By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: बिहुः – असमस्य सांस्कृतिकचेतनायाः कृषिजीवनस्य च जीवनोत्सवः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > दिवसविशेषः > बिहुः – असमस्य सांस्कृतिकचेतनायाः कृषिजीवनस्य च जीवनोत्सवः
दिवसविशेषःधर्मसंस्कृतिः

बिहुः – असमस्य सांस्कृतिकचेतनायाः कृषिजीवनस्य च जीवनोत्सवः

डॉ.अमनदीप शर्मा
Last updated: 2025/04/15 at 7:29 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

बिहुः – असमस्य सांस्कृतिकचेतनायाः कृषिजीवनस्य च जीवनोत्सवः

लेखक-ः डॉ. रणजीत कुमार तिवारी

डॉ. रणजीत् कुमार तिवारी
सहाचार्योऽध्यक्षश्च, सर्वदर्शनविभागः
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयः, नलबारी, असमराज्ये
भूमिका
भारते विविधसांस्कृतिकपरम्परायां बहवः उत्सवाः दृश्यन्ते, ये ग्राम्यजीवनं कृषिजीवनं च विशेषतया प्रतिबिम्बयन्ति। असमराज्ये प्रचलितः ‘बिहुः’ इत्ययं महोत्सवः तेषु प्रमुखं स्थानं धारयति। अस्मिन् उत्सवे जनाः प्रकृत्या सह एकत्वमनुभवन्ति, कृषिकार्यस्य च आरम्भं हर्षोल्लासेन कुर्वन्ति। अयं पर्वः केवलं सांस्कृतिकदृष्ट्या महत्त्वपूर्णः न, अपि तु सामाजिकैक्यस्य, आर्थिकजीवनस्य च प्रमुखः संकेतकः अपि अस्ति।
बिहोः प्रकाराः
बिहोः प्रमुखत्रयः प्रकाराः सन्ति—रङ्गालिबिहुः, कङ्गालिबिहुः, भोगालिबिहुश्च।
रङ्गालिबिहुः (वसन्तकालीनः): एषः पर्वः प्रायः अप्रैलमासस्य मध्यभागे आयोज्यते। अस्य आरम्भः ‘बैशाखस्य’ प्रथमदिने भवति, दिवसोऽयम् असमवासिनां नववर्षारम्भरूपेण अपि गण्यते।
कङ्गालिबिहुः कार्तिकमासे कातिबिहुः आयोज्यते। अस्मिन् उत्सवे जनाः लक्ष्मीदेवीं पूजयन्ति तथा धान्यक्षेत्रेषु वृक्षेषु च दीपान् प्रज्वालयन्ति।
भोगालिबिहुः (शिशिरकालीनः): माघमासे आयोज्यमानः अयं बिहुः कृषि-फलेन सह आनन्दविभाजनस्य पर्वणि परिणमति। अत्र कृषकाः लब्धफलेन सह परस्परं भोजनं कुर्वन्ति, हर्षोल्लासेन सह उत्सवमनुभवन्ति च।
बिहोः सांस्कृतिकपृष्ठभूमिः
बिहुः केवलं कृषिपरम्परायाः द्योतकः न, अपि तु असमजनानां सांस्कृतिकचेतनायाः आन्तरिकः प्रकाशः अपि अस्ति। अस्य उत्सवस्य मूलम् असमस्य आदिवासीसमाजे दृश्यते, यत्र प्रकृतिपूजनं, पशुपालनम्, सामूहिकनर्तनं च प्राचीनकालादारभ्य प्रचलितम्। ‘बिहुः’ इत्येतत् पदं सम्भवतः डिमासाजातीयानां ‘बिसु’ इत्यस्मात् शब्दात् निष्पन्नं, यस्य अर्थः अस्ति—‘आनन्दः’, ‘उत्सवः’ इत्यादि।
बिहोः गीतनृत्यादि
बिहोः प्रमुखम् आकर्षणम् अस्ति—तत्र गीतनर्तनम्। युवायुवतिभिः सामूहिकरूपेण गीयमानाः बिहुगीतानि, विशेषवाद्ययन्त्रैः सह, एकं लोकोत्तरं आनन्दं जनयन्ति। एतत् नृत्यं केवलं मनोरञ्जनाय न, अपि तु प्रेम, श्रम, सामाजिकसम्बन्धं, आत्मीयताञ्च प्रतिपादयति।
