By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: श्री सोनारी पीएमश्री-गुजरात-प्राथमिकशालायां ‘विकसित भारतम् @२०४७’ इत्यस्य अन्तर्गतम् विविध-स्पर्धाः प्राचीनवस्तूनां प्रदर्शनी च आयोजिताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > श्री सोनारी पीएमश्री-गुजरात-प्राथमिकशालायां ‘विकसित भारतम् @२०४७’ इत्यस्य अन्तर्गतम् विविध-स्पर्धाः प्राचीनवस्तूनां प्रदर्शनी च आयोजिताः
प्रादेशिकवार्ता

श्री सोनारी पीएमश्री-गुजरात-प्राथमिकशालायां ‘विकसित भारतम् @२०४७’ इत्यस्य अन्तर्गतम् विविध-स्पर्धाः प्राचीनवस्तूनां प्रदर्शनी च आयोजिताः

जगदीश डाभी
Last updated: 2026/09/19 at 6:11 PM
जगदीश डाभी
Share
2 Min Read
SHARE

श्री सोनारी पीएमश्री-गुजरात-प्राथमिकशालायां ‘विकसित भारतम् @२०४७’ इत्यस्य अन्तर्गतम् विविध-स्पर्धाः प्राचीनवस्तूनां प्रदर्शनी च आयोजिताः

 

वार्ताहर: – जगदीश डाभी

       (ऊना-गुजरातम्, हिमसंस्कृतवार्ता:) १९/०९/२०२६ दिनाङ्के श्री सोनारी पीएमश्री-गुजरात-प्राथमिकशालायां ‘विकसित भारतम् @२०४७’ अभियानस्य अन्तर्गतम् शालायाः छात्राणां कृते वक्तृत्वस्पर्धा चित्रस्पर्धा च आयोजिता आसीत्। अस्याम् आहत्य १९९ छात्राः भागम् अगृह्णन्। चित्रस्पर्धायाम् उत्कृष्टं प्रदर्शनं कृतवद्भ्यः त्रिभ्यः विजेतृभ्यः छात्रेभ्यः आराधना मनुभाई डाभी, साहिल: अश्विनभाई वंश:, अञ्जलि रामभाई सोलंकी च इति एतेभ्यः पुरस्कारान् दत्त्वा प्रोत्साहनम् अदीयत। यदा वक्तृत्वस्पर्धायां विजेतारौ छात्रौ: निलय सतिष कुमार गोहिल: च क्रिनल परबतभाई मेवाडा इति एतौ अपि पुरस्कारैः प्रोत्साहितौ कृतौ । अस्मिन् विशाले कार्यक्रमे मुख्यअतिथिविशेषरूपेण ऊनाक्षेत्रस्य विधायकः श्रीमान् काळुभाई राठोडः, तालुका भाजपाध्यक्षः श्रीमान् बीजलभाई बांभणीया तथा ऊना तालुका पंचायतसदस्यः श्रीमान् सामतभाई चारणीया विशेषेण उपस्थिताः आसन्।

अस्य कार्यक्रमस्य सहैव आयोजितायाः ‘मम गणेशः मृत्तिकायाः गणेशः’ इति स्पर्धायाः अपि शालया आयोजनं कृतम् आसीत्। शालायाः २०० मात्राः छात्राः स्वहस्तेन निर्मितान् आकर्षकान् मृत्तिकागणेशान् दृष्ट्वा उपस्थितः विधायकमहोदयः छात्राणाम् एतम् उत्साहं वर्धयितुं तेभ्यः १०,००० रूप्यकाणां धनरािं प्रोत्साहनपुरस्काररूपेण अयच्छत्। एतदतिरिच्य, शालायाम् ‘वदन्ति भित्तिः’ इत्यस्य अन्तर्गतम् एका विशेषा प्रदर्शनी आयोजिता आसीत्। यस्यां छात्राः प्राचीनवस्तूनि, पुरातनान् नाणकान् (मुद्राः), परम्परागतभूषणानि तथा ऐतिहासिकवस्तूनि स्वगृहात् आनीतवन्तः। अस्याः अभिनवप्रवृत्तेः भूयसीं प्रशंसां कुर्वन् विधायकः श्री काळुभाई राठोडः तेषां मार्गदर्शकशिक्षकं श्रीमन्तं भरतकुमार शिंगडं प्रति अभिनन्दनं वदन् अकथयत् यत् – “एकः शिक्षकः चिन्तयति चेत् किं कर्तुं न शक्नोति ?” सः शालायाः शिक्षकाणां छात्राणां च अस्याः सर्जनात्मकतायाः प्रयासानां च प्रशंसां कृत्वा उपस्थितान् सर्वान् जनान् भृशम् वर्धापितवान्।

अस्मिन् प्रसङ्गे विधायकमहोदयस्य, उपस्थितानां महानुभावानाम्, शालायाः प्राचार्यस्य, शिक्षकगणस्य, ग्रामीणानां तथा पालकानाम् (अभिभावकानाम्) उपस्थितौ समग्रः कार्यक्रमः अत्यन्तोत्साहेन साफलतापूर्वकं च सम्पन्नः अभवत्।

You Might Also Like

संस्कृतभारती – गुर्जरप्रान्तः पञ्चमहालविभागे अभ्यासवर्गः तथा मार्गदर्शनसत्रं सम्पन्नम्

लद्दाख-सौर-ऊर्जा-परियोजना हिमाचलस्य कृते सङ्कटः, परियोजनायाः पुनर्परीक्षणाय मुखरिताः स्वराः

विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयाय महाकविकालिदाससंस्कृतसाधनापुरस्कारस्य घोषणा

खण्डस्तरीयस्य संस्कृतप्रतियोगितायाः भव्यसमापनम्

बालिका-संस्कृत-विद्यापीठे रक्षाबन्धन-संस्कृतदिवसयोः भव्यः समारोहः

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article सितम्बर-मासे रोहताङ्ग-प्रभृति-शिखरेषु हिमपातस्य शुभ्राच्छादनम्; त्रि-होराः यावत् स्थगिता मणिमहेश-यात्रा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?