अमर्त्यसेनः विख्यातः भारतीयः अर्थशास्त्रज्ञः । अर्थशास्त्राय एतेन कृतानि योगदानानि, समाजस्य निर्धनानां समस्यानां विषये अस्य आसक्तिं च पुरस्कृत्य अयं १९९८ तमे वर्षे नोबल्-पारितोषिकेण सम्मानितः । दुर्भिक्षायाः हेतूनां विषये अनेन कृतानां प्रयासानां कारणतः आहाराभावसमस्यायाः प्रायोगिकपरिहारान् प्राप्तुं शक्तवन्तः । नेषनल्-हुमानिटिस्-पदकम् अनेन २०१२ तमे वर्षे प्राप्तम् । इदं पदकं प्राप्तवान् प्रथमः अनिवासी-अमेरिकाजनः अयमेव । अद्यत्वे अयं थामस् डब्ल्यू लमण्ट् विश्वविद्यालये प्राध्यापकः, हार्वर्ड् विश्वविद्यालये अर्थशास्त्र-तत्त्वशास्त्रयोः प्राध्यापकः च अस्ति । हार्वर्ड्-सोसैटि-सदस्येषु अयं ज्येष्ठः गौरवसदस्यः अस्ति । आल् सोल्स् विद्यालयस्य आक्स्फर्ड् विद्यालयस्य च विशिष्टगौरवसदस्यः, ट्रिनिटि-केम्ब्रिड्ज्-विद्यालययोः गौरवसदस्यश्च अस्ति [४]। आक्स्ब्रिड्ज्-विद्यालयस्य प्रथमः भारतीयः प्रथमः एशियनीयः प्रमुखः अस्ति ।चत्वारिंशत्सु वर्षेषु अमर्त्यसेनस्य पुस्तकानि एकत्रिंशदधिकाभिः भाषाभिः अनूदिताः सन्ति । शान्त्यै रक्षणाय च अर्थशास्त्रज्ञाः (Economists for Peace and Security) इत्येतस्य गणस्य विश्वस्तः अस्ति । ‘टैम्’पत्रिकया निर्दिष्टम् अस्ति यत् ‘एशियन्-नायकानां ६० वर्षाणि’ इत्यस्याम् आवल्यां तस्य नाम योजितवती अस्ति । अपि च ‘जगतः १०० अति प्रभावशालिनः जनाः’ इत्यत्र अपि अस्य नाम् योजितमस्ति । ‘जगतः अपेक्षिताः ५० अति प्रभावशालिनः’ इत्यस्मिन् २०१० तमायां सञ्चिकायाम् अस्य नाम निर्दिष्टवती अस्ति न्यू स्टेट्स्मन् पत्रिका । पश्चिमवङ्गराज्ये शान्तिनिकेतने हिन्दुवङ्गवैद्यब्राह्मणकुले सेनस्य जन्म अभवत् । रवीन्द्रनाथठागूरेण ‘अमर्त्यसेनः’ इति नाम चितम् इति श्रूयते । तस्य मातामहः आचार्यः क्षितिमोहनसेनः रवीन्द्रनाथठागूरस्य आत्मीयः आसीत् । सः मध्यकालीनभारतीयेतिहासस्य तज्ज्ञः, हिन्तुतत्त्वशास्त्रे कृतभूरिपरिश्रमः, विश्वभारती-विश्वविद्यालयस्य द्वितीयः उपकुलपतिश्च आसीत् । तस्य मातामहः, प्रथमनिर्वाचनाधिकारिणः सुकुमारसेनस्य, प्रसिद्धवैद्यस्य अमियासेनस्य, न्यायवादिनः अशोककुमारस्य च पितृव्यः आसीत् । सेनस्य पिता प्राध्यापकः आशुतोषसेनः माता अमिता । एतौ ढाकायाः मणिक्गञ्जे जन्म प्राप्तवन्तौ । तस्य पिता ढाकाविश्वविद्यालये रासायनिकशास्त्रस्य प्राध्यापकः आसीत् । अग्रे वेस्ट्बेङ्गाल्-पब्लिक्-सर्वीस्-कमीषन्-संस्थायाः अध्यक्षरूपेण देहल्यां बहूनि वर्षाणि कार्यम् अकरोत् ।
