By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः
धर्मसंस्कृतिःहिमाचलवार्ता

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

डॉ मनोज शैल
Last updated: 2026/07/30 at 10:53 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Kinnaur Kailash Yatra 2026 – किन्नौर-कैलाश-यात्रा आरब्धा, प्रथमे दिने १०७ भक्ताः प्रस्थिताः

हिमसंस्कृतवार्ता: — रिकोंगपियो।

किन्नौर-कैलाश-यात्रा गुरुवासरात् आधिकारिक-रूपेण आरब्धा। यात्रायाः प्रथमे दिने तङ्गलिंग-ग्रामात् १०७ भक्ताः प्रस्थिताः, येषु पञ्च महिला-भक्ताः अपि सम्मिलिताः आसन्। प्रथमे दिने ‘ऑन-लाइन’-पञ्जीकरणं कृतवत्सु १७५ भक्तेषु केवलं ५० भक्ताः एव यात्रां कर्तुं सम्प्राप्ताः, यदा च मध्याह्ने १२ वादनं यावत् ५७ भक्ताः तङ्गलिंग-आधार-शिविरे (Base Camp) ‘ऑफ-लाइन’-पञ्जीकरणं कृतवन्तः, ये यात्रायां प्रेषिताः। मध्याह्नात् १२ वादनात् परं समागच्छन्तः भक्ताः आगामि-दिने यात्रायां प्रेषयिष्यन्ते।

प्रथमे दिने यात्रायां गच्छतां भक्तानां सङ्ख्या न्यूना आसीत्, परन्तु भक्तेषु महान् उत्साहः दृष्टः। भक्ताः भगवान्-भोलेनाथस्य जयघोषं कुर्वन्तः यात्रायां प्रस्थिताः। भक्तानां प्रेषणात् पूर्वं तेषां चिकित्सा-स्वास्थ्य-प्रमाणपत्राणां परीक्षणं कृतम्। ये भक्ताः स्वास्थ्य-प्रमाणपत्रं न रचितवन्तः आसन्, तेषाम् अस्मिन्नेव स्थाने परीक्षणं विहितम्। प्रशासनेन भक्तानां सुरक्षायाः कृते दृढाः प्रबन्धाः कृताः सन्ति। सम्पूर्णे मार्गे चिकित्सानां, आरक्षिणां (Police) तथा च आपदा-प्रबन्धन (SDRF) दलानि नियुक्तानि सन्ति। एतानि दलानि आपात-स्थितौ त्वरित-साहाय्यं प्रापयितुं उपस्थितानि स्थास्यन्ति।

यात्रा-मार्गे सङ्कटपूर्णेषु स्थानेषु रज्जवः (Ropes) स्थापिताः सन्ति। एतदतिरिच्य तङ्गलिंग-आधार-शिविरे प्रायः ६० भक्तानां वासाय निःशुल्क-व्यवस्था कृता अस्ति। यदा च यात्रायाः द्वितीये आधार-शिविरे गणेशबागे व्यक्तिगत-शिविरेषु (Private Camps) १३०० रूप्यकाणि प्रति-भक्तम् निर्धारितानि सन्ति। अस्यां राशौ एकं शयन-तल्पम्, रात्रेः भोजनं तथा च प्रातः अल्पाहारः लप्स्यते। प्रशासनेन एकस्मिन् दिने आहत्य ३७५ भक्तेभ्यः एव यात्रायाः अनुमतिः दत्ता। ४ अगस्त दिनाङ्कं यावत् ‘ऑन-लाइन’-द्वारे (Portal) सर्वाणि स्थानानि (Slots) आरक्षिताणि सन्ति। प्रशासनम् अधुना ‘ऑन-लाइन’-पञ्जीकरण-द्वारं ५ अगस्त दिनाङ्के पुनः उद्घाटयिष्यति। ‘ऑफ-लाइन’-पञ्जीकरणं तङ्गलिंग-आधार-शिविरे प्रतिदिनं भविष्यति।

ज्ञाप्यते यत् किन्नौर-कैलाश-यात्रायाः १६ किलोमीटर-मितः दीर्घः मार्गः अतीव दुर्गमः अस्ति। भक्ताः ६,०५० मीटर-मितस्य उच्चतायां स्थितां प्राकृतिकं शिवलिंगं प्राप्तव्याः भवन्ति। मार्गे उच्छलन्त्यः नद्यः, हिमवाहिन्यः (Glaciers) प्राणवायु-न्यूनता (Oxygen Deficiency) च सदृशाः गम्भीराः बाधाः आयान्ति। एषः मार्गः स्वकीयानाम् कठिनतानाम् कृते ज्ञायते, यस्य कृते विशेष-सज्जीकरणस्य आवश्यकता भवति।

You Might Also Like

हिमाचलस्य सर्वकारीय-कर्मचारिभ्यः महती सहायता, अध्ययन-अवकाश-काले लप्स्यते पूर्णं वेतनं देयाः लाभाश्च

हिम-बस-प्लस्-कार्ड’ इति माध्यमेन लाभान्विताः भविष्यन्ति लक्षाधिक-यात्रिणः, देहली-मेट्रो, पञ्जाब-हरियाणा-राज्ययोः बस-यानेषु अपि चलिष्यति एतद् यात्रापत्रम्

६ वर्षाणां परं ‘शिपकी-ला’-गिरिद्वारेण पुनः आरप्स्यते भारत-चीन-सीमा-व्यापारः

जयरामठाकुरस्य सुक्खू-सर्वकारस्य उपरि प्रहारः, ‘नियुक्ति; एवं सेवा शर्ताः’ नियमे सर्वोच्च-न्यायालयस्य निर्णयस्य कृतं स्वागतम्

राहुलगान्धी सदनस्य गरिमां पातयित्वा देशं भ्रामयितुं राजनीतिं करोति – अनुरागठाकुर:

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, Kinnar Kailash Yatra, Kinnaur News, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, किन्नौर समाचार, किन्नौरम्, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिम-बस-प्लस्-कार्ड’ इति माध्यमेन लाभान्विताः भविष्यन्ति लक्षाधिक-यात्रिणः, देहली-मेट्रो, पञ्जाब-हरियाणा-राज्ययोः बस-यानेषु अपि चलिष्यति एतद् यात्रापत्रम्
Next Article हिमाचलस्य सर्वकारीय-कर्मचारिभ्यः महती सहायता, अध्ययन-अवकाश-काले लप्स्यते पूर्णं वेतनं देयाः लाभाश्च
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?