CM Sukhu: मुख्यमंत्री सुखविन्दरसिंहसुक्खुः संवेदनशीलतां प्रदर्शितवान्, मञ्चात् अवतीर्य दिव्यांगक्रीडिकायै सम्मानम् अयच्छत्
हिमसंस्कृतवार्ता: – शिमला।
अन्ताराष्ट्रीयपदकविजेतॄणां क्रीड़कानां अभिनन्दनकार्यक्रमे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः पुनः एकवारं संवेदनशीलतां प्रदर्शितवान्। यदा मञ्चे सर्वे क्रीडकाः एकैकशः क्रीडकानां सम्मानार्थं आहूताः आसन् तदा तावत् चक्रासन्दे उपविष्टायाः बोशिया-क्रीडिका अञ्जलिदेवी इत्यस्याः नाम आहूयते स्म।
यदा मुख्यमन्त्री दृष्टवान् यत् चक्रासन्दे उपविष्टा क्रीडिका मञ्चे आगन्तुं न शक्नोति तदा सः संवेदनशीलतां दर्शयित्वा मञ्चे स्थितानां गणमान्यजनानां मञ्चात् अवतरितुं संकेतं दत्तवान्, सः च स्वयमेव उपक्रमं कृत्वा मञ्चात् अवतरितवान्। मुख्यमंत्री मञ्चात् अवतीर्य तस्याः स्थाने पैराएथलीट अञ्जलिं सम्मानितवान्। सः स्वयमेव बोशिया- पैरा- क्रीडक- अञ्जलिदेवी इत्यस्या: समीपं गत्वा तस्याः कृते हिमाचलीटोपी- शालसहितं त्रिलक्षरूप्यकाणां राशि: चेकमाध्यमेन च प्रदत्तवान्। मुख्यमन्त्रिणः एतत् पदं दृष्ट्वा सम्पूर्णं पण्डालम् उच्चैः तालीवादनेन उद्भूतम्।