By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: National News : प्रमुखा: राष्ट्रीयवार्ता:  PM Modi : चण्डीगढनगरे नूतन-आपराधिकविधीनां सफलकार्यन्वयनं राष्ट्राय समर्पितम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > National News : प्रमुखा: राष्ट्रीयवार्ता:  PM Modi : चण्डीगढनगरे नूतन-आपराधिकविधीनां सफलकार्यन्वयनं राष्ट्राय समर्पितम्
दिवसविशेषःराष्ट्रीयवार्ताः

National News : प्रमुखा: राष्ट्रीयवार्ता:  PM Modi : चण्डीगढनगरे नूतन-आपराधिकविधीनां सफलकार्यन्वयनं राष्ट्राय समर्पितम्

डॉ मनोज शैल
Last updated: 2024/12/03 at 9:13 PM
डॉ मनोज शैल
Share
5 Min Read
SHARE

National News : प्रमुखा: राष्ट्रीयवार्ता: 

1. PM Modi : चण्डीगढनगरे नूतन-आपराधिकविधीनां सफलकार्यन्वयनं राष्ट्राय समर्पितम्

हिमसंस्कृतवार्ताः। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन चण्डीगढनगरे नूतन-आपराधिकविधीनां सफलकार्यन्वयनं राष्ट्राय समर्पितम्। अस्मिन् अवसरे केन्द्रीयो गृहमन्त्री सहकारितामन्त्री च अमितशाहः अपि उपस्थितः आसीत् । आयोजनं सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् नूतनानां आपराधिकविधीनां कार्यान्वयनम् अस्माकं संविधानेन अस्माकं देशस्य नागरिकानां कृते ये आदर्शाः परिकल्पिताः तेषां पूर्तये दृढपदं वर्तते। प्रधानमन्त्रिणा उक्तं यत् एते नूतनाः विधयः भारतं औपनिवेशिकविधिविचारेभ्यः मुक्तं करिष्यन्ति। चण्डीगढे नूतनानां आपराधिकविधीनां सफलकार्यन्वयनार्थं पञ्जाब-हरियाणा- उच्चन्यायालयस्य विधिवेतृणां चण्डीगढ-न्यायालय-सदस्यानां च धन्यवादं अभिनन्दनं च दत्तवान्।

अस्मिन् अवसरे केन्द्रीयमन्त्री अमितशाहः अवदत् यत् त्रयः नूतनाः आपराधिकविधयः सम्पूर्ण देशे वर्षत्रयाभ्यन्तरे कार्यान्विताः भविष्यन्ति। श्रीशाहः अवदत् यत् इमे विधयः भारतीयैः निर्मिताः, भारतीयसंसदि, जनेभ्यः न्यायं प्रदातुं च निर्मिताः सन्ति । ततः पूर्वं मोदीमहोदयः शाहमहोदयः च चण्डीगढनगरे परिवर्तनकारीणां नवीनानाम् आपराधिकविधीनां त्रयाणां भारतीयन्यायसंहिता, भारतीयनागरिकसुरक्षासंहिता, भारतीयसाक्ष्याधिनियमानां च विषये एकां प्रदर्शनीं द्रष्टुम् अपि गतवन्तौ।

 

 

2. राष्ट्रपतिना अन्ताराष्ट्रियदिव्याङ्गदिवसस्य उपलक्ष्ये त्रयस्त्रिंशयः अनुकरणीयव्यक्तिभ्यः संस्थाभ्यः च विकला‌ङ्गजनसशक्तिकरणाय राष्ट्रियपुरस्काराः प्रदत्ताः

हिमसंस्कृतवार्ताः। राष्ट्रपति द्रौपदी मुर्मू इत्यनया नवदिल्लीनगरे ऐषमः अन्ताराष्ट्रियदिव्याङ्गदिवसस्य उपलक्ष्ये त्रयस्त्रिंशयः अनुकरणीयव्यक्तिभ्यः संस्थाभ्यः च विकला‌ङ्गजनसशक्तिकरणाय राष्ट्रियपुरस्काराः प्रदत्ताः।

आयोजने सभां सम्बोधयन्ती श्रीमतिः मुर्मूः अवदत् यत् अद्यतनपुरस्कारविजेतारः समाजस्य सम्मुखे आदर्शरूभूताः सन्ति। सा अवदत् यत् तेषां अनुकरणं कृत्वा अन्याः व्यक्तयः संस्थाः च दिव्या‌ङ्गजनानां सशक्तिकरणं प्रति अग्रे आगन्तुं शक्नुवन्ति।राष्ट्रपतिः अवदत् यत् दिव्याङ्गजनानाम् उद्यमशीलतायाः प्रचारः, तेषां कौशलस्य विकासः च तेभ्यः वृत्त्यवसरान् प्रदातुं, तेषां उत्पादानाम् क्रयणे प्राधान्यं प्रदातुं, विपणनसुविधाः च प्रदातुं साहाय्यं करिष्यति।

