By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/07/23 at 10:15 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

राष्ट्रीयवार्ता: 

  • वित्तमन्त्री निर्मला सीतारमण इत्येषा संसदि एनडीएप्रशासनस्य तृतीयकार्यकालस्य प्रथमं केन्द्रीयवित्तसंकल्पनापत्रकं प्रस्तुतवती।
  • प्रख्यापिते वित्तसंकल्पनापत्रके द्विलक्षकोटिरूप्यकाणां परिव्ययेन सह पञ्च वर्षाणाम् अवधौ चतुः कोट्यधिकेभ्यः युवभ्यः कौशलवृत्यवसरौ संवर्धयितुं पञ्चयोजनानाम् उपक्रमाणाञ्च प्रधानमन्त्रिणः संग्रहणस्य घोषणा जाता ।
  • प्रशासनेन आयकरमानेषु संशोधनं विहितम्, वेतनभोग्यकर्मचारिणां कृते मानकव्यवकलनं पंचाशत् सहस्ररूप्यकात् पञ्चसप्तति-सहस्ररूप्यकाणि यावत् वर्धितम्।
  • वैदेशिकमूलधनम् आक्रष्टुं वैदेशिकोद्यमेषु निगमकरस्य मूल्यम् चत्वारिंशत् प्रतिशतात् पञ्चत्रिंशत् प्रतिशतं यावत् न्यूनीकृतम्।
  • महिलानेतृत्वविकासयोजनानां कृते त्रिलक्षकोटिरूप्यकाणाम् आबण्टनमपि जातम्।

हिमाचलवार्ता:

  • नेताप्रतिपक्ष एवं पूर्वमुख्यमन्त्री जयरामठाकुरः अवदत् यत् केन्द्रस्य मोदीसर्वकारस्य तृतीयकार्यकालस्य प्रथमबजटं विकसितभारतस्य लक्ष्याणां साकारीकरणस्य दिशि आधारभूतम् अस्ति। अस्मिन् बजटे सर्वकारेण सर्वेषां वर्गानां सशक्तिकरणाय प्रभावी पदानि स्वीकृतानि सन्ति। निर्धनानाम्, युनां, महिलानां, करदातृॄणां च हितं मनसि कृत्वा आश्रयं दत्तम् अस्ति। एतत् बजटं देशस्य युनां मनोबलं वर्धयिष्यति।
  • किन्नौर प्रशासनेन भगवतः शिवस्य शिशिरनिवासस्थानस्य किन्नरकैलाशस्य यात्रायाः कृते २५ जुलै २०२४ दिनाङ्कात् प्रातः ११ वादनतः पञ्जीकरणतिथिः आरभ्यते इति घोषणा प्रसारिता अस्ति। ऑनलाइन-ऑफलाइन-पञ्जीकरणं २५ जुलाईदिनाङ्के प्रातः ११ वादनतः आरभ्यते। ऑनलाइन पञ्जीकरणार्थं http://hpkinnaur.nic.in इत्यत्र पञ्जीकरणं कर्तव्यं भविष्यति, यदा तु आफलाइन पञ्जीकरणं यात्रादिने एव ताङ्गलिंग ग्रामं गत्वा  कर्तुं शक्यते।
  • हिमाचलप्रदेशे त्रिवर्षाणि यावत् एकस्मिन् स्थाने कार्यरतानाम् अधिकारिणां स्थानान्तरणं भविष्यति। मुख्यमन्त्रीकार्यालयेन आबकारी, जलशक्ति:, लोकनिर्माणम्, स्वास्थ्यम्, कृषि:, उद्यानिकीसहितं अनेकविभागानाम् अधिकारिभ्यः, प्रशासनिकसचिवेभ्यः, विभागप्रमुखेभ्यः च एतादृशानां अधिकारिणां सूची आहूता अस्ति। राज्ये एतादृशानां अधिकारिणां कार्यप्रदर्शनस्य अपि मूल्याङ्कनं भविष्यति।
  • बीबीएन-उद्यमिनः बजटस्य प्रशंसाम् अकुर्वन्। उद्योगसङ्घः कथयति यत् बजटे नूतनभारतस्य स्पष्टदृष्टिः अस्ति। पर्यावरणसंरक्षणस्य सौरशक्तिप्रवर्धनस्य च प्रावधानम् अस्ति । केन्द्रीयबजटं अभियाचनां वर्धयति, भारतं स्वनिर्भरं कर्तुं साहाय्यं करिष्यति।

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, himsanskritnews headlines, India News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के मुख्य समाचार, इण्डिया न्यूज़, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल के मुख्य समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Budget Session 2024 : संसदि एनडीएप्रशासनस्य तृतीयकार्यकालस्य प्रथमं केन्द्रीयवित्तसंकल्पनापत्रकं
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?