अनुरा-दिस्नानायके श्रीलङ्कादेशे राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान्
हिमसंस्कृतवार्ताः। अनुरा-दिस्नानायके श्रीलङ्कादेशे राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान् । श्रीलङ्का-राष्ट्रपतिनिर्वाचने अनुरा-दिस्नानायके विजयाय प्रधानमन्त्री नरेन्द्रमोदी अभिनन्दनं कृतवान्। श्री मोदी स्वसन्देशे उक्तवान् यत् भारतस्य नेबरहुड् फर्स्ट् नीतेः सागरदृष्टौ च श्रीलङ्कायाः विशेषं स्थानं वर्तते। प्रधानमन्त्रिणा उक्तं यत् सः जनस्य सम्पूर्णस्य च क्षेत्रस्य हिताय बह्वायामीसहकार्यं अधिकं सुदृढं कर्तुं दिस्सनायके महोदयेन सह निकटतया कार्यं कर्तुं उत्सुकः अस्ति। श्रीलङ्कादेशे राष्ट्रपतिनिर्वाचनानां मतगणना द्वितीयचरणे संप्राप्ता । यतः प्रथमचरणस्य अपेक्षितं पञ्चाशत प्रतिशतमतानि केनापि प्रत्याशिनेन न प्राप्तानि । निर्वाचनायोगेन उक्तं यत् शीर्षद्वयं अभ्यर्थिनं विहाय अन्ये प्रत्याशिनः किञ्चिदपि मतानि न प्राप्तवन्तः।
अनुरा-दिस्नानायके श्रीलङ्कादेशे राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
