By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: MANIMAHESH YATRA 2026 – मणिमहेश-यात्रायै ‘ऑनलाइन’-पञ्जीकरणम् ५ अगस्त-दिनाङ्कात्, प्रतिदिवसं ५,००० भक्तजनाः प्राप्स्यन्ति अनुमतिम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > MANIMAHESH YATRA 2026 – मणिमहेश-यात्रायै ‘ऑनलाइन’-पञ्जीकरणम् ५ अगस्त-दिनाङ्कात्, प्रतिदिवसं ५,००० भक्तजनाः प्राप्स्यन्ति अनुमतिम्
हिमाचलवार्ता

MANIMAHESH YATRA 2026 – मणिमहेश-यात्रायै ‘ऑनलाइन’-पञ्जीकरणम् ५ अगस्त-दिनाङ्कात्, प्रतिदिवसं ५,००० भक्तजनाः प्राप्स्यन्ति अनुमतिम्

डॉ मनोज शैल
Last updated: 2026/08/04 at 9:08 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

MANIMAHESH YATRA 2026 – मणिमहेश-यात्रायै ‘ऑनलाइन’-पञ्जीकरणम् ५ अगस्त-दिनाङ्कात्, प्रतिदिवसं ५,००० भक्तजनाः प्राप्स्यन्ति अनुमतिम्

हिमसंस्कृतवार्ता: — चम्बा ।

पवित्र-मणिमहेश-यात्रायै ‘ऑनलाइन’-पञ्जीकरणम् ५ अगस्त-दिनाङ्कात् प्रारभ्यते। भक्तजनाः यात्राया: कृते स्वकीयम् पञ्जीकरणम् आधिकारिक-जालपुटम् https://manimaheshyatra.hp.gov.in इत्यस्य माध्यमेन कर्तुम् शक्ष्यन्ति। प्रथम-चरणे २५, २६ तथा च २७ अगस्त-दिनाङ्कस्य यात्रायै ‘ऑनलाइन’-पञ्जीकरणम् उपलब्धं कारयिष्यते। प्रतिदिवसमधिकतमं ५,००० भक्तजनेभ्यः एव यात्रायाः अनुमतिः प्रदास्यते। सर्वे ‘स्लॉट’-स्थानानि ‘प्रथमम् आगच्छतु प्रथमं प्राप्नोतु’ (First Come First Serve) इत्यस्य आधारेण आवण्टितानि भविष्यन्ति। भरमौर-प्रशासनेन स्पष्टीकृतं यत् पञ्जीकरणम् विना कस्मै अपि भक्तजनाय यात्रा-मार्गे प्रवेशस्य अनुमतिः न दास्यते। अतः भक्तजनानाम् कृते आग्रहः कृतः यत् पञ्जीकरणस्य प्रारम्भः भवत्येव शीघ्रम् स्वकीयम् ‘स्लॉट’-स्थानम् सुरक्षितम् कुर्वन्तु।

भक्तजनानाम् कृते परामर्शः दत्तः यत् ते पञ्जीकरण-प्रारम्भात् पूर्वम् सर्वान् आवश्यकान् अभिलेखान् सज्जीकृत्य स्थापयन्तु, येन ‘ऑनलाइन’-प्रक्रिया-काले कस्यापि प्रकारस्य असुविधायाः सम्मुखीकरणं न करणीयं भवेत्। नवीनतमायै प्रामाणिकायै च सूचनायै नियमेन वेबसाइट-अवलोकनम् कुर्वन्तु। प्रशासनेन सर्वेभ्यः भक्तजनेभ्यः प्रार्थना कृता यत् ते यात्रा-काले प्रसारितानाम् सर्वेषाम् दिशा-निर्देशानाम् पालनम् कुर्वन्तु, केवलम् आधिकारिक-स्रोतोभ्यः प्राप्तासु सूचनासु एव विश्वासम् कुर्वन्तु। ए.डी.एम्. विकासशर्मा ज्ञापितवान् यत् भक्तजनानाम् कृते सुरक्षिताम्, सुगमाम् दिव्याम् च अनुभूतिम् रचयितुम् सर्वाः आवश्यकाः व्यवस्थाः निश्चिताः कर्तुम् निरन्तरम् कार्यम् क्रियमाणम् अस्ति।

 

‘जालपुटे’ लप्स्यते भरमौरस्य सटीकम् ऋतु-पूर्वानुमानम्

मणिमहेश-यात्रायाम् देश-विदेशेभ्यः आगच्छताम् भक्तजनानाम् सुरक्षायाः सुविधायाः च उद्देशेन भारतीय-ऋतु-विज्ञान-विभागेन भरमौर-क्षेत्राय विशेषम् ऋतु-पूर्वानुमानम् उपलब्धम् कारितम्। आई.एम.डी.-संस्थया विशेष-ऋतु-पूर्वानुमान-सम्पर्कः (Link) मणिमहेश-यात्रायाः आधिकारिक-वेबसाइट https://manimaheshyatra.hp.gov.in इत्यत्र उपलब्धः कारितः। अनेन भक्तजनाः यात्रा-पञ्जीकरणात् यात्रा-प्रारम्भात् च पूर्वम् भरमौर-क्षेत्रस्य ऋतोः नवीनतमां सूचनाम् प्राप्य स्वकीयायाः यात्रायाः श्रेष्ठाम् योजनाम् रचयितुम् शक्ष्यन्ति। भक्तजनेभ्यः भरमौर-क्षेत्रस्य ऋतु-सम्बन्धिनी सूचना समये प्राप्स्यते, येन ते ऋतु-परिस्थतीनाम् अनुरूपम् सुरक्षिताम् व्यवस्थिताम् च यात्राम् कर्तुम् शक्ष्यन्ति। प्रशासनेन भक्तजनेभ्यः प्रार्थना कृता यत् यात्रा-प्रारम्भात् पूर्वम् ऋतोः सूचनाम् अवश्यमेव प्राप्नुवन्तु।

You Might Also Like

शिमलायाः विश्वेशनेगी ईरान-देशे भारतस्य राजदूतः संजातः, बी.सी.एस.-क्षेत्रे हर्षातिरेकस्य वातावरणम्

२० वर्षेभ्यः परम् प्राप्ता सफलता, डलहौजी-वनक्षेत्रे द्वयोः दशकयोः अनन्तरम् दृष्टः दुर्लभः ‘अज-मृगः’

हिमाचलप्रदेशस्य सर्वेषु विद्यालयेषु सितम्बर-मासस्य प्रथम-दिनाङ्कात् ‘ऑनलाइन’-माध्यमेन भविष्यति उपस्थितिः, ‘पञ्जिका’-व्यवस्था समाप्ता

राजमार्ग-पार्श्वे निर्माणे कठोरतायाः सज्जीकरणम्, संवेदनशील-क्षेत्रेषु न निर्मास्यन्ते गृहाणि

मेधाविभ्यः प्रदास्यन्ते १६-१६ सहस्र-रूप्यकाणि, शिक्षकाणां रिक्तानि पदानि पूरयिष्यन्ते, युक्तीकरणम् अपि भविष्यति – शिक्षामंत्री

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article २० वर्षेभ्यः परम् प्राप्ता सफलता, डलहौजी-वनक्षेत्रे द्वयोः दशकयोः अनन्तरम् दृष्टः दुर्लभः ‘अज-मृगः’
Next Article शिमलायाः विश्वेशनेगी ईरान-देशे भारतस्य राजदूतः संजातः, बी.सी.एस.-क्षेत्रे हर्षातिरेकस्य वातावरणम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?