By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/08/04 at 9:33 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

 

राष्ट्रीयवार्ता:

  • राष्ट्रपतिः द्रौपदी मुर्मू  रविवासरे सायं फिजी, न्यूजीलैण्ड, तिमोर लेस्ते इत्येतेषां त्रयाणां देशानां भ्रमणार्थं प्रस्थिता।
  • मध्यप्रदेशस्य सागरमण्डले मन्दिरप्राचीरस्य पतनेन नवबालानां मृत्युः अभवत्। मुख्यमन्त्री मोहनयादवः प्रत्येकं मृतस्य परिवाराय चतुर्लक्षरूप्यकाणाम् अनुग्रहराशिं घोषितवान्।
  • हिमाचलप्रदेशे मेघविस्फोटघटनायां लुप्तानां ४४ जनानाम् अन्वेषणं निरन्तरं प्रचलति।
  • बाङ्गलादेशस्य राजधान्यां ढाकायां आरक्षणविरोधिनः प्रधानमन्त्रिणः शेखहसीना इत्यस्य वार्ताप्रस्तावम् नाङ्गीकृतवन्तः।आन्दोलनकारिणः पुनः ढाकाया: वीथिषु  प्रदर्शनं कुर्वन्ति। 
  • पेरिस-ओलम्पिकक्रीडायां पुरुष- हॉकी- क्वार्टरफाइनलक्रीडायां भारत- ब्रिटेनयोः मेलने भारतेन ब्रिटेनदलं 4-2 इति अन्तरालेन पराजित्य सेमीफाइनलचक्रे प्रवेश: कृतः।
  • रविवासरे बैडमिण्टन- क्रीडायाः पुरुष- एकल- उपान्तक्रीडायां लक्ष्यसेनः सेमीफाइनलचक्रे डेनमार्कदेशस्य विक्टर एक्सेलसेन इत्यस्मात् 22-20, 21- 14 इति अन्तरेण पराजित:।

हिमाचलवार्ता: 

  • नेताप्रतिपक्ष: जयरामठाकुर: शिमलाया: आपदाप्रभावितस्य समेजक्षेत्रस्य प्रवासं कृतवान्। एतस्मिन् काले सः आपदायां लुप्तानां परिवारजनै:, बन्धुजनै: मिलित्वा शोकं प्रकटयन् सान्त्वनां च दत्तवान्। आश्रय-उद्धार-कार्यक्रमानाम् अवलोकनं कृतवान् ।
  • मुख्यमंत्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशः विद्युत्निर्धारणेन, उत्तमलेखाप्रबन्धनेन च प्रतिवर्षं प्रायः २०० कोटिरूप्यकाणाम् अर्जनं करिष्यति। केन्द्रीयविद्युत् नियामक-आयोगेन विद्युत् उत्पादनस्थानकानां बसबारत: मुक्तविद्युत: समयनिर्धारणं लेखाप्रबन्धनं च सुव्यवस्थितं कर्तुं नूतनप्रक्रियायाः अनुमोदनं कृतम्।
  • पालमपुरस्य पुत्री डॉ. श्वेता सूद पशुचिकित्साक्षेत्रे अविश्वसनीययोगदानाय इण्डिया- इन्टरनेशनल- पोल्ट्री- एक्स्पो- २०२४ इत्यस्मिन् “पश्चिमप्रभावशाली महिला पशुचिकित्सकपुरस्कारः २०२४” इति पुरस्कारेण पुरस्कृता। शनिवासरे पुणेनगरे आयोजिते इण्डिया इन्टरनेशनल पोल्ट्री एक्स्पो २०२४ इत्यस्य समापनसमारोहे तस्यै एषः प्रतिष्ठितः पुरस्कारः प्रदत्तः।
  • शिमलाजनपदस्य रामपुरक्षेत्रस्य समेजे चतुर्थदिने अपि प्राचलत् अन्वेषणकार्यक्रमः, अद्यापि ३३ जनाः अदृश्याः सन्ति। मण्डी जनपदस्य राजबने अन्वेषणकार्यक्रमस्य चतुर्थे दिने एकस्याः महिलायाः बालिकायाः च मृतशरीरे प्राप्ते।

 

You Might Also Like

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: Himachal news, himsanskritnews headlines, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article जयन्तीविशेष: – हिमाचलस्य निर्माता डॉ यशवंतसिंहपरमार:
Next Article जयरामठाकुर: आपदा-प्रभावितस्य समेजस्य प्रवासं कृत्वा पीडितान् असांत्वयत्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?