By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: CM Sukhu : अन्ताराष्ट्रीयक्रीडकानां सम्मानम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > क्रीडावार्ताः > CM Sukhu : अन्ताराष्ट्रीयक्रीडकानां सम्मानम्
क्रीडावार्ताःहिमाचलवार्ता

CM Sukhu : अन्ताराष्ट्रीयक्रीडकानां सम्मानम्

डॉ मनोज शैल
Last updated: 2024/12/05 at 9:47 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

मुख्यमन्त्रीसुक्खुः अन्ताराष्ट्रीयपदकविजेतॄणां क्रीडकानां सम्मानं कृतवान्। उक्तवान् च- “वयं “स्पोर्ट्स कॉम्प्लेक्स” इत्यस्य निर्माणं करिष्याम:।

हिमसंस्कृतवार्ता:- शिवा शर्मा/डॉ पद्मनाभ:

 

हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः गुरुवासरे भव्यसमारोहे २१ अन्ताराष्ट्रीयपदकविजेतृभ्यः १४.७७ कोटिरूप्यकाणां पुरस्कारधनराशिना पुरस्कृतवान्। असौ ऊनामण्डलस्य निषादकुमाराय ७.८० कोटिरूप्यकाणां पुरस्कारधनराशिं प्रदत्तवान्। निषादः 2022 तमे वर्षे टोक्यो– पैरालिम्पिकक्रीडासु रजतपदकं, 2024 तमे वर्षे पेरिस– पैरालिम्पिकक्रीडासु रजतपदकं, 2023 तमे वर्षे चीनदेशे पैराएशियनक्रीडासु स्वर्णपदकं, 2022 तमे वर्षे पुर्तगाले विश्वक्रीडासु रजतपदकं च प्राप्तवान् आसीत्। मुख्यमन्त्री मण्डीजनपदस्य अजयकुमाराय २.५० कोटिरूप्यकाणां पुरस्कारराशिं प्रदत्तवान्। अजयकुमारः 2023 तमे वर्षे चीनदेशे पैराएशियनक्रीडासु रजतपदकं प्राप्तवान्। सिरमौरमण्डलस्य कबड्डीक्रीडिकायै ऋतुनेगी इत्यस्यै अपि मुख्यमन्त्रिणा पुरस्कारराशि: प्रदत्ता। ऋतुनेगी 2023 तमे वर्षे चीनदेशे पैरा– एशियनक्रीडासु भारतीयकबड्डी-दलस्य प्रतिनिधित्वेन स्वर्णपदकम् अर्जितवती आसीत्।

 

CM Sukhu : अन्ताराष्ट्रीयक्रीडकानां सम्मानम्

मुख्यमन्त्रिणा सुखविन्द्रेण सुक्खुणा गुरुवासरे शिमलायां आयोजिते नकद-पुरस्कार-वितरण-समारोहे अंतार्राष्ट्रीय पदक-विजेतारः एकविंशतिः क्रीडका: सम्मानिताः। ओलम्पिक, पैरालम्पिक, एशियाड, कॉमनवेल्थ-प्रतियोगितासु विजयं प्राप्य क्रीड़ा: धनराश्या पुरस्कृताः। ऊनायाः पैरालम्पिक-एथलीट-निषादकुमाराय सर्वाधिकं ७.७० कोटिरूप्यकाणां पुरस्कारराशिः दत्ता।

समारोहे स्वे भाषणे मुख्यमन्त्रिणा उक्तं यत् कांग्रेससर्वकारस्य कालः यदा प्रारब्धः तदा प्रदेशस्य कोषः रिक्तः आसीत्। पूर्वसर्वकारेण प्रदेशसम्पदः विनष्टाः। अस्माभिः व्यवस्था परिवर्तनं कृत्वा आत्मनिर्भरं प्रदेशं निर्मीयते। यत् क्रीडका: सम्मानं प्राप्नुवन्ति, तत् आत्मनिर्भर-हिमाचलस्य कल्पनायाः साकाररूपं वर्तते।

मुख्यमन्त्रिणा उक्तं यत् पुरस्कारराशिः अष्टगुणितं वर्धिता। क्रीडका: विदेशं गत्वा देशस्य यशः वृद्धिं कुर्वन्ति तदा प्रदेशस्यापि कीर्तिः वर्धते। क्रीडकान् अस्माकं सर्वकार: प्रणमति। विद्यालय-खेलक्रीडायाः भोज्य राशि:, महाविद्यालय-क्रीडायाः तथा राष्ट्रीयस्तरक्रीडायाः अपि भोज्यराशि: वर्धिता।

मुख्यमन्त्रिणा उक्तं यत् हिमाचलप्रदेशे इंटीग्रेटेड स्पोर्ट्स कॉम्प्लेक्स निर्मीयते। अत्र अंताराष्ट्रीयस्तरस्य शूटिंग-रेंज,तरणकुंड , मुष्टिकाताडनक्रीडा, मल्लयुद्धम्, लॉन-टेनिस-कोर्ट इत्येतानि च स्थापितानि भविष्यन्ति । चतुर्षष्टिसु विधानसभासु एतेषां निर्माणकार्यं आगामि वर्षे प्रारभ्यते। एकस्मिन क्रीड़ा-परिसरे पञ्चाशत् कोटिः रूप्यकाणां व्ययः क्रियते। जलस्रोतः यत्र अस्ति, तत्र तरणकुंड अपि स्थापितं भविष्यति।

अन्ताराष्ट्रीयस्तरस्य अन्त:क्रीडाङ्गण- निर्माणकार्यं अपि आरभ्यते, यत् अक्तूबर 2025 पर्यन्तं सम्पूर्णं भविष्यति। मुख्यमन्त्रिणा उक्तं यत् प्रदेशे आर्थिकसंपदः विद्यमानः अस्ति। शासनं केवलं सुखाय न, किन्तु समाजस्य सामान्यजनानाम् हिताय च। आर्थिकाह्वानानां सम्मुखीकरणं अस्माभि: युद्धस्तरे कृतम्, राजनीतिक-आह्वानानि अपि सम्मुखीकृतानि।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, HP NEWS, HPCM, sports news, दिव्य हिमाचल समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article कांगड़ाया: सर्वाणि शक्तिपीठानि वंदेभारतरेलयानेन सम्बद्धानि भवेयु: – डॉ राजीव: भारद्वाज:
Next Article CM Sukhu: मुख्यमंत्री सुखविन्दरसिंहसुक्खुः संवेदनशीलतां प्रदर्शितवान्, मञ्चात् अवतीर्य दिव्यांगक्रीडिकायै सम्मानम् अयच्छत्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?