प्रमुखवाद्ययन्त्राणि—ढोलः, पेपा, गगना, टालि, टोकारी इत्यादीनि, बिहुगीतस्य आत्मा इव सन्ति। गीतानि सामान्यतः प्रकृतेः सौन्दर्यं, कृषकस्य श्रमं, विरहवेदनां च अलङ्कुर्वन्ति।
कृषिजीवने बिहोः योगदानम्
एषः उत्सवः कृषिजीवनस्य विविधावस्थाः चिन्हयति।
रङ्गालिबिहौ—कृषकाः भूमेः शोधनं कुर्वन्ति, नववर्षस्य आरम्भे शुभशकुनानां प्रतीक्षा कुर्वन्ति, वर्षायाः आगमनं हर्षेण स्मरन्ति।
भोगालिबिहौ—अन्नधान्यप्राप्तेः पश्चात् कृषकाः समृद्धिं विभजन्ति, नववस्त्राणि धारयन्ति, परस्परं पाकविधिना सह भोजनं कुर्वन्ति।
एवं बिहुः कृषकस्य श्रमस्य यथोचितं सम्मानं कृत्वा, तस्य जीवनदृष्टिं आध्यात्मिकतया प्रकाशयति।
सामाजिके बिहोः महत्त्वम्
बिहुः सामाजिकैक्यस्य प्रतीकः अस्ति। जातिवर्गादिभेदं विहाय, सर्वे समाजबान्धवाः समं उत्सवं मन्यन्ते। ग्राम्यजीवने सामूहिकपक्वान्नवितरणम्, वृद्धसेवा, गीतनृत्यानि च सामाजिकस्नेहं, सौहार्दं च वर्धयन्ति।
नवयुगे बिहोः रूपान्तरणम्
अद्यतनकाले बिहुः नगरेषु अपि उल्लासेन आयोज्यते। सामाजिकमाध्यमेषु बिहुनृत्यानां प्रचारः अस्य वैश्विकसांस्कृतिकरूपेण विकासं सूचयति। तथापि अस्य मूलरूपेण संरक्षणम् अत्यावश्यकम्, यतः अस्ये महोत्सवे कृषिजनजीवनस्य गन्धः निहितः अस्ति।
अतः युवावर्गस्य सक्रियसहभागिता, बालकानां शिक्षायाम् अस्य महत्त्वस्य समावेशः च अपेक्षितः अस्ति।
निष्कर्षः
बिहुः असमस्य कृषिजीवनं सांस्कृतिकसंवेदनां च प्रतिबिम्बयन्, सम्पूर्णजनजीवनस्य सजीवप्रतिनिधिः अस्ति। अयं उत्सवः केवलं पर्वणि न, अपि तु कृषेः श्रमं, प्रकृतेः पूजा, सामाजिकैक्यं च प्रतिपादयति। अस्य संरक्षणं संवर्धनं च केवलं असमराज्यस्य न, अपि तु सम्पूर्णभारतीयसंस्कृतेः एकतानुभूतेः कृते आवश्यकम्।

You Might Also Like

श्रद्धया यत् कर्म क्रियते तत् श्राद्धम्

हिमसंस्कृतम् न्यास द्वारा हिन्दी दिवसस्य समायोजनम्

श्रीकृष्णजन्माष्टमीपर्व-नारदोपाध्यायः

नवीनशिक्षानीतौ संस्कृतस्य भविष्यं च इति विषये व्याख्यानगोष्ठी सम्पन्ना

संस्कृतदिवसविशेषः – पाणिनेः सूत्रेभ्यः ए.आई.-पर्यन्तं संस्कृतेः नूतनम् उड्डयनम्

TAGGED: बिहु
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article डॉ. अम्बेदकरस्य दूरदृष्ट्या संस्कृतं भारतस्य सांस्कृतिकैक्यस्य सेतुभाषा
Next Article संस्कृतं पूर्णतया नित्यञ्च २६६२ गृहेषु भाष्यते अखीलभारतीयाध्यक्ष: श्रीमन्त: प्रो. गोपबन्धुमिश्रमहाभागा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?