By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/07/14 at 9:47 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

 

राष्ट्रीयवार्ता: 

  • अमेरिका- देशस्य पूर्वराष्ट्रपतिः डोनाल्ड-ट्रम्पः गोलिकाभिः आहतः। अस्मिन् आक्रमणे ट्रम्पः घातितः अस्ति, तथापि तस्य स्थितिः सुष्ठु: अस्ति। अस्मिन् आक्रमणे देशस्य प्रधानमन्त्री नरेन्द्रमोदी प्रतिक्रियाम् अददात्। अवदत् यत् मम मित्रस्य पूर्वराष्ट्रपतेः डोनाल्ड-ट्रम्पस्य उपरि आक्रमणस्य विषये अहम् अत्यन्त: चिन्तितः अस्मि। अहं घटनायाः दृढतया निन्दां करोमि। राजनीती लोकतन्त्रे च हिंसायाः स्थानम् नास्ति।

 

  • लोकसभायां काङ्ग्रेसेन नूतनदलस्य घोषणा कृता। अधुना गौरवगोगोई लोकसभायां काङ्ग्रेसस्य उपनेता अस्ति। राहुलगान्धी लोकसभायां काङ्ग्रेसपक्षस्य नेता अस्ति। विदितं स्यात् यत् गौरवगोगोई गतलोकसभायामपि काङ्ग्रेसपक्षस्य उपनेता आसीत्। एतदतिरिक्तं के. सुरेशं मुख्यसचेतक:, मणिकम-टैगोरं, मोहम्मदजावेदं च सचेतकौ नियुक्तौ।

 

  • मध्य-प्रदेशस्य इन्दौर जनपदे केन्द्रीय-गृह-मन्त्रिणा अमित शाहेन प्रदेशस्य सर्वेष्वपि पञ्चपञ्चाशत्-जनपदेषु प्रधानमन्त्री-उत्कृष्ट-महाविद्यालयानाम् शुभारम्भो विहितः ।

 

  • ओडिशायाः पुरी-क्षेत्रस्य भगवतः श्रीजगन्नाथ मन्दिरस्य रत्न-भण्डार इत्यस्य उद्घाटनं षट्चत्वारिंशत् वर्षानन्तरं पुनः जायते।
  • टेनिस क्रीडायाः विम्बल्डनाख्ये संघर्षे विश्वस्य द्वितीयक्रमाड्ङ्कस्य क्रीडकः नोवाक्जोकोविचः गतसत्रस्य पुरुष एकलस्य विजेत्रा कार्लोस अल्कराज इत्यनेन सह शीर्षपुरस्काराय क्रीडिष्यति।
  • यूरोपीय पादकन्दुकक्रीडायाः यूरो-कप इत्यस्याः स्पर्धायाः अन्तिमं चक्रम् अद्य रात्रौ बर्लिनक्षेत्रे भारतीयसमयानुसारं सार्थद्वादशवादने इंग्लैंड-स्पेनयोर्मध्ये क्रीडिष्यते।

 

हिमाचलवार्ता:

  • मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: बिलासपुरस्य औहरे नूतनस्य पर्यटनसङ्कुलस्य शिलान्यासः अकरोत्। ३३.७५ कोटिरूप्यकाणां व्ययेन निर्माणाधीने आधुनिकसुविधाभिः सुसज्जिते अस्मिन् परिसरे होटलखण्डः, खाद्य- परिसर:, मनोरञ्जनक्षेत्रं च समाविष्टं भविष्यति।
  • मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बिलासपुरस्य औहरे उक्तवान् यत् भाजपायाः धनद्वारा सर्वकारस्य पातनार्थं कृताः प्रयासाः असफलाः अभवन्। भाजपायाः षड्यंत्रं सफलं न जातम्। सः अवदत् यत् भाजपा केवलं जनभ्रामणस्य कार्यम् अकरोत्। अधुना उपनिर्वाचनानन्तरं आचारसंहिता हृतमात्रेण राज्ये विकासकार्येषु कार्यं क्रियते, येन राज्यस्य जनाः लाभं प्राप्नुयुः।

 

  • रविवासरे इन्दिरागान्धीराज्यक्रीडासङ्कुलस्य राज्यस्तरीय- कैडेट्जूडोप्रतियोगितायाः विजेतारः चलविजयोपहारै: सम्मानिताः। शिमलानगरस्य विधायक: हरीशजनार्था मुख्यातिथिरूपेण भागं स्वीकृतवान्। प्रतियोगितायां बिलासपुरमण्डलं समग्रस्पर्धाया: विजेता  शिमलामण्डलं उपविजेता अभवत्। मुख्यातिथिः विजेतॄन् चलविजयौपहारै: सम्मानं कृतवान्।

 

  • सुक्खुसर्वकारः निर्वाचनात् निवृत्ता अस्ति। अधुना सर्वकारस्य सम्पूर्णं ध्यानं विकासं प्रति भविष्यति परन्तु ततः पूर्वं अधिकारीणान संरचना परिवर्तयितव्या अस्ति।सूत्रानुसारं काङ्ग्रेसनेतृभिः निर्वाचनात् पूर्वं मुख्यमन्त्रिण: उपरि अधिकारीणां परिवर्तनविषये प्रभावः कृतः आसीत्। इदानीं सर्वं निश्चिन्तं कृत्वा सर्वकारः अपि सुदृढः अस्ति, अतः काङ्ग्रेसनेतृणां एतत् आग्रहं सर्वकारः अवश्यमेव पूरयिष्यति।

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, himsanskritnews headlines, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के मुख्य समाचार, मुख्य वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल के मुख्य समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article गौरवगोगोई लोकसभायां काङ्ग्रेसस्य उपनेता, के. सुरेश: च मुख्यसचेतक: नियुक्तः; सोनिया गान्धी सभापतिं नूतननियुक्तिविषये सूचितवती।
Next Article धर्मशाला महन्ता गद्दी सदैव संस्कृत-संस्कृतेः प्रसारस्य दिशि कार्य करिष्यति- महन्तः उपेन्द्रपाराशरः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?