कविकुलगुरु-कालिदाससंस्कृतविश्वविद्यालये “शास्त्रदीपिका-व्याख्यानमाला” आयोजिता
हिमसंस्कृतवार्ता: – डॉ रेणुका बोकारे, नागपुरम्।
कविकुलगुरु-कालिदाससंस्कृतविश्वविद्यालयस्य शास्त्रविद्यागुरुकुलेन गुरुपूर्णिमापर्वणः शुभावसरे “शास्त्रदीपिका-व्याख्यानमाला” आयोजिता। अस्मिन् कार्यक्रमे भारतस्य सुप्रतिष्ठितः विद्वान् वेदमूर्तिः आचार्यः कृष्णशास्त्री आर्वीकर-गुरुजी मुख्यातिथिरूपेण समागतः। कार्यक्रमस्य समापनावसरे पूज्येन मुख्यातिथिना विश्वविद्यालयस्य समस्तप्राध्यापकानां सम्मानः कृतः।
अद्य विश्वविद्यालये त्रयः कार्यक्रमाः सम्पन्नाः। सर्वप्रथमम् अभिजिन्नक्षत्रे व्यासमहोत्सवनिमित्तं सरस्वतीयज्ञस्य आयोजनम् अभवत्। ततः परं गुरुकुलेन आयोजितस्य सप्तदिवसीय-दीक्षारम्भकार्यक्रमस्य समापनसत्रे शास्त्रविद्यागुरुकुलस्य सञ्चालकः प्रो० हरेकृष्ण-अवस्थी-महोदयः प्रस्ताविकाम् अकरोत्। तदनन्तरं वेदमूर्तेः आचार्यकृष्णशास्त्र्याः आर्वीकर-गुरोः प्रेरणाप्रदं व्याख्यानम् अभवत्, यस्मिन् विश्वविद्यालयस्य समस्ताः प्राध्यापकाः, कर्मचारीणः तथा छात्राः सादरम् उपस्थिताः आसन्।