तेषां उदाहरणम् अनुसृत्य अन्येऽपि दिव्याङ्गानाम् सशक्तिकरणस्य दिशि अग्रे आगन्तुं शक्नुवन्ति इति सा बोधितवती। अद्यतनपुरस्कारविजेतारः प्रेरणायाः स्रोतोभूताः सन्ति । सममेव सा द्विव्याङ्गानां कृते सार्वत्रिकसुलभतां प्रदातुं सुगम्यभारत-अभियानस्य भूमिकां प्रकाशितवती ।दिव्याङ्गजनानां कृते सर्वथा बाधारहितं वातावरणं प्रदातुं समाजस्य प्राथमिकता भवेत्। सा उल्लेखं कृतवती यत् अस्मिन् वर्षे “समावेशिक-स्थायि-भविष्यतः कृते दिव्याङ्गानाम् नेतृत्वस्य प्रवर्धनम्” इति विषयः अन्ताराष्ट्रिय-दिव्याङ्ग-व्यक्ति-दिवसस्य उत्सवस्य कृते चितो वर्तते ।अस्मिन् अवसरे सामाजिकन्यायसशक्तिकरणमन्त्री डॉ. वीरेन्द्रकुमारः दिव्याङ्गजनानाम् जीवनं समृद्धं कर्तुं षोडश परिवर्तनकारि- उपक्रमाणाम् अनावरणं कृतवान्।

 

3. सीमाक्षेत्रेषु शान्तिः भारतचीनयोः उभयोः देशयोः प्राथमिकता- विदेशमन्त्री जयशंकरः

हिमसंस्कृतवार्ताः। विदेशमन्त्रिणा डॉ. एस जयशंकरेण बोधितं यत्सीमाक्षेत्रेषु शान्तिः भारतचीनयोः उभयोः देशयोः प्राथमिकता अस्ति। सः अवदत् यत्, आगामिषु दिनेषु सीमाक्षेत्रेषु सैन्यगतिविधीनां नैयून्यस्य, प्रभावि-प्रबन्धनस्य च द्वयोः विषये चर्चा भविष्यति। विदेशमन्त्री लोकसभायां चीनदेशेन सह भारतस्य सम्बन्धानां अद्यतनविकासविषये वक्तव्यं ददाति स्म। डॉ. एस जयशंकरः अवदत् यत् विंशत्युत्तरद्विसहस्रतमस्य वर्षस्य एप्रिल-मे-मासयोः पूर्वीलद्दाखे भारतीय-चीन-सेनयोः मध्ये सम्मुख-सङ्घर्षकारणात् तदारभ्य उभयोः देशयोः सम्बन्धाः असामान्यप्रायाः वर्तन्ते। सः सशस्त्रसेनानां भूमिकायाः प्रशंसाम् अकरोत् तदा यत् तस्मिन् काले कोविस्थितौ आह्वानेषु सत्स्वपि भारतं द्रुतगत्या प्रभाविरूपेण च प्रतिनियोजनं कर्तुं समर्थम् अभवत्।

 

4. केन्द्रप्रशासनेन विगतेषु- दशवर्षेषु न्यूनतम समर्थनमूल्ये प्रायः त्रिगुणात्मिकी वृद्धिः कृतास्ति-कृषिमन्त्री शिवराजसिंहचौहानः

हिमसंस्कृतवार्ताः। केन्द्रीय-कृषि-कृषक-कल्याणमन्त्री शिवराजसिंह चौहानः उक्तवान् यत् केन्द्रप्रशासनेन विगतेषु- दशवर्षेषु न्यूनतम समर्थनमूल्ये प्रायः त्रिगुणात्मिकी वृद्धिः कृतास्ति। गतदिने लोकसभायाम् एकस्य प्रश्नस्य प्रत्युत्तरे असौ कथितवान् यत् एनडीए-प्रशासनेन व्यये पञ्चाशत्-प्रतिशतं लाभं संयोजयित्वा एमएसपी इति न्यूनतम समर्थन-मूल्यं निर्धारितम्।

 

5. जीवाश्मेन्धनस्य विकल्पत्वेन इथेनॉल-मेथनॉल इत्येतयोः सदृशयोः जैवैन्धनयोः उपयोगाय बलं प्रदत्तवान् परिवहनराजमार्ग मंत्री नितिनगडकरी

मार्ग परिवहनराजमार्ग मंत्री नितिन गडकरी जीवाश्मेन्धनस्य विकल्पत्वेन इथेनॉल-मेथनॉल इत्येतयोः सदृशयोः जैवैन्धनस्य उपयोगाय बलं प्रदत्तवान् । नवदिल्ल्याम् ऊर्जासङ्क्रमण- सततमार्ग-परिवहनम् आश्रित्य अष्टादश-सम्मेलनं सम्बोधयन् श्री गडकरी प्रधानमन्त्रिणः नरेन्द्रमोदिनः पञ्च-ट्रिलियन डॉलरमितायाः अर्थव्यवस्थायाः स्वप्नं पूरयितुं जीवाश्मेन्धनस्य आयातं न्यूनीकर्तुं बलं प्रदत्तवान् । तेनोक्तं यत् भारतं प्रायः द्वाविंशति-लक्षकोटि जीवाश्मेन्धनस्य आयातं करोति अथ अस्याः मात्रायाः न्यूनीकरणेन अर्थव्यवस्था सुदृढा भविष्यति।

