By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
अन्ताराष्ट्रीयवार्ताःराष्ट्रीयवार्ताःहिमाचलवार्ता

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

डॉ मनोज शैल
Last updated: 2024/07/09 at 10:51 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:

 

राष्ट्रीयवार्ता:

  • प्रधानमन्त्री नरेन्द्र मोदी अवोचत् यत् अस्माकं तृतीये कार्यकाले भारतं विश्वस्य तृतीया बृहत्तमार्थव्यवस्था स्यादिति सर्वकारस्य लक्ष्यम् अस्ति ।

 

  • प्रधानमन्त्री नरेन्द्रमोदी रूसस्य राष्ट्रपतिः व्लादिमीरः पुतिनः च मॉस्कोनगरे द्वयोः देशयोर्मध्ये जायमानस्य द्वाविंशतितमस्य वार्षिक-शिखर सम्मेलनस्य सह-अध्यक्षतां करिष्यतः ।

 

  • बिहारे विगतासु चतुर्विंशति-होरासु कतिपयेषु भागेषु अत्यधिकवृष्टिः अभवत्।

 

  •  भारतऋतुविज्ञानविभागः (IMD) इत्यनेन आगामिषु चतुर्दिवसेषु मध्य, पूर्वोत्तर, पूर्वीभारतस्य केषुचित् भागेषु अत्यधिकवृष्ट्याः पूर्वानुमानं प्रकटितम् अस्ति।

 

  • भारतीय-ओलंपिक संघः इत्यनेन द्वाविंशत्यधिकद्विसहस्रतमाब्दायाः ओलंपिक- क्रीडायाः कांस्य पदक-प्राप्तः लक्ष्यभेदकः गगन नारंगः पेरिसनगरे भविष्यमाणासु ओलंपिकक्रीडासु प्रतिस्पर्धायै भारतीय-दलस्य शेफ-डी-मिशन इत्येन रूपेण नामाङ्कितः ।

 

  • अद्य चेन्नैनगरस्य एम्.ए. चिदम्बरमक्रीडाङ्गणे विंशतिप्रतिविंशति क्रिकेट-प्रतिस्पर्धायाः तृतीये अन्तिमे च द्वन्द्वे भारतीय-महिला-क्रिकेट-दलं दक्षिणाफ्रीकादलेन सह स्पर्धां करिष्यति।

हिमाचलवार्ता:

 

  • देहराविधानसभाया: उपनिर्वाचनस्य संयोजकः सुन्दरनगरस्य विधायकः राकेशजमवालः प्रैसविज्ञप्तौ उक्तवान् यत् ३० सहस्रकोटिरूप्यकाणां ऋणं स्वीकृत्य अपि मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः  राज्यस्य कोषः शून्यः इति भैरीघोषं कृत्वा जनान् भ्रामयति।  सः अवदत् यत् मित्रसमूहः देहरानिर्वाचने विजयं प्राप्तुं कोटिकोटिरूप्यकाणि व्यययति। सुक्खू- सर्वकारेण भाजपाप्रत्याशिन: होशियारसिंहस्य पृष्ठतः सामान्य- वस्त्रधारिणः पुलिसबलं नियुक्तम् अस्ति, यस्य एकं चलचित्रम् अपि प्रसृतम् अभवत्। 

 

  • उच्चन्यायालयेन हिमाचलप्रदेशविश्वविद्यालये (एचपीयू) गणितविभागे २०२० तमे वर्षे द्वयोः सहाचार्ययो: नियुक्तिः निरस्तीकृता। न्यायालयेन ज्ञातं यत् एचपीयू-अधिनियमस्य १९७०, यूजीसी-नियमानाम् उल्लङ्घनेन नियुक्तयः कृताः । न्यायाधीशस्य अजयमोहनगोएलस्य न्यायालयेन याचिकायाः निस्तारणकाले विश्वविद्यालयेन नियमानुसारं द्वयोः पदयोः नवीनतया पूरणार्थं विज्ञापनं निर्गन्तुं आदेशः दत्तः।

 

  • हिमाचलप्रदेशे यथा यथा मानसूनस्य गतिः दुर्बलतां प्राप्नोति तथा तथा मंगलवासरे राजधानी शिमलानगरे लघुमेघाच्छादनं, अन्येषु मण्डलेषु सूर्यप्रकाशः च अभवत्। बुधवासरे अपि केषुचित् क्षेत्रेषु लघुवृष्टेः सम्भावना वर्तते। गुरुवासरे शुक्रवासरे च अधिकांशजनपदेषु अत्यधिकवृष्टेः पीतसचेतना निर्गता अस्ति। १३ जुलैतः १५ पर्यन्तं राज्ये वातावरणं मिश्रितम् एव तिष्ठति इति अपेक्षा अस्ति । 

 

  • हिमाचलप्रदेशस्य किन्नौरमण्डलस्य तरण्डाग्रामस्य हुतात्मन: हवल्दार-रोहितनेगी इत्यस्य मृतशरीरं नवमासानामनन्तरं मंगलवासरे स्वजन्मग्रामं प्राप्तवान्। २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमसप्ताहे काश्मीरसीमायां अभियानस्य समये मेघगर्जनेन आहतः रोहितनेगी स्वसहचरैः सह हिमशैलस्य अधः मग्न: अभवत् तस्मिन् समये तस्य एकस्य सहचरस्य शवः प्राप्तः, परन्तु रोहितादयः सहचराः हिमे मग्ना: आसन् ।

 

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himsanskritnews, himsanskritnews headlines, India News, National & International news, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, आज के मुख्य समाचार, इण्डिया न्यूज़, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल के मुख्य समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP Bye Election : ४०० पारं उद्घोषकर्तृ भाजपायै जनै: वास्तविकं मुखं दर्शितम्,  जनता केएलठाकुराय पुनः अवसरं न दास्यति
Next Article HP Weather :  हिमाचले दुर्बलः अभवत् मानसूनः , शिमलायां मेघाच्छन्ना:, द्वयो: दिवसयोः यावत् प्रचण्डवृष्टेः पीतसचेतना
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?