By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP WEATHER UPDATE – प्रदेशे १३६ मार्गाः, २४२ पेयजलयोजनाः बाधिताः, विद्युत्पातेन २०० मेष-अजाः मृताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP WEATHER UPDATE – प्रदेशे १३६ मार्गाः, २४२ पेयजलयोजनाः बाधिताः, विद्युत्पातेन २०० मेष-अजाः मृताः
हिमाचलवार्ता

HP WEATHER UPDATE – प्रदेशे १३६ मार्गाः, २४२ पेयजलयोजनाः बाधिताः, विद्युत्पातेन २०० मेष-अजाः मृताः

डॉ मनोज शैल
Last updated: 2026/08/13 at 9:38 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP WEATHER UPDATE – प्रदेशे १३६ मार्गाः, २४२ पेयजलयोजनाः बाधिताः, विद्युत्पातेन २०० मेष-अजाः मृताः

हिमसंस्कृतवार्ता: – शिमला। 

हिमाचलप्रदेशे ऋतो: स्थितिः निरन्तरं परिवर्तते। गुरुवासरे काङ्गड़ा-जनपदे प्रातःकालात् मध्याह्नपर्यन्तं तीव्रः सूर्यप्रकाशः आसीत्, किन्तु मध्याह्नानन्तरं धर्मशालायां तस्य समीपवर्तिक्षेत्रेषु च धारासारवृष्टिः अभवत्। ऋतुविज्ञानविभागेन शुक्रवासरे सिरमौर-मण्डी-जनपदयोः अतिवृष्टेः नारङ्गवर्णीयः सचेतना (ऑरेंज अलर्ट) प्रसारिता अस्ति, यदा काङ्गड़ा, चम्बा, ऊना, बिलासपुर-जनपदानां कृते पीतवर्णीयः सचेतना (येलो अलर्ट) प्रसारिता अस्ति। प्रदेशे अगस्तमासस्य १७ दिनाङ्कपर्यन्तं ऋतु: प्रतिकूलः स्थास्यति इति सम्भावना अस्ति। वर्षया भू-स्खलनेन च प्रदेशे अद्यापि जनजीवनं पूर्णतया सामान्यं न अभवत्। राज्ये १३६ मार्गाः, २४२ पेयजलयोजनाः तथा नव विद्युत्-परिवर्तकयन्त्राणि प्रभावितानि सन्ति।

 

विभिन्नविभागानां दलानि सेवापुनर्स्थापनकार्ये संलग्नानि

विभिन्नविभागानां दलानि सेवापुनर्स्थापनकार्ये संलग्नानि सन्ति। राजधानी-शिमलायां गुरुवासरे मध्याह्नपर्यन्तं ऋतु: स्वच्छः आसीत्, सायंकाले मेघाः नीहार: च व्याप्तौ अभवताम्। धर्मशालायां द्विदिनं ऋतो: स्वच्छतानन्तरं तापमानस्य वृद्धिः अभिलिखिता। मध्याह्नानन्तरं जाता तीव्रवृष्टिः जनान् उष्ण-आर्द्रतायुक्तात् तापात् संबलं दत्तवती। मण्डी-जनपदे आदिनं मेघाः आच्छादिताः आसन् तथा च अनेकेषु क्षेत्रेषु मन्दं वृष्टिपातः अभवत्। कुल्लू-जनपदे ऋतु: स्वच्छः आसीत्, किन्तु सैंजस्य देहुरीधार-ग्रामपञ्चायतस्य अपर-शफाड़ी-ग्रामे भूमेः स्खलनेन एकं गृहम् अपतत्। ऊनायां आदिनं ऋतु: स्वच्छः आसीत्, तथापि आर्द्रतायुक्तेन उष्णतया जनाः पीडिताः अभवन्। चम्बा-जनपदे बैरागढ़-साचपास-किलाड़-मार्गः २४ घण्टानन्तरं गुरुवासरे प्रातः यातायाताय पुनः उद्घाटितः।

 

विद्युत्पातेन २०० मेष-अजानां मृत्युः

किन्नौरस्य रूपी-उपत्यकायां बुधवासरे रात्रौ ११ वादने विद्युत्पातस्य व्याप्तौ आगत्य प्रायः २०० मेष-अजानां मृत्युः अभवत्। उपत्यकायाः राज्यश्री-कण्डे इति स्थाने घटितया अनया दुर्घटनया मेषपालकाय लक्षरूप्यकाणां क्षतिः अभवत्। सौभाग्यवशात् घटनायाः समये मेषपालकः वितानस्य अन्तः आसीत्। घटनायाः सूचना प्राप्तमात्रेण गुरुवासरे पशुपालन-विभागस्य राजस्व-विभागस्य च अधिकारी घटनास्थलं प्रति प्रस्थितवन्तः।

You Might Also Like

लोककलाकारः डॉ. जोगेन्द्रहाब्बी संगीत-नाटक-अकादमी-पुरस्कारेण सम्मानितः

१९ वर्षेषु १९१ देशानां भ्रमणम्, अधुना द्विचक्रिकया (साइकिल) भारतभ्रमणाय प्रस्थितः देवनाथः

संस्कृतस्य वर्चस्वम्! इण्डिया टुडे-क्रमाङ्कने देशस्य शीर्ष-२५ विश्वविद्यालयेषु केन्द्रीयसंस्कृतविश्वविद्यालयस्य स्थानम्

मुख्यमन्त्री सुक्खू बिलासपुरस्य १५०० धीवरेभ्यः व्यतरत् ५२.५० लक्ष-रूप्यकाणि, अर्थदण्ड-क्षमापनेन सह अनेकाः महत्यः घोषणाः

हिमाचले स्वास्थ्य-सेवाभ्यः लप्स्यते नूतनः विस्तारः, ‘एम्स’-बिलासपुर-संस्थानम् उत्कृष्टं विधातुं सज्जीकरणम्

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article लोककलाकारः डॉ. जोगेन्द्रहाब्बी संगीत-नाटक-अकादमी-पुरस्कारेण सम्मानितः
Next Article राष्ट्रियग्रन्थपालदिवसोत्सवस्य प्रतिवेदनम्* 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?