जंतर-मंतर-आन्दोलनस्य समर्थनम्: शिमला-नगरे निसृता सिक्थदीप-यात्रा (कैंडल-मार्च), मुख्यमन्त्री सुक्खू: अपि सम्मीलितः; दत्ता श्रद्धाञ्जलिः
हिमसंस्कृतवार्ता: — शिमला।
देहल्याः जंतर-मंतर-स्थले विविधाः याचनाः (माँगें) आदाय आन्दोलनरतानां कॉकरोच-जनता-दलस्य छात्राणां च समर्थने शनिवासरस्य सायं राजधान्यां शिमलायां सिक्थदीप-यात्रा (‘कैंडल-मार्च) निसृता। मुख्यमन्त्री सुखविन्दरसिंहसुक्खू महोदयः अपि अस्यां सिक्थदीप-यात्रायां सम्मीलितः अभवत्।
सिक्थदीप-यात्रायाः माध्यमेन जंतर-मंतर-स्थले निरन्तरस्य आन्दोलनस्य प्रति समर्थनं प्रकटितम्। एषा सिक्थदीप-यात्रा ‘इन्दिरा-गाँधी-क्रीड़ा-परिषद्’ स्थानात् आरभ्य ‘स्कैंडल-पॉइंट’ मार्गेण ‘रिज-मैदान’ इत्यत्र समाप्ता अभवत्। अस्मिन् अवसरे प्रश्नपत्र-प्रकटन (पेपर-लीक) कारणेन आत्मघातं कृतवद्भ्यः छात्रेभ्यः अपि श्रद्धाञ्जलिः प्रदत्ता।
अपरतः, काङ्ग्रेसदलेन शनिवासरे विविधेषु मण्डलेषु अपि प्रदर्शिनानि कृतानि। सिक्थदीप-यात्रायां मुख्यमन्त्री सुखविन्दरसिंहसुक्खू, मन्त्री रोहितठाकुरः, सी.पी.आई.एम. महासचिवः सञ्जयचौहानः, पूर्वविधायकः राकेशसिंघा इत्येतैः सह काङ्ग्रेसविधायकाः सहस्रशः कार्यकर्तारः जनाश्च सम्मीलिताः अभवन्। अस्मिन् अवसरे जनाः करे षट्-प्रदीपान् (कैंडल) गृहीत्वा केन्द्रसर्वकारस्य विरुद्धं तीव्रं घोषम् अकूर्वन्।
