By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: आदरणीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य प्रेरक-उपस्थित्यां ‘जय सोमनाथ’ इति शिक्षकमण्डल्या: एकादशी वार्षिकी साधारणसभा आयोजिता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > आदरणीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य प्रेरक-उपस्थित्यां ‘जय सोमनाथ’ इति शिक्षकमण्डल्या: एकादशी वार्षिकी साधारणसभा आयोजिता
प्रादेशिकवार्ता

आदरणीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य प्रेरक-उपस्थित्यां ‘जय सोमनाथ’ इति शिक्षकमण्डल्या: एकादशी वार्षिकी साधारणसभा आयोजिता

जगदीश डाभी
Last updated: 2026/09/21 at 6:43 PM
जगदीश डाभी
Share
3 Min Read
SHARE

आदरणीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य प्रेरक-उपस्थित्यां ‘जय सोमनाथ’ इति शिक्षकमण्डल्या: एकादशी वार्षिकी साधारणसभा आयोजिता

वार्ताहर: – जगदीश डाभी (सोमनाथ:, गुजरातम्)

         (हिमसंस्कृतवार्ता:) प्राप्तवार्तानुसारं गुजरातप्रान्तस्य गीर सोमनाथजनपदस्य वेरावल-उपमण्डलस्य प्राथमिकशिक्षकाणां मुख्यशिक्षकाणां च सहकारिसंस्थायाः ‘जय सोमनाथ वेरावल तालुका प्राथमिक शिक्षक/मुख्य शिक्षक धिराणे एवं ग्राहक सहकारी मण्डली लिमिटेड, वेरावलम्’ इत्यस्याः एकादशी वार्षिकी साधारणसभा २०२६ तमस्य वर्षस्य सितम्बर-मासस्य १९ तमे दिनाङ्के ‘होटल सागर दर्शन’, सोमनाथ इत्यत्र महता उत्साहेन गौरवान्वितेन च वातावरणेन समायोजिता।
एषा साधारणसभा माननीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य अध्यक्षत्वे तस्य प्रेरिकायां गरिमामय्यां च उपस्थितौ सम्पन्ना। तेन सह जिला-शिक्षा-समित्याः (गीर सोमनाथ:) अध्यक्षः मसरीभाई राठोडः, मण्डल-प्राथमिक-शिक्षाधिकारी अशोकभाई पटेलः तथा च उप-मण्डल-प्राथमिक-शिक्षाधिकारी निलेषभाई अपारनाथी मुख्यअतिथिरूपेण उपस्थिताः आसन्। विशेषअतिथिरूपेण सोमनाथ-न्यासाधिकारिणा (प्रबन्धकेन) विजयसिंहचावडा-महोदयेन, वेरावल-उपमण्डलस्य भारतीयजनतापार्टी-अध्यक्षेण प्रद्युम्नसिंहडोडीया-महोदयेन, कीडीवाव-शैक्षणिक-सङ्कुलस्य तथा च गीर-सोमनाथ-मण्डलस्य HTAT-शैक्षिक-सङ्घस्य अध्यक्षेण अशोकसिंहचावडा-महोदयेन च उपस्थाय कार्यक्रमस्य शोभा प्रवर्धिता।
कार्यक्रमस्य प्रारम्भः मञ्चस्थैः महानुभावैः दीपप्रज्वालनेन कृतः। उपस्थितानां सर्वेषां महानुभावानां पुष्पगुच्छैः पुस्तकसमर्पणेन च भावपूर्णं स्वागतमक्रियत। संस्थायाः कार्यकारिणीसदस्येन विजयसिंहडोडीया-महोदयेन शाब्दिकं स्वागतं विहितम्।
अस्मिन् अवसरे संस्थायाः कार्यकारिणीसदस्यैः गुजरात-भारतीय-जनता-पार्टी-दलस्य ‘बक्षी पञ्च’ प्रदेशाध्यक्षस्य, माननीयस्य राज्यसभासांसदस्य मानसिंहजी परमारस्य विशेषं सम्माननं कृतम्। सः संस्थायाः स्थापनाकालात् आरभ्य अद्यावधि एकादशवर्षाणां यात्रायाः साक्षीरूपेण संस्थायाः कार्याणि विविधानि संस्मरणानि च अस्मरत्। संस्थया सहकारिक्षेत्रे कृतां प्रगतिं दृष्ट्वा सः सर्वान् अभिनन्दितवान्, संस्थायाः उत्तरोत्तरप्रगतये उज्ज्वलभविष्यये च शुभाशयान् प्राकटयत्। सः स्वकीये प्रेरणादायिनि सम्बोधने राष्ट्रसेवायां शिक्षकाणां भूमिकां योगदानं च अधिकृत्य मार्गदर्शनं कुर्वन् अकथयत् यत् शिक्षकाः समाजस्य निर्माणे राष्ट्रनिर्माणेषु च महतीं जिम्मेदारीं निर्वहन्ति।
