By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संसद-ःधर्माधारेण आरक्षणस्य विषयः 1947 तमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > संसद-ःधर्माधारेण आरक्षणस्य विषयः 1947 तमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू
राष्ट्रीयवार्ताःराजनैतिकवार्ता

संसद-ःधर्माधारेण आरक्षणस्य विषयः 1947 तमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू

डॉ.अमनदीप शर्मा
Last updated: 2025/03/25 at 7:52 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

संसद-ःधर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः-किरणरिरिजू
हिमसंस्कृतवार्ताः। कर्नाटकराज्यस्य उपमुख्यमन्त्रिणः डीके शिवकुमारस्य विशेषाल्पसंख्यकसमूहाय आरक्षणप्रदानोक्त्या सदने कोलाहलं समुत्पन्नम्। अस्मात् कारणात् संसदः उभयोः सदनयोः कार्यजातं मध्याह्न-द्विवादनं यावत् स्थगितमभवत् । राज्यसभायां सदननेत्रा जे.पी. नड्डा इत्यमुनापि कांग्रेसदलम् अनया रीत्या संविधानं दुर्वलीकरोतीत्याक्षिप्तम् । तेनोदीरितं यत् कर्नाटकराज्यस्य कांग्रेससर्वकारेण पूर्वमेव सार्वजनिकस्थलेषु धर्माधारेण चतुःप्रतिशतं आरक्षणं पारितमस्ति। अस्य प्रत्युत्तररूपेण विपक्षनेत्रा मल्लिकार्जुनखडगे इत्यनेन कथितं यत् डॉ. अम्बेडकरेण विनिर्मितम् संविधानं न कोऽपि परिवर्तितुं शक्नोति सहैव देशस्य आरक्षणव्यवस्थां कोऽपि समापयितुं नार्हति । तेन भाजपादलं संविधानस्य शिथिलीकरणाय प्रत्याक्षिप्तम्। कोलाहलाधिक्यम् दृष्ट्वा सभापतिः जगदीप-धनखडः सदनस्य कार्याचरणम् स्थगितवान्। लोकसभायां यदा द्वादशवादने स्थगितं कार्याचरणं पुनः समारब्धं तदा श्रीमान् रिजिजू इत्येषः अवदत् यत् धर्माधारेण आरक्षणस्य विषयः सप्तचत्त्वारिंशदधिक-एकोनविंशतितमे वर्षे समायातः ततः सर्वे प्रमुखनेतारः तस्य निराकरणं कृतवन्तः। तेन एतदपि प्रोक्तं यत् कांग्रेसदलेन स्वनेतारः असंवैधानिक-कथनार्थं पदात् निष्कासनीयाः।
लोकसभायां वित्तविधेयकस्य विषये चर्चा संवृत्ता
लोकसभायाम् पञ्चविंशत्युत्तर-द्विसहस्रतम वित्तविधेयकस्य विषये चर्चा संवृत्ता। चर्चायां भागं भजन् भाजपायाः निशिकान्त दुवे इत्येषः अवदत् यत् सम्पूर्ण विश्वम् आर्थिकसङ्कटं सम्मुखीकरोति, तत्रैव भारतं विगतदशवर्षेषु अत्युञ्ज्वलतया समेधमानमस्ति ।श्रीदुबे इत्येषः अवदत् यत् ऑनलाइन-क्रीडायाः अनियन्त्रित-विकासं निरोद्धं तस्यामुपरि अष्टाविंशति-प्रतिशतमितं वस्तुसेवाकरः आरोपितः । सः प्रोक्तवान् यत् ऑनलाइन-क्रीडया युवानः क्षर्ति प्राप्नुवन्ति, सहैव ते स्वजनकयोः श्रमसंपादितां सम्पत्तिमपि द्यूतक्रीडायाम् अपव्ययन्ति। चर्चायामस्यां भागग्रहणं कुर्वन् समाजवादी-पार्टीतिदलस्य नीरजमौर्यः प्रोक्तवान् यत् सर्वकारेण आयव्ययके अनुसूचितजातयः, अल्पसंख्यकाञ्च विशेषरूपेण अवधातव्याः । तेनोक्तं यत् एतेषां विकासेन विना विकसित-भारतस्य स्वप्नः नैव सफलीभविष्यति।
दिल्ल्युच्चन्यायालयस्य न्यायाधीशगृहात् निगृहीतधनराशेः विषयः राज्यसभायां तप्तः
दिल्ल्युच्चन्यायालयस्य न्यायाधीशगृहात् अग्निप्रसङ्गोत्तरं निगृहीतधनराशेः प्रकरणमालक्ष्य राज्यसभायाः सभापतिः जगदीप-धनखडः जेपी नड्डा मल्लिकार्जुन खड्गे इत्येताभ्यां सहोपवेशनम् अकरोत्। अत्रान्तरे दिल्ल्युञ्चन्यायालयेन तत्क्षणप्रभावेण न्यायमूर्तेः यशवन्तवर्मणः न्यायिककार्यं प्रत्याहृतम्। उच्चन्यायालयेन पत्रक-सूचनामाध्यमेन एतदुद्धोषितम् । न्यायमूर्तिः वर्मा आरोपान् निराकुर्वन् उक्तवान् यत्तेन अथ तस्य पारिवारिक सदस्येन च स्वगृहस्य सङ्ग्रहकक्षे धनराशिः नैव स्थापितः।

You Might Also Like

प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: किरण रिरिजू, राज्यसभा, लोकसभा, संसद, संसदभवन
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article काङ्गड़ा-जनपदस्य गान्धीवादी-नेता लक्ष्मीदासः देहल्यां काङ्गड़ा-सहकारी-वित्तकोष-सीमितस्य अध्यक्ष अभवत्
Next Article HP Vidhansabha – मुख्यमंत्री मृषा वदति, पूर्वसर्वकारेण नालागढ़े एकं नूतनं खननानुबन्धं न दत्तम् – जयरामठाकुरः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?