By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कूडल अझगर मन्दिरम्: भूमौ न पतति मन्दिरशिखरस्य छाया, षट्पादपरिमितो (६ फीट) अस्ति विग्रहः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > धर्मसंस्कृतिः > कूडल अझगर मन्दिरम्: भूमौ न पतति मन्दिरशिखरस्य छाया, षट्पादपरिमितो (६ फीट) अस्ति विग्रहः
धर्मसंस्कृतिः

कूडल अझगर मन्दिरम्: भूमौ न पतति मन्दिरशिखरस्य छाया, षट्पादपरिमितो (६ फीट) अस्ति विग्रहः

डॉ.अमनदीप शर्मा
Last updated: 2026/06/19 at 6:45 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

कूडल अझगर मन्दिरम्: भूमौ न पतति मन्दिरशिखरस्य छाया, षट्पादपरिमितो (६ फीट) अस्ति विग्रहः
भगवतः नारायणस्य आराधना कोटिकष्टानां पापानां च निवारिका अस्ति। अद्य वयं भवद्भिः सह नारायणस्य तादृशस्य एकस्य मन्दिरस्य विषये चर्चां कुर्मः, यत् स्वयमेव विशिष्टम् अद्भुतं च अस्ति। दक्षिणभारतस्य अस्य विलक्षणस्य नारायणमन्दिरस्य नाम ‘कूडल अझगर’ इति अस्ति, यत् मदुरैनगरे स्थितम् अस्ति। एतद् मन्दिरं न केवलं धार्मिकदृष्ट्या, अपितु स्वकीयाय अनूपमाय वास्तुकलायै अपि सुप्रसिद्धम् अस्ति। षट्शतवर्षेभ्यः (६०० वर्षेभ्यः) अपि प्राचीनं एतत् विष्णुमन्दिरं १०८ दिव्यदेशमेषु (दिव्यधामसु) अन्तर्भवति, यत्र भगवान् नारायणः कूडल अझगर अर्थात् सुन्दरे सर्पशय्यारूपे विराजमानः सन् भक्तेभ्यः दर्शनं ददाति। कथ्यते यत् द्वादशशताब्दीतः चतुर्दशशताब्द्याः मध्ये एतद् मन्दिरं मूलरूपेण पाण्ड्यराजवंशस्य राजभिः निर्मितम् आसीत्। पश्चात् षोडशशताब्द्यां विजयनगरस्य मदुरैदेशस्य च राजभिः मन्दिरस्य मुख्यसभामण्डपस्य अन्यमन्दिराणां च निर्माणं कारितम्।
षट्पादपरिमितः विग्रहः (६ फीट की प्रतिमा)- एतत् एकं वैष्णवमन्दिरम् अस्ति। मन्दिरस्य अन्तः भगवतः विष्णोः उपविष्टा, उत्थिता (स्थिता) तथा शयिता च इति तिसृषु मुद्रासु मूर्तयः सन्ति, याः कृष्णशिलाभिः (ग्रेनाइट) निर्मिताः सन्ति। उपविष्टमुद्रायां स्थापिता प्रतिमा षट्पादपरिमिता (६ फीट) उन्नता अस्ति। भगवतः मूर्तेः उभयतः श्रीदेवी-भूदेव्योः प्रतिमे स्थापिते स्तः। मन्दिरस्य अन्तः काष्ठकलायाः (नक्काशी) सूक्ष्माङ्कनम् अपि कृतम् अस्ति, यस्मिन् भगवान् श्रीरामचन्द्रस्य राज्याभिषेकमहोत्सवः प्रदर्शितः अस्ति। अस्य मन्दिरस्य मुख्या विशेषता एषा अस्ति यत् अस्य शिखरस्य छाया भूमौ न पतति।

You Might Also Like

वास्तविकः वैरागी कः? प्रेरिका कथा

सनातनसंस्कृति-सामाजिकसेवयोः सङ्गमस्थलम् अभवत् घुग्घर-कालीबाडी-महोत्सवः

ज्योतिर्लिङ्गेषु काशीविश्वनाथमहिमा

गीर-सोमनाथस्य लघुबालकेन रचितः इतिहासः ७०० श्लोकान् कण्ठस्थीकृत्य प्राप्ता ‘गीताभूषण’ उपाधिम्

विक्रमसंवत् २०८३ ‘रौद्र’ नाम संवत्सरः तथा भारतीय-नववर्षम् (चैत्र-शुक्ल-प्रतिपदा) इत्यस्य वैदिक-ज्योतिषीय-वैज्ञानिक-आधारः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article जी-7 इत्यस्य नेतारः वैश्विकस्थिरतां, सुरक्षा-सहकारं, बहुराष्ट्रिय-सङ्ङ्घठित-अपराधस्य प्रतिकार-प्रयत्नाञ्च केन्द्रीयमानाः घोषणानाम् श्रृङ्खलाः स्वीकृतवन्तः
Next Article वास्तविकः वैरागी कः? प्रेरिका कथा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?