By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: भारतीयज्ञानपरम्परायां संवादस्य भूमिका महत्त्वपूर्णा : विद्वज्जनानां मतम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > भारतीयज्ञानपरम्परायां संवादस्य भूमिका महत्त्वपूर्णा : विद्वज्जनानां मतम्
संस्कृतगतिविधयः

भारतीयज्ञानपरम्परायां संवादस्य भूमिका महत्त्वपूर्णा : विद्वज्जनानां मतम्

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/07/26 at 10:08 AM
डॉ.निशिकान्तः पाण्डेयः
Share
1 Min Read
SHARE

भारतीयज्ञानपरम्परायां संवादस्य भूमिका महत्त्वपूर्णा : विद्वज्जनानां मतम्

 

लखनऊ, २५ जुलै।

→अखिलभारतीयसंस्कृतपरिषदः, लखनऊ-नगरस्य अलीगञ्जस्थिते देववाणी-भवने “भारतीयज्ञानपरम्परायां शिक्षणपद्धतिः संवादश्च” इति विषये विशिष्टव्याख्यानं विद्वत्सङ्गोष्ठी च आयोजिता। अस्याः सङ्गोष्ठ्याः मुख्यातिथित्वं आर्यमहिला-पी.जी.-महाविद्यालयस्य शाहजहाँपुरस्थितस्य प्राचार्या प्रो० सुरचना त्रिवेदी महोदया अकरोत्। अध्यक्षतां परिषदः अध्यक्षः डॉ० चन्द्रभूषण त्रिपाठी महोदयः चकार। मुख्यवक्तारूपेण केन्द्रीयसंस्कृतविश्वविद्यालयस्य लखनऊपरिसरस्य शिक्षाविभागस्य वरिष्ठप्राध्यापकः डॉ० रुद्रनारायण नरसिंह मिश्रः तथा विशिष्टवक्त्रीरूपेण इलाहाबादविश्वविद्यालयस्य संस्कृतविभागस्य वरिष्ठप्राध्यापिका डॉ० रेनू कोछड़ शर्मा महोदया स्वविचारान् प्रस्तुतवत्यौ।

वक्तारः भारतीयज्ञानपरम्परायां संवादस्य, गुरु-शिष्यपरम्परायाः, शिक्षणपद्धतेः तथा मूल्यपरकशिक्षायाः महत्त्वं प्रतिपादयन्तः अकथयन् यत् भारतीयशिक्षाप्रणाल्याः उद्देश्यं केवलं ज्ञानार्जनं न, अपितु चरित्रनिर्माणं सर्वाङ्गीणविकासश्च अस्ति। मुख्यातिथिः प्रो० सुरचना त्रिवेदी महोदया राष्ट्रियशिक्षानीतेः–२०२० इत्यस्य सन्दर्भे भारतीयज्ञानपरम्परां आधुनिकशिक्षया सह सम्बद्धुं आवश्यकताम् अवोचत्।

कार्यक्रमस्य शुभारम्भः रञ्जना निखिल-महोदयया वैदिकमङ्गलाचरणेन तथा निशान्त शुक्ल-महोदयेन लौकिकमङ्गलाचरणेन अभवत्। स्वागतगीतं कीर्तिः, समरीता तथा प्रिया पाण्डेय प्रस्तुतवत्यः। कार्यक्रमस्य सञ्चालनं डॉ० सन्दीप कुमार महोदयः अकरोत् तथा संयोजिका डॉ० पत्रिका जैन महोदया धन्यवादज्ञापनम् अकरोत्। अस्मिन् विद्वत्सङ्गोष्ठ्याम् पञ्चाशताधिकाः विद्वांसः, शोधच्छात्राः विद्यार्थिनश्च उपस्थिताः आसन् ।

सत्येन्द्रपाठकः

You Might Also Like

त्यागपत्रात् अग्रे…………. ! राष्ट्रीय-शिक्षा-परिष्कारात् राष्ट्र-हितं यावत् – श्रीनिवास: वरखेड़ी

शिक्षाक्षेत्रे अनुपमं निदर्शनम्: परीक्षायाः अन्तिमदिने एव कुमारभास्करवर्मासंस्कृत-पुरातनाध्ययनविश्वविद्यालयेन परीक्षाफलं घोषितम्* 

ऑनलाइन-संस्कृत-सम्भाषणवर्गस्य शुभारम्भः

महामण्डलेश्वर-यति-मातुः प्रत्यङ्गिरा-गिरी इत्येतस्याः सम्मानार्थं साधूनां आशीर्वाद-समारोहः

बालिका विद्यालय, मोतीनगर, लखनऊ इत्यत्र “गृहे गृहे संस्कृतम्” योजनायाः जुलैमासीय-द्वादशदिवसीय-शिक्षणवर्गस्य समापनम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article जंतर-मंतर-आन्दोलनस्य समर्थनम्: शिमला-नगरे निसृता सिक्थदीप-यात्रा (कैंडल-मार्च), मुख्यमन्त्री सुक्खू: अपि सम्मीलितः; दत्ता श्रद्धाञ्जलिः
Next Article त्यागपत्रात् अग्रे…………. ! राष्ट्रीय-शिक्षा-परिष्कारात् राष्ट्र-हितं यावत् – श्रीनिवास: वरखेड़ी
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?