By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/07/22 at 8:20 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

 

राष्ट्रीयवार्ता: 

  • संसदः वित्त-सङ्कल्पना-सत्रं सोमवासरे आरब्धम्। वित्तमन्त्री निर्मला सीतारमण उभयोः सदनयोः त्रयोविंशत्युत्तर-चतुविंशत्युत्तर-द्वि-सहस्र-तमवर्षीयम् आर्थिक-सर्वेक्षणं प्रास्तौत्।
  • आर्थिकसर्वेक्षणे वास्तविकसकल- गृहोत्त्पादस्य वृद्धे: परिमितिः प्रतिशतं सार्धषट्-मितात् सप्तमिताभ्यन्तरे स्थास्यति इति अनुमीयते। रिजर्व वित्तकोषेनापि प्रवर्तमान-वितवर्षे मुद्रास्फीतिः प्रतिशतं दशमलवोतर-पञ्चाधिक-चतुर्मिता आशास्यते।
  • वित्तमन्त्री मङ्गलवासरे एन.डी.ए. इति राष्ट्रिय- जनतांत्रिकसंयुतेः सर्वकारस्य तृतीयकार्यकालस्य प्रथमं साधारणं वित-सङ्‌कल्पना-पत्रकं सम्प्रस्तोष्यति।
  • प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् वित-सङ्कल्पनापत्रकं विकसितभारताय’ सुदृढम् आधारं स्थापयिष्यति।
  • केन्द्रीय-शिक्षामन्त्री धर्मेन्द्रप्रधानः अकथयत् यत् नीट-यूजी प्रश्नपत्रो‌द्घाटनस्य प्रकरणे नामनिगूहनस्य  कश्चित् प्रसङ्गः नास्ति।

 

हिमाचलवार्ता:

  • साइबर-प्रकोष्ठ:  ईमेलद्वारा हिमाचलप्रदेश उच्चन्यायालये प्रेषितस्य विस्फोटकपदार्थै: विस्फोटयितुं संतर्जनप्रकरणस्य  अन्वेषणं करिष्यति। जिलापुलिसेन अन्वेषणं साइबर-प्रकोष्ठाय समर्पितम् अस्ति। यतः अस्मिन् प्रकरणे बहवः तान्त्रिकपक्षाः सन्ति, अतः साइबरविशेषज्ञैः अन्वेषणं करणीयम् इति सहमतिः कृता अस्ति।
  • उपनिर्वाचनं जित्वा नवनिर्वाचिताः त्रयः विधायकाः सोमवासरे शपथवचनं गृहीतवन्तः। तेषु देहरातः कमलेशठाकुर, हमीरपुरतः आशीषशर्मा, नालागढतः बावा हरदीपः च सन्ति। शपथग्रहणसमारोहे मुख्यमंत्री सुखविंदरसिंहसुक्खु:, प्रतिपक्षनेता जयरामठाकुर:, मन्त्रिण: विधायका: अन्ये मान्योमान्या: च उपस्थिता: अभवन्। विधानसभाया: अध्यक्षः कुलदीपसिंहपठानिया सदनस्य सभागारे  त्रयाणां विधायकानां शपथग्रहणं कारितवान्।
  • विधानसभायां विधायकानाम् शपथग्रहणानन्तरं मीडियाप्रतिनिधिभिः सह भाषमाणः जयरामठाकुरः अवदत् यत् सर्वकारं सम्यक् मार्गे स्थापयितुं विपक्षस्य कार्यम् अस्ति। तस्य प्रत्येकं जनविरोधी- कार्यस्य अधिनायकत्वस्य निर्णयस्य च दृढतया विरोधं भवेत्। यदि सर्वकारः उत्तमं कार्यं करोति तर्हि भारतीयजनतापक्षः सर्वकारेण सह अस्ति, परन्तु यदि स्वेच्छाचारी अस्ति तर्हि सर्वकारस्य विरुद्धं अपि स्वरं उत्थापयिष्यति।
  • जयरामठाकुरः अवदत् यत् मुख्यमन्त्री इतस्तत्: वार्तालापस्य स्थाने सार्धैकवर्षे सर्वकारेण प्रायः २५ सहस्रकोटिरूप्यकाणां ऋणं किमर्थं गृहीतम् ? एतेन धनेन सर्वकारेण किं कृतम् ? कुत्र व्ययितम् ? अस्माकं सर्वकारकाले कोरोना इव विभीषिकाया: भयंकरः कालः अपि आगतः। कस्यचित् कर्मचारिणः अधिकारात् एकं नाणकं अपि न न्यूनीकृतम्। एकम् अपि विकासकार्यं स्थगितुं न अनुमन्यते स्म। अद्य राज्ये विकासकार्यं स्थगितम् अस्ति।
  • अधुना देशे सर्वत्र आपणिका: अन्ये च खाद्यव्यापारिणः कतिपयेषु होरासु खाद्यसम्बद्धानि अनुज्ञापत्राणि प्राप्य व्यापारम् आरब्धुं शक्नुवन्ति। एतदर्थं भारतस्य खाद्यसुरक्षामानकप्राधिकरणेन नूतनव्यवस्था कृता। अस्याः प्रणाल्याः अनुसारं आपणिका: अन्ये च तत्क्षणमेव अनुज्ञापत्रं प्राप्तुं शक्नुवन्ति। एतेन व्यवसायस्य आरम्भः बहु सुकरः भविष्यति। पूर्वम् एतादृशी व्यवस्था नासीत्।

 

You Might Also Like

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, himsanskritnews headlines, National & International news, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के मुख्य समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल के मुख्य समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article विपरीताक्षरै: श्रीमद्भगवद्गीता सूचिकया च मधुशाला लिखिता। उत्तरप्रदेशस्य गौतमबुद्धनगरस्य पीयूषगोयलः पञ्चप्रकारेण पञ्च लोकप्रियपुस्तकानि अरचयत्
Next Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?