भूस्खलनेन १५३ मार्गाः अवरुद्धा:, किन्नौर-कैलाश-यात्रा द्वितीय-दिने अपि स्थगिता, एक-सप्ताहं यावत् वृष्टिः भविष्यति
हिमसंस्कृतवार्ता: — शिमला ।
हिमाचलप्रदेशे वर्षया बहुषु स्थानेषु भूस्खलनस्य घटनाः निरन्तरं जायमानाः सन्ति। राज्ये शनिवासरे सायं ६:०० वादनं यावत् भूस्खलनेन १५३ मार्गाः स्थगिताः अभवन्। ९२ विद्युत्-परिवर्तकाः (Transformers) ७७ जल-आपूर्ति-योजनाः अपि बाधिताः सन्ति। सर्वाधिकाः मार्गाः मण्डी, शिमला तथा च कुल्लू-मण्डलेषु स्थगिताः सन्ति। ऋतु-विभागेन राज्ये एक-सप्ताहं यावत् वर्षायाः निरन्तरतायाः पूर्वानुमानं प्रकटितम्। पञ्च-मण्डलेभ्यः द्वयोः दिनयोः महत्याः वर्षायाः नारङ्ग-सचेतना (Orange Alert) प्रसारिता अस्ति। शिमला-मध्ये अपि ऋतुः दुष्टः वर्तते।
सतत् द्वितीय-दिने अपि स्थगिता किन्नौर-कैलाश-यात्रा, अधुना १५ अगस्त-दिनाङ्कं यावत् भविष्यति सञ्चालिता
प्रतिकूल-ऋतोः कारणेन किन्नौर-कैलाश-यात्रा गत-द्वयोः दिनयोः स्थगिता अस्ति। प्रशासनेन शनिवासरे अपि भक्तजनाः ताङ्गलिंग् तथा च गणेशबाग-मूल-शिविरात् (Base Camp) अग्रे न प्रेषिताः। शुक्रवासरे अपि भक्तजनाः एतेष्वेव मूल-शिविरेषु रोधिताः आसन्। तत्रैव, प्रशासनेन किन्नौर-कैलाश-यात्रामधिकृत्य महत्त्वपूर्णः निर्णयः गृहीत:। यात्रिणां सुविधां सुरक्षां च ध्याने निधाय अधुना किन्नौर-कैलाश-यात्रा १५ अगस्त-दिनाङ्कं यावत् सञ्चालयिष्यते। १५ अगस्त-दिनाङ्के यात्रायाः समापनं करिष्यते। प्रशासनस्य पक्षतः प्रसारिता सूचनानुसारं द्वितीय-मूल-शिविरात् मलिंग-खट्टा (गणेशबाग) इत्यस्मात् कैलाशं प्रति यात्रा प्रारप्स्यते वा न वा, अस्य निर्णयः प्रतिदिनं रात्रौ ११:०० वादने ग्रहीष्यते।
उपनदेषु जलस्तरस्य यात्रा-मार्गस्य च स्थितेः निरीक्षणं करिष्यति दलम्
गणेश-गुहायां मलिंग-खट्टा-मध्ये च नियोजितं दलम् गुहायाः समीपे स्थितस्य उपनदस्य जलस्तरस्य यात्रा-मार्गस्य च स्थितेः निरीक्षणं करिष्यति। परिस्थितयः सुरक्षिताः प्राप्ताः चेत् एव रात्रौ ११ वादनात् परम् यात्रिभ्यः अग्रे गन्तुम् अनुमतिः दास्यते। प्रशासनेन यात्रिभ्यः प्रार्थना कृता यत् अन्तिम-निर्णयस्य आगमनात् पूर्वं प्रतीक्षां कुर्वन्तु अनुमतिम् च विना अग्रे न सरन्तु। किन्नौर-कैलाश-यात्रा-सञ्चालन-समित्याः अध्यक्षः तथा च उप-मण्डल-दण्डाधिकारी (SDM) कल्पा प्रवीणभारद्वाजः अवदत् यत् द्वयोः दिनयोः यात्रा बाधिता भूत्वा अन्तिम-तिथेः वर्धनस्य निर्णयः गृहीतवान्, येन यात्रायाः वञ्चिताः भक्तजनाः आगामि-दिनेषु यात्रायाः अवसरम् प्राप्नुयुः। तेन सर्वेभ्यः यात्रिभ्यः सुरक्षां सर्वोच्च-प्राथमिकतां दातुम् प्रसारितानाम् दिशा-निर्देशानाम् पालनं कर्तुम् च प्रार्थना कृता।
अस्मिन् मानसून-ऋतौ अधुना यावत् १५२ जनानां प्राणाः गताः
राज्ये वर्त्तमान-मानसून-ऋतौ ३० जून-तः ८ अगस्त-दिनाङ्कं यावत् १५२ जनैः स्वकीयाः प्राणाः त्यक्ताः। २४० जनाः आहिताः अभवन्। एतेषु ८६ जनानां मार्ग-दुर्घटनासु मृत्युः अभवत्। २२ पक्क-गृहाणि ४१ अपक्क-गृहाणि च पूर्णतः क्षतिग्रस्तानि अभवन्। २४८ अपक्क-पक्क-गृहाणि आंशिक-रूपेण क्षतिं प्राप्तानि। १२ आपणानि (दुकानें) २१० गोशालाः च अपि क्षतिग्रस्ताः जाताः। एतदतिरिच्य १९७ पालतु-पशूनाम् मृत्युः अभवत्। आहत्य क्षतेः आङ्कडा (Data) ८३,५०९.५२ लक्ष-रूप्यकाणि यावत् प्राप्तः अस्ति।
