राष्ट्रीयैक्यदिवसस्य पूर्वसन्ध्यायाम् भोपालपरिसरे नाट्यप्रस्तुतिः सम्पन्ना
हिमसंस्कृतवार्ताः। राष्ट्रीयैक्यदिवसस्य पूर्वसन्ध्यायाम् 29 अक्टोबर् 2025 तमे दिने सायं 5:00 वादने, केन्द्रीयसंस्कृत-विश्वविद्यालयस्य भोपालपरिसरे मध्यप्रदेशराज्ये स्थिते प्रतिष्ठिते भवभूतिप्रेक्षागृहे भारतीयसंस्कृतिकधरोहरस्य संरक्षणसंवर्धनयोः उद्देशेन एकः भव्यः नाट्यप्रस्तुतिः सम्पन्ना। एषः महत्त्वपूर्णः आयोजनः गुजरातराज्यसंगीतनाटकाकादम्या, गान्धीनगरस्थया तत्वावधानात् सम्पन्नः, यस्याः अन्तर्गते सुप्रसिद्धः निर्माता–निर्देशकः, नाट्यविद्या–महोपाध्यायः श्रीवैभवकुमारः जे. राणा (नडियाद्, गुजरातम्) इत्यनेन निर्देशितं गुजरातीभाषायां रचितं नाटकं “एक हती कृष्णा” इति नामकं प्रस्तुतम्। केन्द्रीयसंस्कृतविश्वविद्यालयः भारतसर्वकारस्य अधीनं राष्ट्रीयमहत्त्वस्य संस्थानम् अस्ति। अस्य विश्वविद्यालयस्य विज़िटर् (Visitor) माननीया भारतराष्ट्रपतिः श्रीमती द्रौपदी मुर्मू, विश्वविद्यालयस्य संरक्षणं पालयन्ति। एषः संस्थानः भारतीयपरम्परागतज्ञानविज्ञान–भाषा–संस्कृति–संवर्धनाय समर्पितः अस्ति।विश्वविद्यालयस्य कुलाधिपः माननीयः केन्द्रीयशिक्षामन्त्री श्रीधरमेन्द्रप्रधानः, राष्ट्रियशिक्षानीतिः 2020 अनुगुणं संस्कृतिआधारितशिक्षायाः, भारतीयभाषानां तथा अभिव्यक्तिकला–उत्थानाय निरन्तरं कार्यरतः अस्ति। विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी (नवदिल्ल्ली) इत्यस्य शैक्षणिकनेतृत्वेन परिसरम् अधिगतं संस्कृतभाषायाः च भारतीयज्ञानपरम्परायाः विशिष्टाध्ययनम् विस्तारं प्राप्तम्।एतस्मिन् भारतसर्वकारसंस्थाने, कार्यक्रमस्य गरिमायुक्ता अध्यक्षता विश्वविद्यालयभोपालपरिसरस्य निदेशकः डॉ. रमाकान्तपाण्डेय इत्यनेन कृता। कार्यक्रमस्य शुभारम्भः दीपप्रज्वलनसमारोहेन अभवत्, यस्मिन् प्रभारीनिदेशकः प्रो. सुबोधशर्मा, ज्योतिषविभागाध्यक्षः प्रो. भारतभूषणमिश्रः, व्याकरणविभागस्य सहायकाचार्यः डॉ. नरेशपाण्डेय च विशिष्टतया उपस्थिताः आसन्।ततः परं, भारतीयसंस्कृतिमन्त्रालयात् (नवदिल्ल्ली) सम्मानं प्राप्तवान् गुजरातराज्यस्य नाट्यनिर्देशकः प्रो. वैभवकुमारः जे. राणा इत्यस्मै शाल्युतकं समर्प्य विधिवत् सम्मानः प्रदत्तः।

“एक हती कृष्णा”, यस्य लेखकः डॉ. प्रो. ध्वनिल् पारेखः अस्ति, महाभारतस्य दार्शनिकभूमिकायाम् आधारितं विचारोत्तेजकं नाट्यकृतिः इति प्रसिद्धम्। अस्मिन् नाट्ये धर्मसंघर्षः, नीतिनिर्णयः, मानवीयसंवेदना च, श्रीकृष्णस्य जीवनसत्यं च गाम्भीर्येण प्रस्तूतम्। नाट्यस्य संवादाः, भावाभिनयः, मंचव्यवस्था, वेशभूषा तथा प्रकाशसंयोजनम् इत्येतैः दर्शकाः सम्पूर्णतया मोहिताः अभवन्।गुजरातराज्यात् आगता वैभवकुमारस्य नाट्यमण्डली — पञ्चदश कलाकारैः संयुक्ता — चरित्रानुसारं अभिनयकौशलम्, शारीरिकनाट्यभाषायां अनुशासनं च प्रदर्शनं कृतवती। तेषां नाट्यौर्जा, संगति, चित्ताकर्षकाभिव्यक्ति च दृष्टा सर्वान् दर्शकान् हृष्टान् कृतवती। उपस्थिताः शिक्षाविदः, विद्यार्थीगणः, साहित्यप्रेमिणः, पत्रकाराः च प्रस्तुतेः प्रति उत्साहपूर्वकं प्रशंसां कृतवन्तः।वक्तारः अवदन् यत् — भारतीयरंगमञ्चपरम्परा, संस्कृततथा प्रादेशिकभाषानां नाट्यविरासत् युवा–पीढ्यां सांस्कृतिकचेतनां, राष्ट्रीयैक्यं, चिंतनशीलसौन्दर्यबोधं च विकसयन्ति। एते कार्यक्रमाः अस्माकं सांस्कृतिकनिरन्तरतायाः मूलाधारभूताः सन्ति।कार्यक्रमस्य संयोजनं संस्कृतविश्वविद्यालयस्य भोपालपरिसरनिदेशकः प्रो. रमाकान्तपाण्डेय इत्यनेन गरिमापूर्णरूपेण सम्पन्नम्।अन्ते विश्वविद्यालयप्रशासनम् नाट्यनिर्देशकं वैभवकुमारं जे. राणा इत्यं तस्य नाट्यमण्डलीं च प्रति हार्दिकं आभारं प्रकटयत्।एषः आयोजनः भारतीयरंगमञ्चीय–सांस्कृतिकविरासतस्य संरक्षणाय, सांस्कृतिकसंवादस्य प्रसारणाय, राष्ट्रीयैक्यस्य सुदृढसंकल्परूपेण च प्रतिष्ठितः अभवत्। एषः कार्यक्रमः गुजरातराज्यसंगीतनाटकअकादम्या, गान्धीनगरम्–स्थितया प्रायोजितः।
राष्ट्रीयैक्यदिवसस्य पूर्वसन्ध्यायाम् भोपालपरिसरे नाट्यप्रस्तुतिः सम्पन्ना
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
