By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला-रेनर: उपप्रधानमन्त्री नियुक्ता।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > अन्ताराष्ट्रीयवार्ताः > ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला-रेनर: उपप्रधानमन्त्री नियुक्ता।
अन्ताराष्ट्रीयवार्ताः

ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला-रेनर: उपप्रधानमन्त्री नियुक्ता।

ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला-रेनर: उपप्रधानमन्त्री नियुक्ता।

आचार्य नरेश मलोटिया
Last updated: 2024/07/06 at 2:45 PM
आचार्य नरेश मलोटिया
Share
2 Min Read
SHARE

ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, एन्जेला-रेनर: उपप्रधानमन्त्री नियुक्ता।

एन्जेला-रेनर: उपप्रधानमन्त्री

१४ वर्षाणाम् अनन्तरं ब्रिटेनदेशे सत्ता-परिवर्तनं जातम्।  अस्मिन् समये कंजर्वेटिव- पक्षस्य मर्दनपराजयः अभवत्। १४ वर्षाणां निर्वासनस्य अनन्तरं लेबर-पार्टी इति पक्षः  पुनः सत्तां प्राप्तवान्। लेबर-पार्टी इति दलेन ऐतिहासिकं प्रदर्शनं कृत्वा ४१९ आसनानि प्राप्तानि। लेबरपार्टी इत्यस्य कीर-स्टार्मर: ब्रिटेनस्य नूतनः प्रधानमन्त्री अभवत्। प्रधानमन्त्रित्वमात्रेण सः स्वस्य मन्त्रिपरिषदः घोषणां कृतवान्। सः उपप्रधानमन्त्री अपि नियुक्तवान्। मन्त्रिमण्डलस्य निर्माणात् पूर्वं सः राज्ञा चार्ल्स-तृतीयेन सह मिलितवान्। तदनन्तरं सः देशवासिनां कृते सम्बोधनमपि कृतवान्।

ब्रिटेनदेशस्य नव-मन्त्रिमण्डलम्

एतत् कीर-स्टार्मरस्य मन्त्रिमण्डलम् अस्ति। ब्रिटिशप्रधानमन्त्री कीर-स्टार्मरेन एन्जेला-रेनर: उपप्रधानमन्त्री नियुक्ता कृता। सः डेविड-लैम्मी इत्यस्य ब्रिटेनस्य नूतनविदेशमन्त्री नियुक्तवान् अस्ति। तस्मिन् एव काले जॉन-हीलो रक्षामन्त्रीरूपेण चयनितः अस्ति। कीर-स्टार्मर: यवेट-कूपरं गृहसचिवरूपेण नियुक्तवान् अस्ति। गृहमन्त्री ब्रिटेनदेशे गृहसचिवः इति उच्यते, यस्य दायित्वं देशस्य आन्तरिकसुरक्षापुलिसव्यवस्थायाः कृते अस्ति। स्टार्मर: रेचल-रीव्सम् वित्तमन्त्रीरूपेण नियुक्तवान् अस्ति। रीव्स: देशस्य प्रथमा महिला अस्ति या वित्तमन्त्री अभवत्। 

जनसेवा एव ब्रिटेन-सर्वकारस्य मुख्यधर्मः- कीर-स्टार्मर:। 

प्रधानमन्त्रित्वानन्तरं कीर-स्टार्मर: राष्ट्रं सम्बोधितवान्। नवनिर्वाचितः प्रधानमन्त्री कीर-स्टार्मर: अवदत् यत् जनानां व्रणाः वचनैः चिकित्सितुं न शक्यन्ते, तेषां व्रणाः कर्मणा निरामयाः भविष्यन्ति। अद्यतः कार्यम् आरभ्यते इति अस्माकं कृते बहु-आवश्यकम् इति स्टार्मर: अवदत्। आङ्ग्लसर्वकारः प्रत्येक-देशवासिनः आदरं करोति। जनसेवा एव सर्वकारस्य मुख्यधर्मः। सः जनान् प्रतिज्ञां कृतवान् यत् पुनः संसाधनाः सुदृढाः भविष्यन्ति इति। स्टार्मर: वदति यत् भवद्भिः अस्मान् बहुमतं प्रदत्तम्। वयं जनादेशस्य साहाय्येन ब्रिटेनदेशे परिवर्तनं आनेष्यामः। देशे परिवर्तनं आनेतुं सुलभं कार्यं न भवति। परिवर्तनं तत्क्षणं आनेतुं न शक्यते। परिवर्तनम् आनेतुं समयः स्यात्। परिवर्तनं लघुपदैः आरभ्यते।

