By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: उत्तरप्रदेशसंस्कृतसंस्थानलखनऊद्वारा “भारतीय शिक्षा प्रणाल्यां गुरुशिष्यपरम्परेति” विषयमवलम्व्य व्याख्यानगोष्ठी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > उत्तरप्रदेशसंस्कृतसंस्थानलखनऊद्वारा “भारतीय शिक्षा प्रणाल्यां गुरुशिष्यपरम्परेति” विषयमवलम्व्य व्याख्यानगोष्ठी
संस्कृतगतिविधयः

उत्तरप्रदेशसंस्कृतसंस्थानलखनऊद्वारा “भारतीय शिक्षा प्रणाल्यां गुरुशिष्यपरम्परेति” विषयमवलम्व्य व्याख्यानगोष्ठी

डॉ.अमनदीप शर्मा
Last updated: 2024/07/21 at 4:06 PM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

उत्तरप्रदेशसंस्कृतसंस्थानलखनऊद्वारा “भारतीय शिक्षा प्रणाल्यां गुरुशिष्यपरम्परेति” विषयमवलम्व्य व्याख्यानगोष्ठी
संस्कृतभवनम्, लखनऊ – प्रदेशस्य विभिन्नजनपदेभ्यः समागतानां संस्कृतविद्यालयेभ्यः / महाविद्यालयेभ्यश्च सेवानिवृत्तान् संस्कृतशिक्षकान् अन्यांश्च गुरुजनान् सम्मानयितुं समनुष्ठितेस्मिन् भव्ये कार्यक्रमे सर्वप्रथमं दीपं प्रज्ज्वलनेन जातम्।
माल्यार्पणेन मुख्यातिथीनां स्वागतं निदेशकः विनयश्रीवास्तवः अकरोत् । तेन भाषितं यत् संस्कृतसंस्थानेन स्वीयस्थापनाकालतः गुरुपूर्णिमाकार्यकमः आयोज्यते। तत्र विगतेभ्यो कतिपयवर्षेभ्यः संस्कृतस्य सेवानिवृत्तशिक्षकान् सम्मानयति। तमेव उपक्रमं विस्तारीकर्तुं स्वीयसंसाधनैः बालेभ्यः संस्कृतं निःशुल्कं शिक्षयतां संस्कृतव्रतीनामपि 2019 इत्यस्माद्वर्षात् गुरुजनानां विशेषेण सम्मानकार्यक्रमोऽयम् आयोज्यमानः विद्यते। एतावत्पर्यन्तम् अनेन 1000 सङ्ख्यकानां सम्माननं जातम् ।

मान्येन निदेशकेन वर्येण प्रौक्तं यद्गुरुपूर्णिमा इयं वर्षर्तौ आषाढपूर्णिमायां समाचर्यते। गुरुपूजा तावदत्र विधीयते। गुरुपूर्णिमातः मासचतुर्ष्टयं यावत् परिव्राजकाः साधवः-सन्यासिनश्च एकत्रैव स्थित्वा ज्ञानगङ्गा प्रवाहयन्ति। वातावरणदृष्ट्या अपि मासचतुष्टयं सर्वश्रेष्ठम् । नाधिकम् ऊष्णं न शीतञ्च । अतः अध्ययनाय उपयुक्तमपि इदं मान्यते। सूर्यतापेन तप्तभूमौ वर्षया शीतलता उत्पाद्य तस्यै शक्तिर्लभ्यते। तथैव गुरुचरणेषु उपस्थितेभ्यः साधकेभ्यः ज्ञानं, शान्तिं, भक्तिं, योगं च प्राप्तुं शक्तिः प्राप्यते।

