By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति
हिमाचलवार्ता

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

डॉ मनोज शैल
Last updated: 2026/01/29 at 10:48 AM
डॉ मनोज शैल
Share
2 Min Read
SHARE

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

हिमसंस्कृतवार्ता:- शिमला।

धर्मशाला- राजकीयमहाविद्यालयस्य छात्रायाः संदिग्धमृत्युविषये उच्चशिक्षा- निदेशकः डॉ. अमरजीतकुमारशर्मा शिक्षासचिवाय राकेश कँवरमहोदाय विभागीय- अन्वेषण- प्रतिवेदनं (Inquiry Report) समर्पितवान्। अतिरिक्त- निदेशकस्य अध्यक्षतायां सङ्घटितेन अन्वेषणदलेन महाविद्यालयस्तरे जातिगत-टिप्पण्याः अथवा ‘रैगिंग’ इत्यस्य किमपि ठोस-प्रमाणं न प्राप्तम्। परन्तु यौनशोषणस्य कोणात् अद्यापि सूक्ष्म- अन्वेषणं प्रचलति। छात्रायाः चिकित्सा- प्रतिवेदनस्य (Medical Report), शवपरीक्षणस्य (Post-mortem) निष्कर्षानन्तरं अस्य पक्षस्य स्पष्टता भविष्यति।

उच्चशिक्षा- निदेशालयेन प्रेषितेन पञ्चसदस्यीय- समित्या महाविद्यालये शिक्षकाणां, छात्राणां, प्रशासनिक- कर्मचारिणां च पृथक्-पृथक् साक्षात्कारः कृतः। समित्या उपस्थिति-पञ्जिका, आन्तरिक- उपालम्भ- तन्त्रं (Internal Complaint Committee) तथा पूर्वतन- उपालम्भानाम् अपि गहनतया निरीक्षणं कृतम्।

समित्याः सङ्घटनम् आरोपिणः स्थितिः च

अतिरिक्त- निदेशकस्य डॉ. हरीशकुमारस्य अध्यक्षतायां सङ्घटितायां समित्यां ढलियारा- महाविद्यालयस्य प्राचार्या डॉ. अञ्जू आर. चौहान, बैजनाथस्य प्राचार्यः डॉ. प्रदीपकुमारकौण्डलः तथा च नौरा-महाविद्यालयस्य प्राचार्यः डॉ. राजेशकुमारः सदस्याः आसन्। शिक्षा-निदेशकः अवदत् यत् आरोपी ‘असिस्टेंट प्रोफेसर’ अशोककुमारः सम्प्रति निलम्बितः (Suspended) अस्ति, सः अनुमतिं विना शिमला-नगरात् बहिः गन्तुं न शक्नोति।

किं वर्तते प्रकरणम्?

हिमाचलप्रदेशस्य धर्मशाला-स्थितस्य राजकीय- महाविद्यालयस्य एका १९ वर्षीया दलितछात्रा २६ दिसम्बर २०२५ दिनाङ्के लुधियानानगरे चिकित्सालयं प्रति नीता, यत्र उपचारकाले तस्याः मृत्युः अभवत्। मृत्योः पूर्वं सा दीर्घकालात् मानसिक-तनावप्रस्तता (Depression) आसीत्।

परिजनानाम् आरोपाः-

परिजनानाम् आरोपा: सन्ति यत् १८ सितम्बर २०२५ दिनाङ्के तिस्रः वरिष्ठछात्राः तां ताडितवत्यः, धमक्यः च दत्तवत्यः। भूगोल-विभागस्य सहायक- आचार्यस्य उपरि अश्लील-चेष्टाणां, अशुद्धस्पर्शाणां च आरोपाः सन्ति। मृत्योः पूर्वं छात्रायाः एकं ‘वीडियो’ (Video) प्रसारितं जातं, यस्मिन् सा आचार्यस्य ‘अजीब-चेष्टाणां’ उत्पीडनस्य च व्यथां प्रकटितवती।

You Might Also Like

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 

पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 

“मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति

जयरामठाकुरः अवदत्- मुख्यमन्त्री कथयेत्, उपमुख्यमन्त्रिणः विरुद्धं कीदृशान्वेषणं (Investigation) प्रचलति

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 
Next Article HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?