प्रदेशस्य विद्यालयेषु १७ अगस्त-दिनाङ्के अवकाशः भविष्यति, मुख्यमन्त्रिणा सुक्खुना बिलासपुरे कृता घोषणा
हिमसंस्कृतवार्ता: – शिमला।
स्वातन्त्र्यदिवसस्य सन्दर्भे शिक्षाविभागेन निर्गतदेशानां मध्ये अधुना प्रदेशस्य विद्यालयेषु १७ अगस्त-दिनाङ्के अवकाशः भविष्यति। मुख्यमन्त्री सुखविन्द्रसिंह-सुक्खुः शुक्रवासरे बिलासपुरजनपदस्य घुमारवीं विधानसभाक्षेत्रस्य निहारी इति स्थाने आयोजिते राज्यस्तरीय-वृक्षारोपण-महोत्सवे एतां घोषणां कृतवान्। मुख्यमन्त्रिणा स्पष्टं कृतं यत् १५ अगस्त-दिनाङ्के आयोज्यमानानां कार्यक्रमाणां कारणेन विद्यार्थिभ्यः शिक्षकभ्यश्च १७ अगस्त-दिनाङ्के अवकाशः प्रदास्यते। शिक्षानिदेशालयेन कतिपयदिनानि पूर्वं आदेशः निर्गतः आसीत् यत् प्रदेशस्य सर्वेषु सर्वकारीय-विद्यालयेषु १५ अगस्त-दिनाङ्के सामान्यरूपेण पठन-पाठनं भविष्यति।
आदेशेषु उक्तमासीत् यत् विद्यालयेषु स्वातन्त्र्यदिवसः सम्पूर्णेन उत्साहेन, गरिम्णा देशभक्तिपूर्णेन च वातावरणेन आचरितः भवेत्। तदनन्तरं जनपद, उपमण्डल तथा तहसीलस्तरे आयोजितेषु समारोहेषु विद्यार्थिनां विद्यालयानां च सहभागिता सुनिश्चितकर्तुं निर्देशाः अपि प्रदत्ताः आसन्। जनपद-उपनिदेशकान् स्व-स्व-जनपदेषु सर्वेभ्यः सर्वकारीय-विद्यालयेभ्यः स्वातन्त्र्यदिवस-समारोहस्य विषये आवश्यकान् निर्देशान् निर्गन्तुं कथितमासीत्। मुख्यमन्त्रिणः घोषणया प्रदेशस्य सर्वेभ्यः विद्यार्थिभ्यः शिक्षकेभ्यश्च १५ अगस्त-दिनाङ्के कार्यक्रमेषु सहभागितां कृत्वा अग्रिमे कार्यदिवसे अवकाशः प्राप्तुं शक्यते।
प्रथमवारं मुख्यमन्त्रिणः प्रत्यक्षं सम्बोधनं श्रोष्यन्ति लक्षशः छात्रा:
प्रदेशे शुक्रवासरे आचर्यमाणः ७९तमः स्वातन्त्र्यदिवसः अस्मिन् वर्षे सर्वकारीय-विद्यालयानां कृते अनेकदृष्ट्या विशेषः भविष्यति। ध्वजारोहण-सांस्कृतिककार्यक्रमेभ्यः अग्रे गत्वा अस्मिन् वर्षे समारोहः राष्ट्रभक्तेः, राष्ट्रीयचेतनायाः, सामाजिकजागरूकतायाः युवसहभागितायाश्च व्यापकः उत्सवः भविष्यति। सर्वाधिकं महत्त्वपूर्णं यत् प्रदेशस्य सर्वकारीय-विद्यालयेषु प्रथमवारं मुख्यमन्त्रिणः सुखविन्द्रसिंह-सुक्खोः राज्यस्तरीयस्य सम्बोधनस्य प्रत्यक्षप्रसारणं भविष्यति, यत् लक्षशः विद्यार्थिन: एकस्मिन् समये द्रष्टुं श्रोतुं च शक्नुवन्ति।
राज्यस्तरीयः समारोहः हमीरपुरजनपदस्य बड़सर इति स्थाने भविष्यति, यत्र मुख्यमन्त्री राष्ट्रध्वजम् आरोहयित्वा प्रदेशवासिभ्यः सम्बोधनं करिष्यति। शिक्षानिदेशालयेन निर्गते क्षण-प्रतिक्षण-कार्यक्रमानुसारं स्वातन्त्र्यदिवस-समारोहस्य शुभारम्भः ध्वजारोहणेन राष्ट्रगानेन च भविष्यति। ततः मुख्यातिथेः सन्देशः पठिष्यते तथा विद्यार्थिभ्यः स्वातन्त्र्यसङ्ग्रामस्य इतिहासेन देशस्य महान् राष्ट्रनायकानां योगदानेन च परिचयः कारयिष्यते।
निर्देशानुसारं षष्ठीतः द्वादशकक्षापर्यन्तं विद्यार्थिनः स्व-सम्बद्धेषु राजकीय-वरिष्ठ-माध्यमिक-विद्यालयेषु समारोहेषु सम्मिलिताः भविष्यन्ति। संकुल-विद्यालयेषु (Complex Schools) ५०० मीटर-परिधौ स्थितानां प्राथमिक-विद्यालयानां विद्यार्थिनः अपि मुख्यसमारोहस्य भागः भविष्यन्ति। दूरस्थेषु दुर्गमेषु च क्षेत्रेषु स्थितेषु विद्यालयेषु स्थानीयस्तरे समारोहाः आयोजयिष्यन्ते। सर्वेभ्यः विद्यालयप्रमुखेभ्यः विद्यार्थिनां अधिकतमोपस्थितिं सुनिश्चितकर्तुं निर्देशाः प्रदत्ताः सन्ति।
