प्रधानमन्त्री नरेन्द्रमोदी अरुणाचलप्रदेशे एकपंचाशत्-शतकोटिरूप्यकाणां अनेकाः विकासपरियोजनाः प्रारब्धवान्
हिमसंस्कृतवार्ता: – प्रधानमन्त्रिणा उक्तं यत् अरुणाचलप्रदेशः न केवलं उदीययमानस्य सूर्यस्य भूमिः अपितु देशभक्तेरपि अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अरुणाचलप्रदेशे एकपंचाशत्-शतकोटिरूप्यकाणां आधारभूतसंरचनापरियोजनानां प्रारम्भं कृतवान्, यया ऊर्जायां क्षेत्रीयविकासे च राज्यस्य वर्धमाना भूमिका प्रकाशिता। प्रधानमन्त्रिणा मोदिना वस्तुतः शियोमी-मण्डले द्वयोः प्रमुखयोः जलविद्युत्परियोजनयोः, तवाङ्गनगरे च सम्मेलनकेन्द्रस्य आधारशिला स्थापिता। प्रधानमन्त्रिणा मार्गसंपर्कः, स्वास्थ्यसेवा, अग्निसुरक्षा च इत्यादिषु विभिन्नक्षेत्रेषु नवत्याधिक-द्वादशशत-कोटिरूप्यकाणां परियोजनानां उद्घाटनम् अपि कृतम् ।
पश्चात् इटानगरस्य इन्दिरागान्धी उद्याने जनसभां सम्बोधयता प्रधानमन्त्रिणा उक्तं यत् अरुणाचलप्रदेशः न केवलं उदीयमानस्य सूर्यस्य भूमिः अपितु देशभक्तेरपि अस्ति। सः अवदत् यत् केसरवर्णः यथा त्रिवर्णस्य प्रथमः वर्णः, तथैव अरुणाचलप्रदेशः प्रथमवर्णः अस्ति। अत्र प्रत्येकं जनः शौर्यस्य सरलतायाश्च मूर्तरूपं ददाति। पश्चात् प्रधानमन्त्री नरेन्द्रमोदी त्रिपुराप्रदेशस्य उदयपुरनगरे हिन्दुभिः पूजितेषु एकपंचाशत् शक्तिपीठेषु अन्यतमस्य पुनर्विकसितस्य मातात्रिपुरासुन्दरीमन्दिरस्य उद्घाटनं कृतवान्। प्रधानमन्त्रिणा उक्तं यत्, “अस्मिन् वर्षे नवरात्रि उत्सवः वस्तु सेवा कर महोत्सवात् आरभ्यते इति अतीव विशेषः अस्ति।” सः अवदत् यत् अस्मिन् वर्षे नवरात्रि-उत्सवः जीएसटी-बचत-महोत्सवेन आरभ्यते इति कारणतः अतीव विशेषः अस्ति । अग्रिम-परम्परायाः वस्तुसेवाकर-विषये प्रधानमन्त्रिणा उक्तं यत् अस्य परिष्कारेण वृहत्तम-संख्यायाम् लाभार्थिन्यः महिलाः अपि अन्यतमाः भविष्यन्ति । सः व्याख्यातवान् यत् एतेषां परिष्काराणाम् कृते मासिकगृहव्यये न्यूनता भविष्यति, सुरक्षायां वृद्धिः च भविष्यति।
प्रधानमन्त्री नरेन्द्रमोदी त्रिपुराप्रदेशस्य उदयपुरनगरे हिन्दुभिः पूजितेषु एकपंचाशत् शक्तिपीठेषु अन्यतमस्य पुनर्विकसितस्य मातात्रिपुरासुन्दरीमन्दिरस्य उद्घाटनं कृतवान्।
प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रसादयोजनान्तर्गतं माता-त्रिपुरासुन्दरी-मन्दिरस्य विकासकार्याणाम् उद्घाटानं विहितम् । अनेन उद्घाटनेन त्रिपुरायाः समृद्ध-सांस्कृतिक-न्यासे आध्यात्मिक-परम्परायाञ्च नूतनः कश्चन अध्यायः सम्मिलितः। अरुणाचलप्रदेशात् अगरतालायाः एमबीबी-विमानपत्तनं सम्प्राप्य प्रधानमन्त्रिणा उदग्रयानेन अगरतलातः उदयपुरस्य ओटीपीसी-उदग्रयान-स्थानकं यावत् यात्रा कृता । अत्रावसरे प्रधानमन्त्रिणः दर्शनाय प्रतीक्षमाणाः जनाः तस्य सस्नेहं स्वागतं कृतवन्तः । तत्र तावत् प्रधानमन्त्रिणा पूजाऽर्चना विहिता सहैव प्राचीनमन्दिरेषु स्थापितानां प्रदर्शनीनाम् अपि अवलोकनं कृतम्। एताः प्रदर्शिन्यः तत्रत्यं सांस्कृतिक-आध्यात्मिक-वैभवं प्रकाशयन्ति। पारम्परिक सम्मानत्वेन जमातिया-होड़ा-समुदायस्य कलाप्रवीणाः भक्तिगीतैः तस्य स्वागतं अकुर्वन् येन उत्सवस्य भव्यता इतोऽपि सम्वर्धिता।
प्रधानमन्त्री नरेन्द्रमोदी अरुणाचलप्रदेशे एकपंचाशत्-शतकोटिरूप्यकाणां अनेकाः विकासपरियोजनाः प्रारब्धवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
