HP WEATHER – हिमाचले पुनः ऋतुपरिवर्तनम्; मनाली-कुफरी-प्रभृतिषु उच्चक्षेत्रेषु हिमपातः
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशस्य अधिकांशभागेषु मङ्गलवासरे पुनः वर्षा-हिमपातयोः क्रमः आरब्धः। उच्चक्षेत्रेषु निरन्तरं हिमपातः भवति, येन फागू-कुफरी मार्गः यातायातार्थं स्थगितः जातः। नारकण्डा, चौपालस्य खिड़की तथा ठियोग-रोहडू मार्गेषु ‘खडापत्थर’ इत्यत्र स्खलन-कारणेन वाहनानां आवागमनं बाधितं वर्तते।
विगत-२४ होरासु अङ्कितः हिमपातः (सेण्टीमीटर-मध्ये):
गोन्दला: २२.०
कुकुमसेरी: २१.३
कोठी: २०.०
केलाङ्ग: १२.५
कल्पा: ५.५
अग्रिम्-ऋतु-पूर्वानुमानम्
ऋतुविज्ञानकेन्द्रानुसारं २७ जनवरी दिनाङ्के राज्यस्य बहुषु भागेषु मध्यमा वर्षा-हिमपातः च भविष्यति। चम्बा-कुल्लू-किन्नौर-लाहौल-स्पीति जनपदेभ्यः ‘नारङ्गवर्णीयसचेतना’ कृता अस्ति। अन्यानां जनपदानामर्थे (यथा- ऊना, हमीरपुरं, शिमला) ‘पीतसचेतना’ अस्ति। १ फरवरी दिनाङ्के पुनः ऋतुपरिवर्तनस्य सम्भावना वर्तते, २९ जनवरी दिनाङ्के तु ऋतुः शुष्कः भविष्यति।
सोलङ्गनाला-क्षेत्रे एक-पाद-परिमितः हिमपातः
पर्यटननगर्यां मनाल्यां पुनः हिमपातः आरब्धः। सोलङ्गनाला क्षेत्रे सोमवासररात्रौ एक-पाद-परिमितः (1 foot) हिमपातः जातः। मनाल्यां ५ इञ्च्, कोठी-क्षेत्रे च १२ इञ्च् हिमपातः अङ्कितः। यद्यपि जनजीवनं किञ्चित् बाधितं, परन्तु लोकनिर्माणविभागेन ९० प्रतिशतं मार्गाः पुनः उद्घाटिताः।
अटल-कन्दरायां निरुद्धयो: पर्यटकयो: उद्धारः
आरक्षकैः (Police) अटल-कन्दराया: ‘स्नो-गैलरी’ मध्ये निरुद्धौ द्वौ पर्यटकौ सुरक्षितं निष्कासितौ। झारखण्ड-उत्तरप्रदेशनिवासी एतौ पर्यटकौ मङ्गलवासरे प्रातःकाले ‘धुन्धी’ समीपे हिमपाते निरुद्धौ आस्ताम्।
विद्यालयेषु अवकाशः
हिमपातस्य कारणेन छात्राणां सुरक्षां विचिन्त्य कुल्लू-प्रशासनेन मनाली-बञ्जार उपमण्डलयोः सर्वेषु विद्यालयेषु अवकाशः घोषितः। कुल्लू-उपमण्डले अपि १३ विद्यालयाः पिहिता: भविष्यन्ति। उपायुक्तः तोरुल एस. रवीशः सर्वेभ्यः अधिकारिभ्यः सतर्कतां धारयितुं आदेशं दत्तवान्।
होटल-स्वामिनां सहयोगः
मनाल्यां पर्यटकानां साहाय्यार्थं ‘होटलियर एसोसिएशन’ इत्यस्य अध्यक्षः रोशन ठाकुरः स्वव्ययेन ‘जेसीबी’ (JCB) यन्त्रं आहूय मार्गेभ्यः हिमं दूरीकृतवान्, येन पर्यटकाः स्वहोटल-भवनं प्रति सुखेन गन्तुं शक्नुवन्ति।
