INDvsNZD भारतं दशचक्रेषु विजयं प्राप्य तृतीये टी-२०-क्रीडायां न्यूजीलैण्ड्-देशं अष्टस्तोभैः पराजय्य श्रृङ्खलाम् अवाप्तवान् ।
रविवासरे तृतीयायां टी-२०-क्रीडायां भारतेन न्यूजीलैण्ड्-देशः अष्टस्तौभाङ्कैः पराजितः । गुवाहाटीनगरस्य बरसापाराक्रिकेट्-क्रीडाङ्गणे एकपक्षीय-स्पर्धायां प्रथमं फलकक्रीडां कृत्वा न्यूजीलैण्ड्-देशः २० चक्रेषु नवस्तोभानां-हानौ १५३ धावनाङ्कान् कृतवान्, तस्य प्रतिक्रियारूपेण भारतेन दशमे चक्रे १५५ धावनाङ्काः कृत्वा द्वौ स्तौभौ हारितौ । भारतस्य कृते अभिषेकशर्मा २० कन्दुकेषु ६८ धावनाङ्कं कृतवान्, सूर्यकुमारयादवः २६ कन्दुकेषु अपराजितः ५७ धावनाङ्कान् कृतवान् । न्यूजीलैण्ड्-देशस्य कृते मैट् हेनरी, ईशसोधिः च एकैकं स्तोभं गृहीतवन्तौ । १५४ धावनाङ्कानां लक्ष्यं अनुसृत्य भारतं प्रथमे एव कन्दुके विघ्नं प्राप्नोत् । प्रथमः संजु सैमसनः स्वस्य खातं उद्घाटयितुं असफलः अभवत्। सः मैट् हेनरी इत्यनेन बहिर्कृतः । इशान किशनः २८ धावनाङ्कैः बहिः अभवत् । अभिषेकः २० कन्दुकेषु ६८ धावनाङ्कानां अपराजितक्रीडां कृतवान् । नायकः सूर्यकुमारयादवः २६ कन्दुकेषु अपराजितः ५७ धावनाङ्कान् कृतवान् । कन्दुकक्षेपणे बुमराहः त्रीणि , हार्दिकः रविबिष्नोई च द्वौ द्वौ स्तौभौ गृहीतवन्तौ ।
INDvsNZD भारतं दशचक्रेषु विजयं प्राप्य तृतीये टी-२०-क्रीडायां न्यूजीलैण्ड्-देशं अष्टस्तोभैः पराजय्य श्रृङ्खलाम् अवाप्तवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
