By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Budget Session 2024 : संसदि एनडीएप्रशासनस्य तृतीयकार्यकालस्य प्रथमं केन्द्रीयवित्तसंकल्पनापत्रकं
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > Budget Session 2024 : संसदि एनडीएप्रशासनस्य तृतीयकार्यकालस्य प्रथमं केन्द्रीयवित्तसंकल्पनापत्रकं
राष्ट्रीयवार्ताः

Budget Session 2024 : संसदि एनडीएप्रशासनस्य तृतीयकार्यकालस्य प्रथमं केन्द्रीयवित्तसंकल्पनापत्रकं

डॉ.अमनदीप शर्मा
Last updated: 2024/07/24 at 8:00 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
5 Min Read
SHARE

Budget Session 2024-संसदि एनडीएप्रशासनस्य तृतीयकार्यकालस्य प्रथमं केन्द्रीयवित्तसंकल्पनापत्रकम्
वित्तमन्त्रीनिर्मलासीतारमन इत्येषा लोकसभायां चतुर्विंशत्यधिक- पञ्चविंशत्यधिक- द्विसहस्रतमवर्षयोः सामान्यं वित्तसङ्कल्पनापत्रकं प्रस्तुतवती। इदं नरेन्द्रमोदीप्रशासनस्य तृतीयकार्यकालस्य प्रथमं पूर्णं वित्तसङ्कल्पना पत्रमस्ति। लोकसभायां केन्द्रीय- वित्तसङ्कल्पनापत्रकं सम्मुखीकुर्वती वित्तमन्त्री प्रोक्तवती यत् वैश्विकप्रतिकूलपरिस्थितेः अनन्तरमपि भारतीयार्थव्यवस्था शीर्षस्तरं भजते।

प्रख्यापिते वित्तसंकल्पनापत्रके द्विलक्षकोटिरूप्यकाणां परिव्ययेन सह पञ्च वर्षाणाम् अवधौ चतुः कोट्यधिकेभ्यः युवभ्यः कौशलवृत्यवसरो संवर्धयितुं पञ्च योजनानाम् उपक्रमाणाञ्च प्रधानमन्त्रिणः संग्रहणस्य घोषणा जाता।

वित्तमत्री प्रोक्तवती यत् इदं पत्रकं मुख्यतया वृत्ति-कौशल- सूक्ष्मलघुमध्यमोद्योग-मध्यमवर्गेषु केन्द्रितं वर्तते। यतोहि द्विलक्षकोटिरूप्यकाणां परिव्ययेन सह पञ्चवर्षाणाम् अवधी चतुः कोटि- युवभ्यः पञ्च प्रधानमन्त्रिणः योजनानां पदक्षेपाणाञ्च सङ्ग्रहणस्य घोषणापि जाता। पत्रके एतस्मिन् विकसितभारताय एकां विस्तृतसंरचनां प्रख्यापयन्ती सर्वेभ्यः अवसरप्रदातुः प्रशासनस्य नव-प्राथमिकताः अपि उल्लिखिताः। एतासु प्राथमिकतासु कृषिवृत्यवसर- कौशलसमावेशि- मानवसंसाधनविकास- सामाजिकन्याय- विनिर्माणसेवा- नगरीयविकासोर्जासुरक्षा- आधारभूतसंरचना- नवाचारानुसन्धान-विकास-इत्यादयः समाविष्टास्सन्ति। वित्तमन्त्रिणा नवीनकरव्यवस्थायाः अन्तर्गतम् आयप्राप्तकर्मचारिभ्यः आयकरे मानकव्यवकलनं पञ्चाशत्सहस्ररुप्यकेभ्यः संवर्ध्य पञ्चसप्ततिसहस्ररुप्यकाणि यावत् कृतम्। एवमेव निवर्तिवेतन- भोक्तृभ्यः पारिवारिक-वार्षिक वृत्ती व्यवकलनं पञ्चदशसहस्ररुप्यकेभ्यः पञ्चविंशतिसहस्ररुप्यकाणि यावत् कृतम्। अनेन भूयोऽपि चुतः कोटि वेतनभोगिकर्मिणः निवर्तिवेतनधारकाश्च लाभान्विताः भविष्यन्ति। एदतिरिच्य प्रशासनेन नवीनकरव्यवस्थां प्राप्तकर्तृभ्यः कर-निक्षेप-संरचनायामपि संशोधनं कृतम्। वित्तमन्त्री अस्माकं विकास- आवश्यकताभ्यः वैदेशिक-मूलधनम् आक्रष्टुं वैदेशिकोद्यमेषु निगमितकरस्य मानं चत्वारिंशत् प्रतिशततः न्यूनीकृत्वा पञ्चत्रिंशत्प्रतिशत पर्यन्तं कृतवती। प्रशासनेन भारतीयनवाचारं सदृढीकर्तुम् अपि च उद्यमशीलतायाः भावं वर्धयितुं सर्वेषां वर्गाणां निवेशकेभ्यः प्रसिद्धः एंजेलकरः निस्सारितः। एतदतिरिच्य प्रशानेन एकषष्ट्यधिक- नवदशशततमस्य आयकराधिनियमस्यापि व्यापकसमीक्षा करिष्यते इत्यस्यापि घोषणा कृता। अवधेयं वर्तते यत् अस्य वर्षस्य वित्तसङ्कल्पनापत्रे कृषिसम्बद्धेभ्यः क्षेत्रेभ्यः सार्धंकलक्षकोटि-रुप्यकाणां प्रावधानमपि अस्ति।

