जयरामठाकुरः अवदत्- मुख्यमन्त्री कथयेत्, उपमुख्यमन्त्रिणः विरुद्धं कीदृशान्वेषणं (Investigation) प्रचलति
हिमसंस्कृतवार्ता:- शिमला।
पूर्वमुख्यमन्त्री विपक्षस्य नेता च जयरामठाकुरः अवदत् यत् मुख्यमन्त्री सुक्खू महोदयेन अस्पष्टोत्तराणां स्थाने स्पष्टं करणीयम् यत् वस्तुतः उपमुख्यमन्त्रिणः मुकेश अग्निहोत्री महोदयस्य विरुद्धं कीदृशी अन्वेषणप्रक्रिया (Investigation) प्रचलति। जयराममहोदयः कटाक्षं कुर्वन् उक्तवान् यत् मुख्यमन्त्री कदाचित् स्वासनरक्षणस्य भयेन एतं विषयं ‘साधारणं पत्रम्’ इति मत्वा उपेक्षते। विपक्षस्य नेता ‘पूर्णराज्यत्वदिवसे’ कृताः घोषणाः भ्रामकाः इति उक्तवान्। सः अवदत् यत् यदा राज्यस्य कोषः (Treasury) रिक्तः अस्ति, तदा मुख्यमन्त्री केवलं मतसङ्ग्रहाय (Vote bank) पुरातनपत्राणि पठित्वा जनतां छलयति। अधुना हिमाचलस्य जनानां सर्वकारस्य उपरि विश्वासः न जातः।
भारत-यूरोपीयसङ्घस्य (EU) मुक्तव्यापारसहमति: एकः ऐतिहासिकः निर्णयः
जयरामठाकुरः प्रधानमन्त्रिणः नरेन्द्रमोदी महोदयस्य दूरदर्शीनेतृत्वस्य प्रशंसां कृतवान्। सः भारत- यूरोपीयसङ्घस्य मध्ये जातं ‘मुक्तव्यापारसहमति:’ (FTA) देशस्य आर्थिकयात्रायां ‘मीलस्तम्भः’ इति वर्णितवान्।
सहमते: प्रमुखाः लाभाः-
१. विपणि-प्राप्तिः– इयं सहमति: भारतं २७ यूरोपीयदेशानां विशालविपण्या (Market) सह साक्षात् योजयति।
२. कर-मुक्तिः– भारतीय उत्पादानां ९९ प्रतिशतं भागे विशेषकर-सवलत् (Preferential access) प्राप्स्यते।
३. क्षेत्रीय-लाभः – अनेन कृषकाः समृद्धाः भविष्यन्ति, ‘MSME’ क्षेत्रं च सुदृढं भविष्यति।
४. जीविका – अनेन विनिर्माण-सेवाक्षेत्रेषु क्रान्तिः आगमिष्यति, येन युवकानां कृते नूतनाः जीविका-अवसराः सृज्यन्ते।