उप-मण्डल-प्राथमिक-शिक्षाधिकारिणा निलेषभाई-अपारनाथी-महोदयेन तथा मण्डल-प्राथमिक-शिक्षाधिकारिणा अशोकभाई-पटेल-महोदयेन च सहकारिप्रवृत्तीनां महत्त्वम्, सङ्घटनस्य शक्तिं, सहकारभावनाया च संस्थायाः प्रगतिः कथं साधयितुं शक्यते इति विषये सुन्दरं मार्गदर्शनं प्रदत्तम्।
प्रबन्धकेन विजयसिंहचावडा-महोदयेन सोमनाथ-न्यासतः (ट्रस्ट) उपस्थितेभ्यः सर्वेभ्यः महानुभावेभ्यः सभासदेभ्यः च स्वागताः शुभाशयाः च व्याहृताः। मण्डल्याः अध्यक्षेण २०२५-२६ तमस्य वर्षस्य वार्षिकायव्ययस्य (आय-व्यय) विवरणं प्रस्तुतं कृत्वा संस्थायाः पारदर्शितां प्रति प्रतिबद्धता प्रदर्शिता, सभासदानां विश्वासः च सुदृढः कृतः। समवायस्य मन्त्रिणा रामभाई-महोदयेन पञ्जीकरणस्य (Registration) उत्तरदायित्वं निर्ऊढम्। कार्यक्रमस्य सुन्दरं सञ्चालनं कानभाई झाला (काजली सीम विद्यालयः), रमेशभाई झणकात (खेराली प्राथमिक विद्यालयः) आभ्यां कृतम्। कार्यक्रमस्यान्ते आभारप्रदर्शनं सभासदेन भरतसिंहवाला-महोदयेन कृतम्।
कार्यक्रमस्य समापने उपस्थिताः महानुभावाः, कार्यकारिणीसदस्याः, सर्वे सभासदाः च मिलित्वा सहभोजनम् (स्नेहभोजनम्) अकुर्वन्।
अस्य सम्पूर्णस्य कार्यक्रमस्य साफल्याय स्मरणीयत्वाय च संस्थायाः सर्वैः कार्यकारिणीसदस्यैः उत्तमम् आयोजनं, समन्वयः, अथकपरिश्रमः च कृत्वा सङ्घकार्यस्य (टीमवर्क) श्रेष्ठमुदाहरणं प्रस्तुतम्। सर्वेषां सहकारेण समन्वयेन च एषा एकादशी वार्षिकी साधारणसभा सफलतापूर्वेण सम्पन्ना अभवत्। ‘सहकारात् सङ्घटनम्, सङ्घटनात् च प्रगतिः’ इति सन्देशेन सह आयोजिता एषा वार्षिकी साधारणसभा संस्थायाः एकादशवर्षाणां सफलां यात्राम् आगामिप्रगतये च नवीनाम् ऊर्जां प्रेरणां च प्रदत्तवती।

You Might Also Like

श्री सोनारी पीएमश्री-गुजरात-प्राथमिकशालायां ‘विकसित भारतम् @२०४७’ इत्यस्य अन्तर्गतम् विविध-स्पर्धाः प्राचीनवस्तूनां प्रदर्शनी च आयोजिताः

संस्कृतभारती – गुर्जरप्रान्तः पञ्चमहालविभागे अभ्यासवर्गः तथा मार्गदर्शनसत्रं सम्पन्नम्

लद्दाख-सौर-ऊर्जा-परियोजना हिमाचलस्य कृते सङ्कटः, परियोजनायाः पुनर्परीक्षणाय मुखरिताः स्वराः

विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयाय महाकविकालिदाससंस्कृतसाधनापुरस्कारस्य घोषणा

खण्डस्तरीयस्य संस्कृतप्रतियोगितायाः भव्यसमापनम्

TAGGED: आज के संस्कृत समाचार, वायब्रेन्ट-गुजरात
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article श्री सोनारी पीएमश्री-गुजरात-प्राथमिकशालायां ‘विकसित भारतम् @२०४७’ इत्यस्य अन्तर्गतम् विविध-स्पर्धाः प्राचीनवस्तूनां प्रदर्शनी च आयोजिताः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?