बाल्यजीवनं विद्याभ्यासश्च
आधुनिक-पश्चिमवङ्गराज्यस्य ढाकायां सैण्ट् ग्रेगोरिविद्यालये सेनस्य प्रौढशालाभ्यासः जातः । १९४७ तमे वर्षे भारतस्य विभजनानन्तरं तदीयं कुटुम्बं भारतं प्रति आगतम् । भारते सेनः विश्वभारती-विश्वविद्यालय-विद्यालये अपठत् । ततः कोल्कोतानगरस्थे प्रेसिडेन्सिविद्यालये अर्थशास्त्रम् अधीत्य बि ए पदवीं प्रथमश्रेण्यां प्राप्तवान् । १९५३ तमस्य गणस्य अति प्रतिभावान् विद्यार्थी आसीत् सः । तस्मिन् एव वर्षे सः केम्ब्रिड्ज्मध्ये विद्यमानं ट्रिनिटिविद्यालयं प्रति अगच्छत् । तत्र १९५६ तमे वर्षे ऐच्छिकपदवीपरीक्षां प्रथमश्रेण्या उत्तीर्णः । सः केम्ब्रिज् मजिसस्य अध्यक्षरूपेण चितः ।ट्रिनिटिविद्यालये पठनावसरे एव सेनेन प्रशान्तचन्द्रमहलनोबिसः मिलितः, यः सेनस्य व्यक्तित्वात् नितरां प्रभावितः जातः । कलकत्तां गतः सः तदानीन्तनेन शिक्षणमन्त्रिणा त्रिगुणसेनेन अमिलत् । नूतनजादवपुरविश्वविद्यालयस्य संस्थापने त्रिगुणसेनः उपकरणरूपः जातः । परीक्षायाः समाप्तेः अनन्तरं सेनः अर्थशास्त्रे विद्यावारिधिं (डाक्टरेट्) प्राप्तुम् आवेदनं समर्प्य वर्षद्वयात्मकं विरामं प्राप्य भारतं प्रत्यागतः । त्रिगुणसेनः अनुपदमेव तं जाधवपुरस्य विश्वविद्यालये अर्थशास्त्रविभागे प्राध्यापकत्वेन नियुङ्क्तवान् । तदा तस्य वयः आसीत् २३ वर्षाणि । अद्यत्वे अपि तस्मिन् लघुवयसि विश्वविद्यालये प्राध्यापकत्वं प्राप्तवान् जनः सः एकः एव अस्ति । तत्र कार्यकरणावसरे बेनारस् हिन्दु विश्वविद्यालये पाठयतः अर्थशास्त्रे कृतभूरिपरिश्रमस्य ए के दासगुप्तस्य मार्गदर्शनं सेनेन प्राप्तम् । सेनः १९५९ तमे वर्षे केम्ब्रिड्ज्विद्यालयं प्रतिगतवान् । ट्रिनिटीविद्यालयतः तेन विशेषानुमतिः प्राप्ता यत् वर्षचतुष्टयं तेन यत्किमपि कर्तुं शक्यते इति । तदवसरे तेन तत्वशास्त्रम् अध्येतव्यम् इति अपूर्वनिर्णयः कृतः । अग्रिमशोधकार्याय इदं नितरां प्रयोजनाय जातम् । तत्त्वशास्त्रस्य अध्ययनस्य महत्त्वविषये सः वदति – अर्थशास्त्रस्य केचन प्रमुखाः अंशाः तत्त्वशास्त्रस्य पृष्ठभूमिकायामेव समीचीनतया अवगन्तुं शक्याः इत्येतन्मात्रं न अपि च तत्त्वशास्त्रस्य पठनं स्वयं महत्त्वपूर्णम् इति ।
अमर्त्यसेनः विख्यातः भारतीयः अर्थशास्त्रज्ञः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