 

6. संसदवार्ताः-षष्ठे दिने पञ्चदिवसीयः गतिरोधः समाप्तः

संसदः उभयोः सदनयोः कार्यव्यापारः सामान्यतया समारब्धः सर्वकारविपक्षयोः मध्ये प्रचल्यमानः पञ्चदिवसीयः गतिरोधः समाप्तः। लोकसभायां राज्यसभायां च प्रश्नसमये शून्यकाले च जनमहत्त्वस्य विषयाः गृहीताः। लोकसभायां उत्तरप्रदेशस्य सम्भले हिंसाप्रकरणे एकं प्रमुखं व्यापारिकसमूहं विरुध्य कथित उत्कोच आरोपसन्दर्भे सम्पूर्णविपक्षेण बहिष्कारं कृतम्। सभापतिः ओम बिर्ला तान् शून्यकालावधौ स्वविषयान् उत्थापयितुं पृष्टवान्। काङ्ग्रेस-समाजवादीपार्टी डीएमके इत्यादीनां सदस्यैः कोलाहलपूर्णस्य वातावरणस्य निर्माणं कृतम् । शून्यकालावधौ समाजवादीपक्षस्य सांसदः अखिलेशयादवः सम्भलस्य घटना सुनियोजितः षड्यंत्रः आसीत् इति आरोपं कृतवान् । अस्मिन् विषये सम्बद्धानाम् आरक्षिणां प्रशासनिकाधिकारिणां च विरुद्धं कार्यवाही करणीया इति सः आग्रहं कृतवान्। राज्यसभायां समाजवादीपक्षस्य सांसदः प्रो. रामगोपालयादवः अस्य विषयस्य उत्थापनं कृत्वा अस्मिन् राज्यारक्षिणाम् सहभागिता अस्ति इति आरोपं कृतवान् ।

 

7. पी एस एल वी-सी 59 प्रक्षेपणयाने प्रोबा-3 इत्येतस्य प्रक्षेपणंम् अद्य करिष्यति इसरो

भारतीयान्तरिक्षानुसन्धान-संघटनम् अद्य साय‌ङ्काले अष्टाधिक-चतुर्वादने श्रीहरिकोटायाः सतीशधवन – अन्तरिक्ष केन्द्रात् स्व पी एस एल वी-सी 59 प्रक्षेपणयाने प्रोबा-3 इत्येतस्य प्रक्षेपणं करिष्यति। यूरोपीय-अन्तरिक्ष-संस्थायाः प्रोबा 3 इति उपक्रमः भारतीयान्तरिक्षानुसन्धान- सङ्घटनस्य न्यूस्पेस-इण्डिया लिमिटेड इत्येतस्याः वाणिज्यिक शाखायाः सहयोगेन भवति।

 

8. पवन कम्पेली एशिन्-ई स्पोर्ट्स-गेम्स् इत्येतस्यां प्रतियोगितायां ई-फुटबॉलस्पर्धायां कांस्य पदकं प्राप्तवान्

भारतेन थाइलैण्ड्-देशस्य बैङ्कॉक-नगरे अस्य वर्षस्य एशिन्-ईस्पोर्ट्स-गेम्स् इत्येतस्यां प्रतियोगितायां स्व-प्रथमं-पोडियन फिनिश इति प्राप्तम्। इदानीं भारतं ई-स्पोर्ट्स जगति नेतृत्वं कर्तुं शक्ष्यति यतो हि मिस्टर टॉमबॉय इति नाम्ना प्रख्यतिः पवन कम्पेली बैङ्कॉक-नगरे अस्य वर्षस्य एशिन्-ई स्पोर्ट्स-गेम्स् इत्येतस्यां प्रतियोगितायां ई-फुटबॉल कांस्य पदकं स्पर्धायां प्राप्तवान्। अस्मिन् आयोजने इदं भारतस्य प्रथमं पदकं वर्तते।

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

TAGGED: cmo himachal, Daily Sanskrit News, him sanskritam, Himachal government, Himachal news, Himachal Sanskrit Academy, Himsanskritnews, himsanskritnews headlines, narendra modi, National News, national News Headlines, News Headlines, pmo, Sanskrit news, sanskrit news channel, sanskrit News pdf, Today Sanskrit Nerws, varta, vartah, अन्तर्राष्ट्रीय समाचार, आज के संस्कृत समाचार, दैनिक समाचार, बाङ्गलादेश, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, संस्कृत समाचार, संस्कृतवार्ताः, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article KKSU Ramtek: कविकुलगुरु- कालिदास- संस्कृतविश्वविद्यालये आयोज्यते शास्त्रभारती- व्याख्यानमाला
Next Article Himachal News : हिमाचलस्य प्रमुखा: संस्कृतवार्ता: 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?