By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कुमारभास्करवर्मसंस्कृतपुरातनाध्ययविश्वविद्यालये नूतने “सम-उपाचार्या” पदे आचार्यमल्लिकाकलितायाः नियुक्तिः: सर्वैः विभागैः अभिनन्दनम्”
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कुमारभास्करवर्मसंस्कृतपुरातनाध्ययविश्वविद्यालये नूतने “सम-उपाचार्या” पदे आचार्यमल्लिकाकलितायाः नियुक्तिः: सर्वैः विभागैः अभिनन्दनम्”
संस्कृतगतिविधयः

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययविश्वविद्यालये नूतने “सम-उपाचार्या” पदे आचार्यमल्लिकाकलितायाः नियुक्तिः: सर्वैः विभागैः अभिनन्दनम्”

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2026/03/11 at 8:26 AM
डॉ.निशिकान्तः पाण्डेयः
Share
1 Min Read
SHARE

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययविश्वविद्यालये नूतने “सम-उपाचार्या” पदे आचार्यमल्लिकाकलितायाः नियुक्तिः: सर्वैः विभागैः अभिनन्दनम्”

 

नलबारी (असम: )।

असम-प्रदेशस्य प्रख्याते कुमारभास्करवर्मसंस्कृतपुरातनाध्ययविश्वविद्यालये अद्य हर्षोल्लासस्य वातावरणं दृश्यते। विश्वविद्यालयस्य प्रशासनेन वरिष्ठ-आचार्या मल्लिका कलिता महोदया नूतन-सम-उपाचार्या (Rector) इति महत्त्वपूर्णे पदे नियुक्ता। इयं नियुक्तिः विश्वविद्यालयस्य इतिहासे महिलानेतृत्वस्य सुदृढं सोपानं मन्यते।

विशेषतः ८ मार्च दिनाङ्के ‘अन्ताष्ट्रिय-महिला-दिवसस्य’ पावन-अवसरे अनया घोषणया शैक्षणिक-क्षेत्रे नारी-शक्तेः उत्कर्षः प्रकटितः। विश्वविद्यालयस्य सभाङ्गणे आयोजिते गरिमामये अभिनन्दनसमारोहे कुलपति-महोदयैः सह सर्वेषां विभागानां प्रमुखाः उपस्थिताः आसन्। तत्र कुलपतिभिः प्रह्लाद रा जोशीमहोदयैः स्वभाषणेन सम-उपाचार्यमहोदयायै हार्दानि अभिनन्दनानि प्रदत्तानि। तेनोक्तं यत् एषः विश्वविद्यालयस्य कृते अतीव गौरवपूर्णः विषयः अस्ति तथा च सर्वे अपि अत्यन्तं हर्षिताः आनन्दिताश्च सन्ति।

समारोहे विश्वविद्यालयस्य विविधानां विभागानां पक्षतः आचार्य-मल्लिका-कलितायाः भव्यं स्वागतं कृतम्। संस्कृतसर्वदर्शनविभाग:, वेदाध्ययनविभागः, साहित्यविभागः, व्याकरणविभागः, धर्मशास्त्रविभागः, न्यायविभागः, शिक्षाविभागः, असमीयाविभागः, तथा योगविज्ञानविभागः इत्यादिभिः विभागैः स्व-स्व-प्रतिनिधिभिः साकं महोदयायै पुष्पगुच्छम्, अङ्गवस्त्रं च दत्वा अभिनन्दनानि व्याहृतानि।

सर्वे विभागाध्यक्षाः तस्याः दीर्घकालिक-शैक्षणिक-अनुभवस्य तथा पाण्डित्यस्य प्रशंसां कृतवन्तः। अस्मिन् अवसरे नवनियुक्ता सम-उपाचार्या अवदत् यत्— “विश्वविद्यालयस्य सर्वाङ्गीण-विकासाय, छात्राणाम् उज्ज्वल-भविष्याय तथा शिक्षायाः वैश्विके स्तरे प्रचाराय अहं पूर्णनिष्ठया कार्यं करिष्यामि। सर्वेषां विभागानां सहयोगेन वयं विश्वविद्यालयं नूतन-शिखरं नेष्यामः।”

अनया नियुक्त्या विश्वविद्यालयस्य शैक्षणिक-प्रशासनिक-कार्याणि नवीनां गतिम् ऊर्जां च प्राप्स्यन्ति इति विश्वासः प्रकटितः। अन्ते सर्वे छात्राः शोधच्छात्राः च महोदयां मिलित्वा स्व-शुभकामनाः प्रकटितवन्तः।

You Might Also Like

राधाकृष्णन-दर्शनम्: शाश्वतम् समसामयिकं च – अन्ताराष्ट्रिय-संगोष्ठी आयोजिता

काञ्चीधाम्नि अखिलभारतीयशास्त्रोत्सवस्य भव्योद्घाटनम्: देशस्य कोणात् शतशः छात्राणां प्रतिभागिता

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययन-विश्वविद्यालये सर्वदर्शनविभागस्य ‘कैवल्यमञ्जरी’ इति भित्तिपत्रिकायाः भव्योद्घाटनम्

कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये ग्रन्थोन्मोचनम्

पी.एम.जी.एस.वाई. (PMGSY): ग्रामीणमार्गाणां कृते अप्रैल-मासस्य १५ दिनाङ्कात् पूर्वं निविदाः (Tenders) आवश्यकाः

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये ग्रन्थोन्मोचनम्
Next Article कुमारभास्करवर्मसंस्कृतपुरातनाध्ययन-विश्वविद्यालये सर्वदर्शनविभागस्य ‘कैवल्यमञ्जरी’ इति भित्तिपत्रिकायाः भव्योद्घाटनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?