अनेन वित्तसङ्कल्पनापत्रकेण समाजस्य प्रत्येकः वर्गः लाभान्वितो भविष्यति-प्रधानमन्त्री

Finance Minister @nsitharaman Ji is presenting the Budget in Parliament.https://t.co/Air1E6zESR

— Narendra Modi (@narendramodi) July 23, 2024


प्रधानन्त्री नरेन्द्रमोदी केन्द्रीय-वित्त-सङ्कल्पनापत्रकं प्रशंसितवान्। एकस्मिन् दृश्याङ्कनसन्देशे प्रधानमन्त्रिणा उक्तं यत् अनेन वित्तसङ्कल्पनापत्रकेण समाजस्य प्रत्येकः वर्गः लाभान्वितो भविष्यति। प्रधानमन्त्रिणा कथितं यत् इदं पत्रकं विकासशीलभारताय अस्ति यत् समावेशिविकासं सुनिश्वितं करोति, समाजस्य सर्वेभ्यः वर्गेभ्यः हितकरं वर्तते तथा च विकसितभारताय मार्ग प्रशस्तीकरोति। तेनोक्तं यत् प्रशासनेन वृत्ति-सम्बद्ध-प्रोत्साहन योजनायाः घोषणा कृता, यया देशे कोटिशः नूतनाः वृत्यवसराः सृजिताः भविष्यन्ति।

The #BudgetForViksitBharat ensures inclusive growth, benefiting every segment of society and paving the way for a developed India.https://t.co/QwbVumz8YG

— Narendra Modi (@narendramodi) July 23, 2024

आन्ध्रप्रदेश-पोलावरम- परियोजनायाः विकासाय वित्तसङ्कल्पनापत्रके महत्वपूर्ण-प्रावधानानां घोषणा जाता-टीडीपी-दलस्य नेता
टीडीपी-दलस्य नेता केन्द्रीय-नागरिकोड्डयनमन्त्री किज्जरपु- राममोहननायडूः केन्द्रीय- वित्तसङ्कल्पनापत्रकं प्रशंसितवान् उक्तवान् च यत् आन्ध्रप्रदेश-पोलावरम- परियोजनायाः विकासाय महत्वपूर्ण-प्रावधानानां घोषणा जाता। अनन्तरं संसदभवनपरिसरे वार्ताहरैः सह संवादं कुर्वन् असौ उक्तवान् यत् पोलावरम-परियोजना राज्यस्य जनेभ्यः जीवनरेखा वर्तते। केन्द्रीय-संसदीय कार्यमन्त्री किरेन रिजिजूः अभिव्यक्तवान् यत् केन्द्रीय-वित्त- सङ्कल्पनापत्रकं सर्वेभ्यः नागरिकेभ्यः स्वप्नसदृशं वर्तते। अद्य संसद् भवन परिसरे वातहिरैः सह संवादं कुर्वन् कथितवान् यत् इदं विकासोन्मुखी- वित्तस‌ङ्कल्पनापत्रकं वर्तते यत् समाजस्य प्रत्येकस्मिन् वर्गे केन्द्रितो वर्तते।

सुवर्ण-रजतधातुषु सीमशुल्के व्यवकलनं कस्मैश्चिदपि उद्योगाय हितकरं वर्तते-गौरवभगतः
उद्योगैः केन्द्रीय-वित्तसङ्कल्पनापत्रस्य स्वागतं व्यवहृतम्। नवदिल्ल्यां वार्ताहरैः सह सम्भाषमाणः फिक्की इत्यस्य अध्यक्षः अनीशशाहः अस्य पत्रकस्य प्रशंसां कृतवान्। असौ कथितवान् यत् इदं सङ्कल्पनापत्रकं विकासोन्मुखी वर्तते यत् युवभ्यः महिलाभ्यः कृषकेभ्यश्च अस्ति। एकस्य उद्यमस्य निर्माता प्रबन्धनिदेशकश्च गौरवभगतः अभिव्यक्तवान् यत् सुवर्ण-रजतधातुषु सीमशुल्के व्यवकलनं कस्मैश्चिदपि उद्योगाय हितकरं वर्तते। फिक्की इत्येतस्य पूर्वाध्यक्षा एकस्य चिकित्सालयसमूहस्य प्रबन्धनिदेशिका च संगीतारेड्डी प्रोदीरितवती यत् विकासेन सह एतस्मिन् सङ्कल्पनापत्रके महिलाभ्यः युवभ्यः ध्यानं प्रदत्तम्।

