Temple Shri Naina Devi Ji : वर्षायै मातु: श्रीनयनादेव्या: चरणयो: स्थापिता भगवत: वीरभद्रस्य पिंडिका
हिमसंस्कृतवार्ता: – श्रीनयनादेवी जी।
हिमाचले मासद्वयं यावत् प्रचलति अनावृष्ट्याः आश्रयं वर्षाया: च कामनायै प्रसिद्धे शक्तिपीठे श्री नयनादेव्यां भगवतः वीरभद्रस्य पिण्डिका मातु: श्रीनयनादेव्या: चरणयो: स्थापिता। एषा परम्परा बहुवर्षेभ्यः प्रचलति। एतादृश: विश्वासः अस्ति यत् एतद् वृष्टे: प्रार्थनायै क्रियते ।
मन्दिरस्य पुरोहितानाम् मते यदा-यदा राज्ये दीर्घकालं यावत् वर्षा न भवति, अनावृष्टिः सदृशी स्थितिः च उत्पद्यते तदा-तदा भगवतः वीरभद्रस्य पिण्डिका मन्दिरे मातृदेव्याः चरणयोः विशेषतया स्थापिता भवति। मातृदेव्याः भगवतः वीरभद्रस्य च प्रसादेन वर्षा आगत्य अनावृष्टिः समाप्ता इति अस्य प्रयोजनम् । एषा परम्परा तेषां पूर्वपुरुषै: आरब्धा इति पुरोहिताः अवदन् । यदा-यदा चिरकालं वर्षा न भवति स्म तदा-तदा ते भगवतः वीरभद्रस्य पिण्डिकां मन्दिरस्य परितः प्रदक्षिणं कृत्वा बहिः मातु: श्रीनयनादेव्या: चरणयोः स्थापयन्ति स्म । कतिपयेभ्यः दिनेभ्यः अनन्तरं वर्षा आरभ्यते इति विश्वासः अस्ति । अद्यत्वे अपि एतादृशेनैव विश्वासेन परम्परा निरन्तरं प्रचलति।
माता श्रीनयनादेवी वृष्टे: आशीर्वादं दद्यात्
गुरुवासरे अपि पुरोहिताः विशेषप्रार्थनाः कृत्वा माता श्री नयनादेवी शीघ्रमेव वृष्टे: आशीर्वादं दद्यात् इति प्रार्थितवन्तः। मन्दिरपुरोहितौ प्रवेशशर्मा, सुमितशर्मा च अवदताम् यत् प्रतिवर्षं यदा अनावृष्टिः वर्धते, जलस्य अभावः च भवति तदा एषा धार्मिकपरम्परा क्षेत्रस्य जनानां कृते आशायाः किरणं भवति।