प्रधानमंत्रिणा नरेन्द्रमोदिना सह अमिलत् मुख्यमंत्री सुखविन्दरसिंहसुक्खुः
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशस्य मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः लोकनिर्माण मंत्री च देहली प्रवासे स्तः। अस्मिन् काले उभौ केन्द्रीयमन्त्रिभिः सह मिलत:, यस्मिन् तौ हिमाचलसम्बद्धान् विषयान् उत्थापयिष्यत: । अस्मिन् क्रमे मंगलवासरे मुख्यमन्त्री प्रधानमन्त्री नरेन्द्रमोदिना मिलित्वा हिमाचलस्य हितस्य पक्षम् उपस्थापयत् ।
अस्मिन् काले मुख्यमंत्री सुखविन्दरसिंहसुक्खुः विद्युत्-स्वत्वशुल्कस्य, बीबीएमबी-मध्ये हिमाचलस्य भागस्य, नवीनवृत्तियोजनायां योगदानस्य च इत्यादय: बहून् विषयान् उत्थापितवान्, यथासम्भवं सहायतां कर्तुं आह्वानं च कृतवान्। हिमाचलप्रदेश: आपदापश्चात् आवश्यकतामूल्यांकनस्य अनुदानं प्राप्तुं न शक्तवान्, एतस्य विषये प्रधानमन्त्रिणा सह अपि चर्चा अभवत्। प्रधानमन्त्रिणा सर्वेषु विषयेषु सहानुभूतिपूर्वकं विचारः करणीयः इति आश्वासनं दत्तम्। समागमे मुख्यमन्त्री उक्तवान् यत् बीबीएमबी इत्यस्य हिमाचलस्य भागः ४००० कोटिरूप्यकाधिकं मूल्यं वर्तते, यत् सर्वोच्चन्यायालयस्य आदेशानन्तरम् अपि न दीयते।
भाषागत अनेकों दोष हैं।
भवद्भयः अनुरोधः अस्ति यत् अस्माकम् अस्मिन् कार्ये सहयोगं कुर्वन्तु