२६ भारतीय-मूलस्य सांसदाः विजयं प्राप्तवन्तः।

निर्वाचने भारतीयानां तर्जनं दृष्टम् अस्ति। निर्वाचने विजयं प्राप्य भारतीयमूलस्य २६ नेतारः “हाउस- आफ- कॉमन्स” इत्यस्य कृते नामाङ्किताः सन्ति।  ब्रिटिशसंसद: “हाउस- आफ- कॉमन्स” इत्यत्र भारतीयमूलस्य सांसदानां वर्चस्वं वर्धितम् अस्ति।  कंजर्वेटिव- पक्षस्य मर्दनपराजयस्य अभावेऽपि ऋषिसुनकः रिचमण्ड्- नॉर्थालरटन- आसनम् प्राप्तवान् अस्ति। सुनकः रिचमण्ड् नॉर्थलर्टन्-नगरस्य जनानां प्रति कृतज्ञतां प्रकटितवान् अस्ति।

You Might Also Like

*गाजोल-महाविद्यालये अन्तरराष्ट्रीय-सेमिनार् (संगोष्ठी) मानव–प्रकृति-सम्बन्धस्य दार्शनिक-साहित्यिक्-अन्वेषणम्*

*गीताजयन्त्युत्सवपरिपालनेन सर्वदर्शनमन्थनपरिषदः १०८ व्याख्यानमालासु षोडशतमं व्याख्यानं सुसम्पन्नम्।* 

प्रधानमन्त्री मोदी जी-२० शिखरसम्मेलने भागं ग्रहीतुं जोहान्सबर्ग्नगरम् प्राप्तवान्, जातं भव्यं स्वागतम्

बहिष्कृतायाः बाङ्ग्लादेशस्य प्रधानमन्त्री शेख हसीना इत्यस्याः मृत्युदण्डस्य संयुक्तराष्ट्रसङ्घः विरोधम् अकरोत्

मेक्सिकोदेशे शनिवासरे सहस्रशः जेन् जेड् युवानः विरोधप्रदर्शनं कृतवन्तः

TAGGED: एन्जेला-रेनर: उपप्रधानमन्त्री नियुक्ता।, जनसेवा एव ब्रिटेन-सर्वकारस्य मुख्यधर्मः- कीर-स्टार्मर:, ब्रिटेनदेशस्य नव-मन्त्रिमण्डलस्य निर्माणम्, लेबर-पार्टी इति दलेन ऐतिहासिकं प्रदर्शनं कृत्वा ४१९ आसनानि प्राप्तानि।
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By आचार्य नरेश मलोटिया
Follow:
संस्कृत-शिक्षकः संस्था- शिक्षा-विभागः हिमाचलप्रदेशः शैक्षणिक-योग्यता- शास्त्री, शिक्षाशास्त्री (B.Ed.), ज्योतिषाचार्य(एमए), एमए (संस्कृतम्), साहित्याचार्य(एमए)। पत्राचार सङ्केतः- ग्रामः तरकेड़ी, डाकगृहम्- सुधियाल:, तहसील- नादौन:, जनपद: हमीरपुर:, (हि. प्र.)- 177042 सम्पर्कः - 9817707260
Previous Article HP Politics :  १७५ कोटिरूप्यकाणां निविदा २४५ कोटिरूप्यकै: किमर्थम् ?
Next Article Himsanskritnews Headlines : राष्ट्रपतिः द्रौपदीमुर्मूवर्याया: ओडिशा-राज्यस्य चतुर्दिवसीययात्रा आरब्धा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?