दिव्यज्योतिः पत्रिकायाः सम्पादकः आचार्यदिवाकरदत्तशर्मा।
हिमाचलप्रदेशः ऋषीणां महर्षीणाञ्च भूमिः। समस्ते भारते आचार्यदिवाकरदत्तमहोदयः संस्कृतस्य परिरक्षणे कर्मठपुरुषरूपेण ख्यातिलब्धोऽस्ति। एतेषां जन्म शिमला नगरासन्ने धामीस्थाने नारायणनिवासगृहे प्रख्यातसारस्वतवंशस्य राजगुरू परिवारे सितम्बरमासस्य 28 दिनांके 1923 तमे वर्षे अभवत्। आचार्याणां मातुः नाम गौरीदेवी आसीत्। आचार्यः पंजाबविश्वविद्यालयात् लाहौरस्थात् शास्त्री उपाधिं, बङ्गप्रदेशस्य कलकताविश्वविद्यालयात् काव्यतीर्थोपाधिः, राजस्थानजयपुरशिक्षाविभागात् साहित्याचार्यस्योपाधिः प्राप्तवान्। एतदतिरिक्तम् अयोध्यातः विद्यालंकारस्योपाधिः, भारतीवविद्वत्परिषदात् विद्यावाचस्पतिः सम्मानम्, प्रचारकमण्डलम् दिल्लीतः विद्यावागीशोसम्मानं प्राप्तवान्। अध्ययनानन्तरं आचार्यमहोदयः राजकीयनेहरूसंस्कृतमहाविद्यालयस्य प्राचार्यपदे अभिषिक्तोऽभवत् तथा च भिक्षाटनादिभिः उपायैः मशोबरी शोधसंस्थानस्य संस्थासंचालनकार्ये बद्धपरिकरः जातः। आचार्येण सम्भवतः पञ्चाशत् वर्षाणि यावत् विश्वज्योतिः पत्रिकायाः अनवरतरूपेण सम्पादनं प्रकाशनञ्च कृतम्। आचार्याणाम् अनन्तरं तेषां दत्तकपुत्रेण केशवदत्तशर्मणा अपि दिव्यज्योतिः पत्रिकायाः प्रकाशने महत्वपूर्णा भूमिका निर्वाहिता। आचार्यः दिवाकरदत्तशर्ममहाभागाः अतुलनीयकार्यवशाद् राष्ट्रपतिः पुरस्कारेणापि प्रशंसितः।
हिमाचलस्य नामकरणे आचार्यदिवाकरदत्तस्य योगदानम्
हैमाचलीयाः सर्वे जानन्ति यत् १५ अप्रैल दिनाङ्कः हिमाचलदिवसः इति नाम्नः ज्ञायते, यतोहि अस्मिन् दिने १५ अप्रैल १९४८ तमे वर्षे २८ रियासतैः सह अस्य राज्यस्य गठनं जातम्, यद्यपि पूर्णतया राज्यस्य उपाधि १९७१ तमे वर्षे एव प्राप्ता। हिमाचलस्य नामकरणविषये प्रायः अस्माकं नवयुवकाः प्रायः अनभिज्ञाः सन्ति। वस्तुतः हिमाचल इत्यस्य नामकरणस्य जनकः प्रसिद्धः संस्कृतज्ञः आचार्यः दिवाकरदत्तशर्मा महोदयः वर्तते । हिमाचल शब्दोऽयं पूर्वमपि प्रचलने आसीत्। मध्यहिमालयक्षेत्राय अस्य शब्दस्य प्रयोगः भवति स्म। केचन् जनाः हिमाचलम्, हिमांचलम् इत्यपि वदन्ति, परन्तु संविधाननियमेषु हिमाचल इति स्वीकृतोऽस्ति । २८ रिसायतानाम् एकत्रीकरणेन हिमाचलेति नामकरणं सरलं नासीत्, यतोहि गठनात् पूर्वं हिमाचलम् लघुः लघुः एककेषु विभक्तमासीत्। तत्रैव सम्पूर्णभारतदेशे ६५० रियासतानां गठनस्य प्रमुखा समस्या सर्वकारस्य सम्मुखे आसीत्। सरदारपटेलः अस्य कृते प्रयासरतः आसीत्। एतासां रियासतानां विलयं कर्तुं १९३७ तमे वर्षे सम्पूर्णदेशे प्रजामण्डलाः निर्मिताः। हिमाचलेऽपि प्रजामण्डलानां गठनम् अभवत्।
हिमाचलस्य वघाटरियासतस्य राज्ञा दुर्गादत्तेन प्रमुखा भूमिका निर्वाहिता। शिमलाक्षेत्रस्य सर्वाभ्यः रियासतेभ्यः संविधानसभा इति नामकरणं दत्तम्। अस्याः सभायाः अध्यक्षः राजा दुर्गासिंहः चयनितः, तत्रैव आई.सी.एस अधिकारी महावीरसिंहः सचिवः चयनितः। २८ जनवरी १९४८ तमे दिनाङ्के सोलनस्य दरबारहॉल इत्यत्र नवराज्यस्य निर्माणहेतोः विशेषसभायाः आयोजनं अभवत्, यस्य अध्यक्षता राज्ञा दुर्गासिंहेन कृता। अस्यां संगोष्ठयां डॉ. यशवन्तसिंहपरमारः, स्वतन्त्रतासैनिकः पदमदेवोऽपि उपस्थितौ आस्ताम्। कथ्यते यत् डॉ. परमारेण हिमालयनस्टेट इति नामकरणस्य परामर्शः दत्तः, परज्ञ्च आचार्यदिवादरदत्तशर्मा द्वारा हिमाचलप्रदेशः इति नामकरणं प्रस्तावितम् । राजानम् दुर्गासिंहम् हिमाचलप्रदेशः इति नामकरणम् अरोचत्। अन्ततः नूतनराज्यस्य नामकरणं हिमाचलप्रदेशम् कर्तुं निर्णयः स्वीकृतः। अमुं प्रस्तावं सर्वैः रियासतैः स्वीकृतिः प्रदत्ता। तदन्तरं केन्द्रीयमन्त्रिमण्डलस्य स्वीकृत्यार्थं प्रस्तावः देहल्यां प्रेषितः, तन्त्र केन्द्रीयगृहमन्त्रिणा सरदारवल्लभभाईपटेलेन प्रस्तावाय स्वीकृतिः प्रदत्ता। एवं प्रकारेण हिमालयस्य राज्यस्य नामकरणं हिमाचलम् इति अभवत्। आचार्यः दिवाकरदत्तशर्मा हिन्दी, संस्कृतम्, राजस्थानी भाषाणां प्रकाण्डविद्वान् ज्योतिषी च आसीत्। शिमलायाः मशोबरा क्षेत्रे एतेषां निवासस्थानम् वर्तते। हिमाचलस्य प्रथमा दिव्यज्योतिः मासिकपत्रिकायाः आचार्यदिवाकरदत्तशर्मा प्रधानसम्पादकः आसीत्। सः धनाभावे साधनाभावेऽपि संस्कृतपत्रिकायाः प्रकाशनं कृतवान्।