By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/07/21 at 7:57 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

22.07.2024

राष्ट्रीयवार्ता: 

  • प्रधानमन्त्री नरेन्द्रमोदी रविवासरे सायं सप्तवादने नवदेहल्याः भारतमण्डपे विश्व-धरोहर-समितेः षट् चत्वारिंशत्तमस्य अधिवेशनस्य उद्घाटनं कृतवान् ।
  • बांग्लादेशस्य सर्वोच्च -न्यायालयेन सर्वकारीय-उद्योगेषु विवादास्पद-आरक्षणं निरस्तीकृतम्।
  •  अशेषे हि देशे श्रद्धया हर्षोल्लासेन च आचरित: गुरुपूर्णिमा महोत्सव:। अस्मिन् पावने अवसरे जनाः स्वीय-ज्ञानदीप-प्रज्वालितवतेभ्यः स्वनमनाञ्जलिं कार्तज्यभावं च प्रकटितवन्त:।
  • भारतीय-ऋतु-विज्ञानविभागेन अनुमानितं यत् गुजरात-राज्ये पञ्चविंशति-दिनांकपर्यन्तम् अतोऽपि अतिवृष्टिः भविष्यति, अथ उत्तराखण्डे अद्य श्वः च इतोऽपि अतिवृष्टेः सम्भावना वर्तते ।
  • महिला-एशिया-विंशति-प्रति-विंशति-क्रिकेट-चषके, श्रीलंकायाः- अन्ताराष्ट्रिय-क्रिकेट-क्रीडांगणे भारतीयदलेन संयुक्त अरब अमीरात दलम्, अष्टसप्ततिः धावनांकैः पराजितम्।

 

हिमाचलवार्ता:

  • शुक्रवासरे आनी विधानसभाक्षेत्रस्य निरमण्ड उपमण्डले १४ जुलैतः प्रचलितायाः श्रीखण्डमहादेव- कैलाशयात्रायाः पञ्जीकरणानन्तरं ५६७ तीर्थयात्रिकाः प्रस्थिताः। एतेषु ५५४ पुरुषाः १३ महिलाः च सन्ति । एसडीएम निरमण्ड मनमोहनसिंहः अवदत् यत् १४ जुलै रविवासरे यात्रायाः आरम्भात् आरभ्य पञ्जीकरणानन्तरं ६०२३ यात्रिकाः श्रीखण्डं प्रति प्रस्थिताः।
  • अन्ताराष्ट्रीयमहिलाक्रिकेट्-जगति पदार्पणं कर्त्री हिमाचलप्रदेशस्य चतुर्था क्रीडिका अखिलपक्षीयाप्रतिभा ( All Rounder) तनुजाकंवर अभवत् । रविवासरे दाम्बुलायां आयोजितायां एशियाचषकक्रीडायां तनुजाकंवर यूएईविरुद्धं प्रथमं अन्ताराष्ट्रीयक्रीडां क्रीडितवती। 
  • आगामिपञ्चदिनानि यावत् रविवासरात् हिमाचलप्रदेशस्य अनेकेषु भागेषु प्रचण्डवृष्टेः सचेतना दत्ता अस्ति। ऋतुविज्ञानविभागेन प्रकाशितसूचनानुसारं केषुचित् स्थानेषु लघुवृष्टिः भविष्यति, केषुचित् स्थानेषु तु प्रचण्डवृष्टिः भवितुम् अर्हति । विभागेन पीत-नारङ्ग-वर्णस्य सचेतना प्रसारिता अस्ति। अधिक-उच्चस्थानेषु अधिका वर्षा भविष्यति इति पूर्वानुमानं कृतम् अस्ति ।
  • चण्डीगढ-मनाली राष्ट्रियराजमार्गे हिमाचलपथपरिवहननिगमस्य चलति बसयाने एकस्मात् पर्वतात् महती शिला पतिता। बसयाने गच्छन्तौ यात्रिकौ दुर्घटनायां घातितौ, बसयानं तु क्षतिग्रस्तम्। शनिवासरे रात्रौ सार्धद्वादशवादनस्य समीपे नवमीलस्य समीपे इयं दुर्घटना अभवत्। अस्यां दुर्घटनायां प्राणहानिः नासीत् इति सौभाग्यम् वर्तते।

 

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, himsanskritnews headlines, India News, National & International news, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के मुख्य समाचार, इण्डिया न्यूज़, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल के मुख्य समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article उत्तरप्रदेशसंस्कृतसंस्थानलखनऊद्वारा “भारतीय शिक्षा प्रणाल्यां गुरुशिष्यपरम्परेति” विषयमवलम्व्य व्याख्यानगोष्ठी
Next Article HRTC : हिमाचलपथपरिवहननिगमस्य चलति बसयाने पाषाण: पतितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?