलसचिव: डॉ. देवानन्दशुक्लः अवदत् यत् भारतीयभाषाणां मध्ये साहचर्यं समन्वयञ्च अखण्डम् अस्ति, सर्वा: क्षेत्रीयभाषाः भाषाविनिमयद्वारा एव जीवितुं शक्नुवन्ति। अस्माकं प्रादेशिकभाषा/ मातृभाषाः न केवलं भाषामहोत्सवरूपेण अपितु नित्यभाषणे, लेखने, साहित्यनिर्माणे च उपयोक्तव्याः डॉ. शुक्लः प्रसन्नतां प्रकटितवान् यत् अस्मिन् वर्षे मराठी, प्राकृत, बंगाली, उड़िया इत्यादीनां भाषाणां कृते शास्त्रीयभाषायाः स्थितिः प्राप्ता:। एताः भाषाः २००० वर्षपूर्वात् अस्तित्वं प्राप्नुवन्ति, तेषां लक्षणं निरन्तरसाहित्यनिर्माणम् अस्ति।

भारतीयभाषाणां वास्तविकं माधुर्यं बोलीषु एव निहितं भवति- प्रो. कविता होले

कार्यक्रमसत्रस्य अध्यक्षा डॉ. कविता होले अवदत् यत् भारतीयभाषाणां वास्तविकं माधुर्यं बोलीषु एव निहितं वर्तते। सा आशां प्रकटितवती यत् छात्रै: बहुभाषिकतां स्वीकृत्य बहुभाषासु लेखनं करणीयम् इति। डॉ. राजेन्द्रजैन: (समन्वयक एवं विभागाध्यक्ष:) उद्घाटने एवं विशेषव्याख्यानसत्रे कार्यक्रमे उपस्थितानां सर्वेषां आभारं प्रकटितवान्। उद्घाटनसत्रस्य समापनं शान्तिमन्त्रेण कृतम्। द्वितीयसत्रे आचार्यैः अवधी, मैथिली, उर्दू, मराठी-प्राकृत, राजस्थानी, गुजराती, वर्हादी इत्यादिषु विभिन्नासु भारतीयभाषासु गद्यं, काव्यं, नाटकं च प्रस्तुतम्। अस्मिन् कुलम् पञ्चदश शिक्षकाः स्वतःस्फूर्तरूपेण भागं गृहीतवन्त:। उक्त सत्रस्य परीक्षकाः लीना रस्तोगी, प्राध्यापिका कविता होले तथा आचार्य: प्रसादगोखले चासन्। सहायकाचार्य: भरतमिसाल: च संचालनं कृतवान्। तृतीये सत्रे छात्राः महाराष्ट्री-प्राकृत, मराठी, उड़िया, तमिल, गुजराती, मैथिली, राजस्थानी इत्यादिषु भाषासु बोलीषु च प्रस्तुतवन्तः। अस्मिन् सत्रे कुलम् त्रयोविंशतिः प्रतिभागिनः आसन्। अस्मिन् काले डॉ. लीना रस्तोगी, प्रोफेसर कलापिनी अगस्ती, प्रो. पराग: जोशी च परीक्षणं कृतवन्त:। सुवर्णा केवतटे इत्यनया सत्रस्य संचालनं कृतम्। अस्मिन् सत्रे छात्राः बहु उत्साहं प्रदर्शितवन्तः। बहुभाषिकसंकायः छात्राः च विभिन्नभाषासु काव्यानि, नाटकानि इत्यादीनि प्रस्तूय स्वस्य बहुभाषिकतायाः प्रदर्शनं कृतवन्तः। कालिदास- संस्कृत- विश्वविद्यालये संस्कृतभाषायाः एकस्मिन् सूत्रे बहुभाषिकता, एकता च एषा प्रशंसायाः विषयः अभवत्। चतुर्थं सत्रं समापनसमारोहस्य प्रमाणपत्रपुरस्कारवितरणस्य च आसीत्। प्रथमद्वितीयतृतीयस्थानभाजानां छात्राणां कृते प्रमाणपत्रैः पुरस्कारैः च अलंकलणमभवत्। आध्यक्षीये सम्बोधने प्रो. अगस्ती इत्यनेन उक्तं यत् भारतीयज्ञानपरम्परां ज्ञातुं एतादृशस्य कार्यक्रमस्य आयोजनस्य आवश्यकता वर्तते। विभागाध्यक्षः डॉ. जैनः सर्वेषां प्रति आभारं प्रकटितवान्।

You Might Also Like

भक्तिवेदान्तपरिसरे दशदिवसीया संस्कृतसम्भाषणकार्यशाला सम्पन्ना

सरलमनुष्यस्य दायित्वम्

सूर्य: अस्तं गच्छति, वयम् अपि वा?।

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

TAGGED: Central Sanskrit University, cmo himachal, Daily Sanskrit News, him sanskritam, Himachal government, Himachal news, Himachal Sanskrit Academy, Himsanskritnews, KKSU Ramtek, narendra modi, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, sanskrit University, Today Sanskrit Nerws, varta, vartah, आज के संस्कृत समाचार, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय, दैनिक समाचार, संस्कृत विश्वविद्यालय, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article युनां वचनं श्रुत्वा अतिथिशिक्षकनीतिः निवर्तयेत् सर्वकार: – जयरामठाकुरः
Next Article KKSU Ramtek : भविष्ये विश्वस्य कस्मात् अपि देशात् CDOE मध्ये प्रवेशः सुलभः भविष्यति -प्रो.हरेराम: त्रिपाठी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?