कार्यक्रमे अतिथिरूपेण आमत्रितः नैमिषारण्यतः समागतः डॉ० द्वारिकादासः गुरुवन्दनापूर्वकं विश्वसारतन्त्रम् उद्धृत्य गुरुपरम्परायाः महत्वं प्रकाशितवान् । तेन धर्मः व्यवहारेण परिभाषयितुं शक्यः इति प्रतिपादितम्।
प्रो० ओमप्रकाशपाण्डेयः वेद व्यासस्य व्यक्तित्वस्य कृतित्वस्य च विशद्विवेचनम् अकरोत् । तेन उद्बोधितं यद्वेदचतुष्टय-पुराणेतिहासानां लोकोद्धारकं प्रणयनं व्यासेन विहितम् । ततः एव गुरुपरम्परा इयम् अस्मदीया समारब्धा।
प्रो० आजादमिश्रः गुरुशिष्यपरंपरायाः संवाहकतत्वानां विवेचनमकरोत्तेन गुरौ शिष्यत्वम्, आचरणं, व्यवहारः इत्यादीनि अत्यन्तम् आवश्यकानि तत्त्वानि प्रतिपादितानि। यानि महर्षिव्यासस्य व्यक्तित्वे कृतित्वे च आसन्।
डॉ० रामसुमेरयादवः अकथयत् यद्गुरुतत्त्वस्य गौरवं व्याख्यातुं न केनापि वाण्या वर्णयितुं शक्यम् । व्यक्तित्वस्य समस्तोपलब्धीनां श्रेयः सदैव गुरवे एव प्रतिपद्यते।
सरस्वतीवन्दनया कार्यक्रमस्य आरम्भः जातः।
विशिष्टेषु विद्वत्सु गणमान्येषु च नव लता , डा सरेन्द्रझा, डॉ रेखा शुक्ला, भूतपूर्वसर्वेक्षिका डॉ चन्द्रकलाशाक्या, डॉ बच्चाभारती, संस्कृतसंवादपाक्षिकसमाचारपत्रस्य सम्पादकौ वेदप्रकाशशर्मा, डॉ मंजुशर्मा, डॉ रीतातिवारी, विनोदकुमारमिश्रः च संस्थानेन सम्पृक्ताः विद्वांसश्च कार्यक्रमं सनाथितवन्तः शोभितवन्तश्च।
सम्मानसमारोहेऽस्मिन् प्रदेशस्य विभिन्नजनपदेषु संस्कृतविद्यालयेभ्यः महाविद्यालयेभ्यश्च सेवानिवृत्ताः संस्कृतशिक्षकाः पत्रकाराः सम्पादकाः विद्यालयप्रबन्धकाः संस्कृतस्वाध्यायप्रवचनशीलाः अथ च संस्कृतसेवाव्रतिनश्च माल्यार्पणपूर्वकम् अङ्गवस्त्रं स्मृतिचिह्नं च प्रदाय मञ्चस्थैः अतिथिभिः सम्मानिताः। लखनऊस्थश्रीशिवप्रसादसंस्कृतविद्यालयस्य वैदिकबटवः मन्त्रोच्चारणेन कार्यक्रमस्य शोभां वर्धितवन्तः।
वरिष्ठप्रशासनिकः दिनेशमिश्रः समागतान् स्वागतीकृतवान्। सयोजकः सर्वेक्षकः महेद्रपाठकः प्रास्ताविकम् अपठत्। प्रशासनिकाधिकारिणा जगदानन्द झामहोदयेन कुशलतया मञ्चसञ्चालनं विहितम् । प्रधानसहायकः भगवानसिंहचौहानः, कनिष्ठ सहायिका पूनम, लेखाकारः नितेश श्रीवास्तवः, आशुलिपिकः वीरेन्द्रतिवारी, ऋषभपाठकः, शान्तनुमिश्रः, शिवमगुप्ता इत्येतान् समेत्य समन्वयकेषु धीरज मैठाणी , राधाशर्मा , दिव्यरंजनः, अनिलगौतमः, च अवर्तन्त। अमुष्मिन्नवसरे संस्थानस्य कर्मचारिणः , लखनऊस्थाः संस्कृतज्ञाः संस्कृतशिक्षकाः छात्राः छात्र्यश्च संस्कृतानुरागिणः सामाजिकाः च समुपस्थिताः आसन्।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

TAGGED: उत्तरप्रदेशसंस्कृतसंस्थान
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article क्यार्टू-विद्यालये संस्कृतसम्भाषणशिबिरस्य समापनम्
Next Article HRTC : हिमाचलपथपरिवहननिगमस्य चलति बसयाने पाषाण: पतितः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?