Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
राष्ट्रीयवार्ता:
- नीट-परीक्षाप्रकरणमधिकृत्य द्वयोरेव सदनयोः कार्याचरणं बाधितं जातम्। लोकसभा पूर्णदिवसाय स्थगिता जाता।
- १९८९ सत्रस्य भारतीयविदेशसेवायाः आईएफएस- अधिकारी विक्रममिस्त्री अग्रिमविदेशसचिवरूपेण नियुक्त:। सः विनयमोहन क्वात्रा इत्यस्य स्थाने स्थास्यति। यस्य कार्यकालः आगामिमासस्य १४ दिनाङ्के समाप्तः भविष्यति।
- अमरनाथ-तीर्थ-यात्रायां व्यवधानस्य कृते पाकिस्तानपक्षत: आतङ्किनां षड्यन्त्रस्योद्घाटनम्, प्राख्यापिता सुरक्षादृशा सञ्चेतना।
- झारखण्ड-उच्च-न्यायालय: हेमन्त सोरेनाय भूमि- प्रवञ्चनप्रकरणेन सम्पृक्ते धनशोधन-प्रकरणे कारवासात् मुक्ति प्रायच्छत्।
- राष्ट्रीय राजधान्यां दिल्ल्यां वृष्टिकारणेन अनेकानि स्थलानि जलाधिक्येन प्रपूरितानि जातानि।
- महिलाक्रिकेटस्पर्धायाः प्रथमे दिने एम. ए. चिदम्बरम- क्रिकेटक्रीडाङ्गणे भारत- दक्षिण अफ्रीका इत्यनयोः मध्ये जायमाने क्रिकेटद्वन्द्वे भारतं चतस्राणां क्रीडिकानां हानौ पञ्चविंशत्यधिक पञ्चशतं धावनाङ्कैः सह क्रीडति।
हिमाचलवार्ता:
- हिमाचलस्य त्रिषु विधानसभासनेषु उपनिर्वाचने २,५९,३४० मतदातारः मतदानं करिष्यन्ति, देहरायां १,८२६, हमीरपुरे १,१७३, नालागढे च ९२४ सेवामतदातारः सन्ति।
- लोकसभानिर्वाचनं समाप्तमात्रेण केन्द्रस्य हिमाचलस्य च मध्ये पुनः वार्ताप्रक्रिया आरब्धा अस्ति। एतत् वार्तालापं लोकनिर्माणमन्त्रिणा विक्रमादित्यसिंहेन आरब्धम् अस्ति। विक्रमादित्यसिंहः दिल्लीनगरे अस्ति, सः अत्र केन्द्रीयमन्त्रिभिः सह मिलति। सः प्रथमवारं केन्द्रीयमन्त्री नितिनगडकरी इत्यनेन सह मिलितवान्।
- लोकनिर्माणविभागेन टोल प्लाजाम् उत्तमं यातायातप्रबन्धनं सुनिश्चितं कर्तुं निर्देशाः दत्ताः, येन चालकान् यात्रिकान् च अनावश्यक- असुविधा न भवेत्। विभागेन निविदाकर्तारं कथितं यत् निर्माणाधीनटोलप्लाजायां आपत्काले प्रत्युद्धरणयानस्य (क्रेनस्य), राजमार्गे निरीक्षणस्य, आपत्कालीनयानस्य (एम्बुलेन्स) च सुविधा सुनिश्चिता भवतु। सम्बन्धितकम्पनी २४ होरापर्यन्तं एतां व्यवस्थां कर्तुं प्रवृत्ता भविष्यति, येन प्रतिकूलपरिस्थितौ समये एव साहाय्यं कर्तुं शक्यते।
- हिमाचलप्रदेशविद्युत्निगमः अधुना द्रवीयपरियोजनाया: (हाइड्रो) पश्चात् सौरशक्तिं प्रति ध्यानं ददाति। विद्युत् निगमेन ऊनामण्डलस्य पेखुवेलायां ८ मासानां अभिलेखसमये सौरविद्युत्परियोजनायाः निर्माणं कृतम्, तदनन्तरं शुक्रवासरे मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः ऊनामण्डलस्य अघलोरे सौरविद्युत्परियोजनायाः शिलान्यासं कृतवान्।