By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: क्यार्टू संस्कृतमहाविद्यालये आचार्यदिवाकरदत्तजयन्त्याः सफलायोजनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > क्यार्टू संस्कृतमहाविद्यालये आचार्यदिवाकरदत्तजयन्त्याः सफलायोजनम्
दिवसविशेषःसंस्कृतगतिविधयःहिमाचलवार्ता

क्यार्टू संस्कृतमहाविद्यालये आचार्यदिवाकरदत्तजयन्त्याः सफलायोजनम्

डॉ.अमनदीप शर्मा
Last updated: 2024/09/29 at 6:15 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

क्यार्टू संस्कृतमहाविद्यालये आचार्यदिवाकरदत्तजयन्त्याः सफलायोजनम्
शिमला जनपदः क्यार्टूसंस्कृतमहाविद्यालये आचार्यदिवाकरदत्तशर्मणः जयन्त्यावसरे हिमाचलसंस्कृत-अकादम्याः सहयोगेन छात्रविद्वत्सम्मेलनस्य आयोजनं शनिवासरे अभवत्। अस्मिन्नावसरे कार्यक्रमस्य अध्यक्षता संस्कृतमहाविद्यालयस्य पूर्वाचार्येण कलिरामवर्मणा कृता, तत्रैव मुख्यातिथित्वेन आचार्यदिवाकरदत्तस्य प्रौत्रः विरोचनशर्मा उपस्थितः जातः।

कार्यक्रमे सोलनतः सेवानिवृत्तः पूर्वप्राचार्यः डॉ.प्रेमलालगौतमः, सुन्दरनगरतः सेवानिवृत्तः पूर्वप्राचार्यः डॉ.लीलाधरवात्सायनः सारस्वतातिथिषु विराजमानाः अभवन्। संस्कृतशोधपत्रवाचकेषु चौपालतः डॉ.रितेशशर्मा, सुन्दरनगरतः खुशवन्तसिंहः, सोलनतः डॉ.ओंकारचन्दः, जांगलातः डॉ.अनीतभार्गवः, बलाहरविश्वविद्यालयात् डॉ.पंकजः, संस्कृतशिक्षकपरिषदः प्रदेशाध्यक्षः डॉ.मनोजशैलः, सोलनतः डॉ.विनयशर्मा, क्यार्टूतः पूर्वप्राचार्यः चतरसिंहः, डॉ.सुनशीलगौतमः प्रभृतयः संस्कृतविद्वान्सः शोधपत्रवाचनं कृतवन्तः। अकादमी सचिवेन डॉ.केशवानन्दकौशनेन सर्वेषां समागताम् अतिथीनां स्वागतं कृतम्।

संस्कृतमहाविद्यालयस्य छात्रैः अधरं मधुरं इत्यस्मिन् गीतेन संस्कृतनृत्यस्य प्रस्तुतिः प्रस्तुता। संस्कृतमहाविद्यालयः क्यार्टू इत्यस्य आचार्येण डॉ.दिनेशभारद्वाजेन आचार्यदिवाकरदत्तशर्मणा संस्कृतक्षेत्रे कृत्तानां कार्याणां विषये शोधपत्रं प्रस्तुतम्। डॉ.भारद्वाजेनोक्तं यत् हिमालयस्य भूभागे वेदर्षिभिः वेदाः रचिताः, अतः वयं सौभाग्यशालिनः स्म, अस्यामेव सरण्यां विंशतिशताब्द्यां हिमाचलप्रदेशकुलगुरुः आचार्यः दिवाकरदत्तशर्मा महदोद्योगेन पर्वतीयदुर्गमक्षेत्रे संस्कृतप्रचारप्रसारस्य कठिनकार्यस्य ध्वजां उत्तोलितवान्।
डॉ.प्रेमलालगौतमवर्येण स्वीये वक्तव्ये आचार्याणां जीवनानुभवस्य वर्णनं कृतम् किञ्च स्वरचितकाव्यस्य पाठनं कृतम्। संस्कृतशिक्षकपरिषदः प्रदेशाध्यक्षेण डॉ.मनोजशैलेन हिमाचलप्रदेशे संस्कृतपत्रकारितायां आचार्यदिवाकरदत्तस्य योगदानम् इति विषये शोधपत्रवाचनं कृतम्। तेनोक्तं यत् आचार्येण हिमाचले संस्कृतपत्रकारितायाः बीजवपनं कृतम्। तदनन्तरं सोलनस्य मनसारामवर्येणापि स्वहस्तलिखितवार्ताः पत्रेण संस्कृतपत्रकारितायाः कार्यः अग्रे वर्धितः। अस्मिन्नैव क्रमे वर्तमानसमये हिमसंस्कृतवार्तायाः प्रयत्नाः समग्रे भारते देदीप्यन्ते। डॉ.मनोजशैलेनोक्तं यत् संस्कृतपरिषदः सहायेन वयं प्रतिवर्षं पुरस्काराणां प्रदानं करिष्यामः। येषु आचार्यदिवाकरदत्तशर्मा राज्यस्तरीयः पुरस्कारः, आचार्यदुर्गादत्तशर्मा राज्यस्तरीयः पुरस्कारः, आचार्यशालिग्रामशर्मा राज्यस्तरीयपुरस्कारः। हिमसंस्कृतवार्तापत्रिकायाः सम्पादकस्य डॉ.अमनदीपशर्मणा अपि काव्यपाठेन आचार्याय श्रद्धाञ्जलिः अर्पिता।
कार्यक्रमे क्यार्टूमहाविद्यालयपक्षतः मध्ये मध्ये सांस्कृतिककार्यक्रमाणाम् प्रदर्शनं कृतम्। अस्मिन् काले क्यार्टूसंस्कृतमहाविद्यालस्य शिक्षकेन डॉ.वेदप्रकाशपाण्डेयः द्वारा विवाहवृन्दावनम् इत्यस्य स्वरचितस्य पुस्तकस्य विमोचनं कृतम्। डॉ.सन्तोषशर्मणा सर्वेषां समागतानां शिक्षकाणां धन्यवादः कृतः।
अकादमी पक्षतः सर्वे शोधपत्रवाचकाः शिक्षकाश्च प्रमाणपत्रैः स्मृतिचिह्नैः सम्मानिता।

You Might Also Like

*केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय१५तमयुवमहोत्सवः श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य आयोजकेन सम्पन्नः जातः*  

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article दिव्यज्योतिः पत्रिकायाः सम्पादकः आचार्यदिवाकरदत्तशर्मा
Next Article HP NEWS : अहं काङ्ग्रेसस्य समर्पितः कार्यकर्ता-विक्रमादित्यसिंह:
1 Comment 1 Comment
  • योगेश अत्रि says:
    September 28, 2024 at 12:00 pm

    बहुशोभनम्।

    Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?