क्यार्टूसंस्कृतमहाविद्यालयस्य अक्षय: प्रथमं मनीषा च प्राप्नोत् द्वितीस्थानम्
मङ्गलवासरे हिमाचलप्रदेशविश्वविद्यालयेन शास्त्रितृतीयवर्षीयच्छात्राणां वार्षिकपरीक्षाया: परिणाम: घोषित: । तत्र राजकीय-संस्कृत-महाविद्यालय: क्यार्टू इत्यस्य परिणाम: प्रदेशस्तरे एव प्रशंसनीय: । घोषितपरिणामानुसारं स्वमहाविद्यालये शास्त्रितृतीयवर्षस्य अक्षय: प्रथमम्, मनीषा द्वितीयम्, दिशा शर्मा स्मृति शर्मा च तृतीयं स्थानं प्राप्य महाविद्यालयस्य गौरवं वर्धितवन्त: । प्राचार्या: सर्वे चाऽपि प्राध्यापका: प्रतिभावत: छात्रानभिनन्दितवन्त:।