वित्तसङ्कल्पनापत्रके मनरेगा इत्येतस्याः योजनायाः उल्लेखः न वर्तते- सांसदः शशिः थरूरः

आम लोगों को जिन चुनौतियों का सामना करना पड़ रहा है, उसके बारे में बजट में कोई बात नहीं की गई है. मनरेगा का कोई ज़िक्र नहीं हुआ. ऐसा कोई कदम नहीं उठाया गया है जिससे आम लोगों की आय में बढ़ोतरी हो. #Budget2024 #Nirmalasitaraman pic.twitter.com/fn9w8mCd5j

— Praveen Meena (@praveenmfacts) July 23, 2024


काङ्ग्रेसदलेन वित्त-सङ्कल्पना-पत्रकस्य आलोचना कुर्वता नैराश्यं प्रकटितम्। अनेन दलेन उक्तं यत् अस्मिन् आयवैषम्यं न उल्लिखितम्। सांसदः शशिः थरूरः उक्तवान् यत् वित्तसङ्कल्पनापत्रके मनरेगा इत्येतस्याः योजनायाः अपि उल्लेखः न वर्तते। समाजवादी-दलस्य प्रमुखः अखिलेश-यादवः अपि केन्द्रीय वित्त-सङ्कल्पना-पत्रकस्य आलोचनां कृत्वा उक्तवान् यत् अस्मिन् महार्घतायाः समस्यायाः वृत्यभाव सम्बद्ध-विषयस्य च समाधानं न वर्तते। तेनोक्तं यत् यावत् पर्यन्तं कृषकाणां समस्यानां समाधानं न भविष्यति अथ युवकेभ्यः वृत्तीनां सुव्यवस्था च न भविष्यति, तावत् पर्यन्तं जनेभ्यः लाभः न भविष्यति।
सङ्कल्पनापत्रस्य विशेषविन्दवः
* महिलानां बालिकानां च लाभाय योजनानां कृते ३ लक्षकोटिरूप्यकाणां प्रावधानं कृतम् अस्ति।
*पूर्वोत्तरक्षेत्रे इण्डिया डाकभुगतानबैङ्कस्य १०० तः अधिकाः शाखाः स्थापिताः भविष्यन्ति ।
*राष्ट्रस्य खाद्यसुरक्षा सुनिश्चित्य पोलावरम सिञ्चन परियोजना सम्पन्ना भविष्यति। विशाखापत्तनम्-चेन्नई औद्योगिकगमार्गे कोप्पर्थीक्षेत्रे तथा हैदराबाद-*बेङ्गलूरु औद्योगिकमार्गे ओरवाकलक्षेत्रे विकासाय धनं प्रदत्तं भविष्यति।
*केन्द्रीयबजट २०२४-२५ मध्ये प्रतिवर्षं २५,००० छात्राणां सहायतायै आदर्शकौशलऋणयोजनायां संशोधनं कर्तुं प्रस्तावः अस्ति ।
*ग्रहस्थासु संस्थासु उच्चशिक्षायाः कृते १० लक्षरूप्यकपर्यन्तं ऋणस्य ई-वाउचरं प्रतिवर्षं प्रत्यक्षतया १ लक्षं छात्राणां कृते ऋणराशिस्य ३% वार्षिकव्याजसहायतायां दीयते।
*१ कोटि कृषकाणां कृते प्राकृतिककृषिः शिक्षिता भविष्यति
*महर्घता ४ प्रतिशतं यावत् न्यूनीकर्तुं प्रयत्नः
*वृत्त्यर्थं तिस्रः प्रोत्साहनयोजनाः कार्यान्विताः भविष्यन्ति
३० लक्षं युवानः कार्याणि प्राप्नुयुः वित्तमन्त्री उक्तवान् यत् देशे विनिर्माणक्षेत्रे रोजगारस्य वृद्धिः भविष्यति। ३० लक्षं युवानः कार्याणि प्राप्नुयुः।

You Might Also Like

GDP-: देशस्य अर्थव्यवस्थायां ८.१ प्रतिशतं वृद्धिः: एसबीआई-संस्थायाः प्रतिवेदनम्

हिमाचलस्य वित्तीयस्थितये जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणा सह मिलितवान्

शिक्षा-मन्त्रिणा धर्मेंद्र-प्रधानेन ‘टीचर ऐप 2.0’ इत्यस्य शुभारम्भः कृतः

गृह-मन्त्रालयेन नूतना राष्ट्रियातङ्कवाद-विरोधी नीतिः ‘प्रहार’ इति अनावरिता

गुयाना-देशस्य उपराष्ट्रमन्त्रिणा भरत-जगदेवेन उपराष्ट्रमन्त्रिणा सी.पी. राधाकृष्णन् महोदयेन सह मेलनं कृतम्

TAGGED: Budget, Budget Session 2024
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article सर्वेषां वर्गाणां सशक्तिकरणस्य साधनम् अस्ति आयव्ययकम्, कौशलवृत्यवसरा: प्राप्स्यन्ते- जयरामठाकुरः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?