By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतभारती – गुर्जरप्रान्तः पञ्चमहालविभागे अभ्यासवर्गः तथा मार्गदर्शनसत्रं सम्पन्नम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > संस्कृतभारती – गुर्जरप्रान्तः पञ्चमहालविभागे अभ्यासवर्गः तथा मार्गदर्शनसत्रं सम्पन्नम्
प्रादेशिकवार्तासंस्कृतगतिविधयः

संस्कृतभारती – गुर्जरप्रान्तः पञ्चमहालविभागे अभ्यासवर्गः तथा मार्गदर्शनसत्रं सम्पन्नम्

जगदीश डाभी
Last updated: 2026/09/14 at 6:56 PM
जगदीश डाभी
Share
1 Min Read
SHARE

संस्कृतभारती – गुर्जरप्रान्तः
पञ्चमहालविभागे अभ्यासवर्गः तथा मार्गदर्शनसत्रं सम्पन्नम्

वार्ताहर: – जगदीश डाभी (गोधरा-गुजरातम्)

(हिमसंस्कृतवार्ता:) संस्कृतभारती-गुर्जरप्रान्तस्य तत्त्वावधाने पञ्चमहालविभागे एकः विशेषः अभ्यासवर्गः तथा मार्गदर्शनसत्रम् उत्साहपूर्णवातावरणे सम्पन्नम्। अस्मिन् वर्गे आहत्य ३८ (अष्टात्रिंशत्) कार्यकर्तारः समागताः, उपस्थिताः च अभवन्। कार्यक्रमे पञ्चमहालः, दाहोदः तथा महिसागरः इति त्रयाणां जनपदानां कार्यकर्तारः उत्साहपूर्वकं उपस्थिताः आसन्। अस्मिन् अभ्यासवर्गे संस्कृतभारती-गुर्जरप्रान्तस्य प्रान्ताध्यक्षः श्रीकृष्णप्रसादः निरौलाजी महोदयः, प्रान्तमन्त्री डॉ. रघुराम लश्करी महोदयः, प्रान्तसङ्घटनमन्त्री श्री नवीन अत्रि महोदयः, तथा पञ्चमहालविभागसंयोजकः डॉ. चिराग पुरोहित महोदयः प्रमुखतया उपस्थिताः आसन्। इति अस्मिन् अभ्यासवर्गे जिला-बौद्धिकप्रमुखः श्री धर्मेन्द्र गुर्जर महोदयः बौद्धिकसत्रं गृहीतवान् तथा उपस्थितकार्यकर्तृभ्यः मौलिकं मार्गदर्शनं प्रदत्तवान्। प्रान्तपत्राचारशिक्षणप्रमुखः डॉ. दिनेशभाई माछी महोदयः संस्कृतपत्राचारशिक्षणस्य विषये विशदं मार्गदर्शनं दत्तवान्। प्रान्तशिक्षणसहमन्त्री डॉ. दिलीपभाई प्रजापति महोदयः अभ्यासवर्गस्य उद्देश्यानि तथा संस्कृतगौरवपरीक्षायाः महत्त्वं विषयीकरणं च कृत्वा ओजस्वि उद्बोधनं दत्तवान्। अस्मिन् जनपदस्तरीय प्रमुखोपस्थितिः
कार्यक्रमे पञ्चमहालजनपदाध्यक्षः डॉ. महेश पटेल महोदयः, पञ्चमहालजनपदसंयोजकः डॉ. मीतेश शर्मा महोदयः, दाहोदजनपदसंयोजकः श्री अभयभाई रावल महोदयः, तथा महिसागरजनपदसंयोजिका डॉ. जागृतिबेन बारोट महोदया उपस्थिताः आसन्। तथैव पञ्चमहाल, दाहोद तथा महिसागर इति त्रयाणां जनपदानां कार्यकर्तारः अपि उत्साहेन अभ्यासवर्गे सहभागितां कृतवन्तः। अयं अभ्यासवर्गः कार्यकर्तॄणां संस्कृतज्ञानवर्धनाय, सङ्गठनात्मकदक्षताविकासाय, संस्कृतप्रचारकार्यस्य विस्ताराय च अत्यन्तं उपयोगी अभवत्। सर्वेषां कार्यकर्तॄणां उत्साहपूर्णसहभागितया कार्यक्रमः सफलतया सम्पन्नः।

You Might Also Like

लद्दाख-सौर-ऊर्जा-परियोजना हिमाचलस्य कृते सङ्कटः, परियोजनायाः पुनर्परीक्षणाय मुखरिताः स्वराः

विद्यावाचस्पतिप्राध्यापकस्वानन्दगजाननपुण्डमहोदयाय महाकविकालिदाससंस्कृतसाधनापुरस्कारस्य घोषणा

खण्डस्तरीयस्य संस्कृतप्रतियोगितायाः भव्यसमापनम्

कृष्णावतारकाले समाजस्य स्थितिः(पर्वविशेष:)- डा.विमलेशः

*गाजोलमहाविद्यालये विश्वसंस्कृतदिवसोत्सवः सम्पन्नः*

TAGGED: संस्कृतभारती
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्
Next Article हिमसंस्कृतम् न्यास द्वारा हिन्दी दिवसस्य समायोजनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?