Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- भारतेन मार्शलद्वीपैः सह चतसृणां सामुदायिकविकासपरियोजनानां क्रियान्वयनार्थ ज्ञापनपत्रे हस्ताक्षराणि विहितानि ।
- श्री केपीशर्मा ओली-वर्यः चतुर्थवारं नेपालस्य प्रधानमन्त्रित्वेन शपथवचनं स्वीकृतवान् ।
- गृह-मन्त्रिणा अमितशाहेन असम-गुजरातोत्तर-प्रदेश-राज्याणां मुख्यमन्त्रिभिः सह संवादः कृतः सहैव राज्येषु जलप्लवस्य स्थितिः समीक्षिता।
- मियामीनगरस्य हार्डरॉक्-क्रीडाङ्गणे कोलम्बिया-देशं एकम् शून्यम् इत्यन्तरालेन पराजित्य अर्जेण्टिना-देशः क्रमशः द्वितीयं कोपा अमेरिका-चैम्पियनशिप् इति प्रतियोगितां जितवान् ।
हिमाचलवार्ता:
- मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः सोमवासरे अपराह्णे राजधानी शिमलातः नवदिल्लीं गतः। मंगलवासरे मुख्यमन्त्री प्रधानमन्त्रिणा नरेन्द्रमोदिना साकं मिलति। अस्मिन् काले मुख्यमंत्री विद्युत्-स्वत्वशुल्कं, बीबीएमबी इत्यस्मिन् भागः, नूतनवृत्तियोजनायां योगदानं च प्रधानमंत्रिण: समक्षं उपस्थापयिष्यति।
- लोकसभानिर्वाचने पराजयस्य कारणानि अन्वेष्टुं आगता तथ्यान्वेषणसमिति सोमवासरे सर्वैः अधिकारिभिः सह एकैकं चर्चाम् अकरोत्। दलस्य सर्वे विधायकाः, अधिकारिणः, महत्त्वपूर्णाः अधिकारिणः च द्विसदस्यीयसमित्याः समक्षं उपस्थिताः आसन्। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः, प्रदेशाध्यक्षा प्रतिभासिंहः, उपमुख्यमन्त्री मुकेश अग्निहोत्री चापि पराजयस्य कारणेषु स्वस्थानं स्पष्टीकृतवन्तः।
- हिमाचलप्रदेशविश्वविद्यालयेन नूतनसत्रे मुख्यमन्त्री- सुखाश्रययोजनां छात्रावासेषु कार्यान्वितुम् अधिसूचना प्रसारिता। अस्मिन् विषये हिमाचलविश्वविद्यालयस्य कुलसचिवेन अधिसूचना प्रसारिता। अस्याः योजनायाः अन्तर्गतं बालिकानां बालकानां च कृते आहत्य ८ आसनानि आरक्षितानि भविष्यन्ति इति उक्तम् अस्ति। यस्मिन् ४-४ आसनानि आबंटितानि भविष्यन्ति। एतेन सह एते छात्राः राज्यस्य बालकाः इति वर्गे स्थापिताः भविष्यन्ति।
- राज्यविद्यालयशिक्षापुरस्कारार्थम् आवेदनप्रक्रिया १६ जुलाईतः आरभ्यते। ३० जुलाईपर्यन्तं जिला उपनिदेशकस्य माध्यमेन आवेदनं कर्तुं शक्यते। सामान्यवर्गस्य तथा जनजातीय-कठिनक्षेत्रस्य २४ शिक्षकाः पुरस्कारैः सम्मानिताः भविष्यन्ति। राज्यसर्वकारः नवीनतायाः प्रवर्धनार्थं षट् विशेषपुरस्कारान् अपि दास्यति। ये शिक्षकाः उत्तमपरीक्षां ददति तेषां कृते प्राधान्यं दीयते। शिक्षासचिवस्य नेतृत्वे समितिः साक्षात्कारद्वारा शिक्षकाणां चयनं करिष्यति।