By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतं पूर्णतया नित्यञ्च २६६२ गृहेषु भाष्यते अखीलभारतीयाध्यक्ष: श्रीमन्त: प्रो. गोपबन्धुमिश्रमहाभागा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतं पूर्णतया नित्यञ्च २६६२ गृहेषु भाष्यते अखीलभारतीयाध्यक्ष: श्रीमन्त: प्रो. गोपबन्धुमिश्रमहाभागा
संस्कृतगतिविधयः

संस्कृतं पूर्णतया नित्यञ्च २६६२ गृहेषु भाष्यते अखीलभारतीयाध्यक्ष: श्रीमन्त: प्रो. गोपबन्धुमिश्रमहाभागा

जगदीश डाभी
Last updated: 2025/04/15 at 8:57 PM
जगदीश डाभी
Share
1 Min Read
SHARE

संस्कृतं पूर्णतया नित्यञ्च २६६२ गृहेषु भाष्यते अखीलभारतीयाध्यक्ष: श्रीमन्त: प्रो. गोपबन्धुमिश्रमहाभागा:

 

वार्ताहर: – जगदीश डाभी

संस्कृतभारती,काशीप्रान्तद्वारा आयोजितेस्मिन् श्रीशारदापीठं शृङ्गेरीमठमहमूरगञ्जे द्विदिवसीया प्रान्तसमीक्षायोजनागोष्ठी रविवासरे संस्कृतस्य प्रसाराय चर्चा सञ्जाता । संस्कृतं देववाणीं लोकवाणीं(सार्वजनिकभाषां) कर्तुं संस्कृतभारती काशीप्रान्तस्य कृतस्य कार्यस्य समीक्षा कृता ।कार्यक्रमे संस्कृतभारती अखीलभारतीयाध्यक्षा: मान्या: कुलपतिचरा: प्रो. गोपबन्धुमिश्रमहाभागा: आसन् ।तै: उक्तं संस्कृतभारत्या: कार्यम् इदानीम् आभारते प्रतिग्रामं दरीदृश्यते ।न तु भारते एव अपितु विश्वस्य सप्तविंशति: २७ देशेषु जायमाना वर्तते । साम्प्रतं संस्कृतं पूर्णतया नित्यं च २६६२ द्विषष्ट्याधिकषडशतोत्तरद्विसहस्त्राधिकं गृहेषु भाष्यते। कार्यक्रमे आवर्षस्य भविष्यस्य योजनानां रूपरेखा निर्मिता । कार्यक्रमस्य उद्देश्यं संस्कृतस्य प्रचारः समाजे सामाजिकसौहार्दं च निर्वाहयितुम् आसीत् । कार्यक्रमे अखीलभारतीयमंत्री मान्य: नन्दकुमारवर्य: उक्तवान् यत् काशीप्रान्तस्य प्रत्येकेषु जनपदेषु प्रत्येकं मासं संस्कृतभाषाशिविरं भवेत्, येन सामाजिका: अपि संस्कृतेन व्यवहारं कुर्यु: । प्रान्तमंत्री श्रीमान् डॉ. नागेशपाण्डेयमहोदय: अवदत् वयं साप्ताहिकमेलनं कृत्वा गीतापाठनं प्रतिसप्ताहे कुर्म: । कार्यक्रमे पूर्वोत्तरक्षेत्रसंगठनमंत्री श्रीमान् प्रमोदपण्डितवर्य: एवं सहमंत्री डॉ. मनीषजुगरानवर्य:, प्रान्तशिक्षणप्रमुण: श्रीमान् अशोकचौधरी, सहशिक्षणप्रमुखा प्रीतिवर्मा, प्रान्तसाहित्यप्रमुख: अमरचन्द्रठाकुर:, प्रान्तप्रचारप्रमुख: सरोजपाण्डेय: तथा महानगरस्य अधिकारिण: डॉ. श्रीनिवासदेव: डॉ सुजीतत्यागी श्रीमान् विमलकुमारपाण्डेय: एवं अन्येपि कार्यकर्तार: समुपस्थिता: आसन् ।

You Might Also Like

संस्कृतभारत्या अखिलभारतीयशलाकपरीक्षा देहल्यां सम्पन्ना

केन्द्रीय-संस्कृत-विश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेड़ी ‘संस्कृतात्मा-पुरस्कारेण’ सम्मानितः

रामटेके भरतमुनि-ललितकला-केन्द्रेण गायन-प्रतियोगितायाः सफलं आयोजनम्

LBS विश्वविद्यालये “AI-युगे शोधस्य अन्तर्राष्ट्रियं भविष्यम्” इति विषये सार्थक-विमर्शः

पञ्जाबविश्वविद्यालयस्य संस्कृतविभागे द्विदिवसीयसंस्कृतशिक्षणकार्यशालायाः सफलसमापनम्

TAGGED: आज के संस्कृत समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article बिहुः – असमस्य सांस्कृतिकचेतनायाः कृषिजीवनस्य च जीवनोत्सवः
Next Article महाराजविक्रमादित्यस्य नवरत्नेषु अन्यतमस्य आचार्यवराहमिहिरस्य जन्मस्थानस्य कायथा इत्यस्य सांस्कृतिकभ्रमणं कृतम्।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?