By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP Weather :  हिमाचले दुर्बलः अभवत् मानसूनः , शिमलायां मेघाच्छन्ना:, द्वयो: दिवसयोः यावत् प्रचण्डवृष्टेः पीतसचेतना
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP Weather :  हिमाचले दुर्बलः अभवत् मानसूनः , शिमलायां मेघाच्छन्ना:, द्वयो: दिवसयोः यावत् प्रचण्डवृष्टेः पीतसचेतना
हिमाचलवार्ता

HP Weather :  हिमाचले दुर्बलः अभवत् मानसूनः , शिमलायां मेघाच्छन्ना:, द्वयो: दिवसयोः यावत् प्रचण्डवृष्टेः पीतसचेतना

डॉ मनोज शैल
Last updated: 2024/07/10 at 3:22 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP Weather :  हिमाचले दुर्बलः अभवत् मानसूनः , शिमलायां मेघाच्छन्ना:, द्वयो: दिवसयोः यावत् प्रचण्डवृष्टेः पीतसचेतना

हिमसंस्कृतवार्ता: – शिमला। 

हिमाचलप्रदेशे यथा यथा मानसूनस्य गतिः दुर्बलतां प्राप्नोति तथा तथा मंगलवासरे राजधानी शिमलानगरे लघुमेघाच्छादनं, अन्येषु मण्डलेषु सूर्यप्रकाशः च अभवत्। बुधवासरे अपि केषुचित् क्षेत्रेषु लघुवृष्टेः सम्भावना वर्तते। गुरुवासरे शुक्रवासरे च अधिकांशजनपदेषु अत्यधिकवृष्टेः पीतसचेतना निर्गता अस्ति। १३ जुलैतः १५ पर्यन्तं राज्ये वातावरणं मिश्रितम् एव तिष्ठति इति अपेक्षा अस्ति । मंगलवासरे सायं ५ वादनपर्यन्तं राज्ये ४२ मार्गाः, १२१ विद्युत्परावर्तका:, ४८ पेयजलयोजनाः निरुद्धा इति कारणेन जनै: समस्यानां सम्मुखीकरणं कर्तव्यम् अभवत् । चम्बामण्डले अधिकतमं ८० विद्युत्परिवर्तकाः, काङ्गड़ायां च ४० विद्युत्परिवर्तकाः स्थगिताः सन्ति । एतदतिरिक्तं शिमलानगरस्य १८ मार्गेषु, मण्डीमण्डले १७ मार्गेषु यातायात: बाधित: अस्ति ।

मंगलवासरे राजधानी शिमलानगरे दिवसं यावत् वातावरणं स्वच्छम् एव अभवत्। नगरं लघुमेघावरणेन सूर्य्यमयं स्थितम् । समतलजनपदेषु सूर्यप्रकाशस्य कारणात् अधिकतमं तापमानं सामान्यतः द्वौ अंशौ वर्धितम् । ऊना-बिलासपुरयोः अधिकतमं तापमानं पुनः ३६ डिग्री अतिक्रान्तम् अस्ति । मंगलवासरे राज्यस्य १३ स्थानेषु अधिकतमं तापमानं ३० डिग्रीतः अधिकं भवति । अपरपक्षे सोमवासरे रात्रौ राज्यस्य केषुचित् क्षेत्रेषु लघुवृष्टिः एव अभवत् ।

कुत्र कियती वृष्टि:

नादौने ३४ मि.मी., वाङ्गतुस्थाने ३२, भोरञ्जे १६, कसौली-क्षेत्रे १५, नाहने १३, जोगिन्दर-नगरे १०, कोटखाई-क्षेत्रे ८, शिमला-नगरे ४, मनाली-नगरे ३ मि.मी. वृष्टि: अभवत्। 

 

क्षेत्रम्             अधिकतमं तापमानम्

बिलासपुरम्      ३६.५

ऊना                ३६.४

भुन्तरम्            ३५.४

हमीरपुरम्         ३४.३

काङ्गड़ा            ३४.०

मण्डी               ३३.७

सोलनम्           ३०.०

नाहनम्            ३०.०

धर्मशाला         २९.५

मनाली            २६.४

शिमला           २४.८

You Might Also Like

इन्दिरागांधी-प्रियभगिनी-सुखसम्मान-निधियोजनाया: लंबितराशे: भुक्ति: शीघ्रमेव- मुख्यमंत्री सुक्खुः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

TAGGED: him sanskrit varta, him sanskritam, HIM SASNSKRIT VARTA, Himachal news, Himachal weather, Himsanskritnews, HP NEWS, HP weather, दिव्य हिमाचल समाचार, मौसम विज्ञान केन्द्र, मौसम विभाग, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल मौसम, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article HP Bye Election : देहरायां निर्वाचनात् पूर्वं नूतनः विवादः, भाजपाया: आरोप:,  होशियारसिंहस्य पृष्ठे अस्ति काङ्ग्रेसः, चलचित्रं प्रसृतम् – राकेश जमवाल:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?