By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमसंस्कृतवार्ता: – National News – राष्ट्रीयवार्ता: संसदसत्रम् – नीट-परीक्षाप्रकरणमधिकृत्य द्वयोरेव सदनयोः कार्याचरणं बाधितं जातम्। लोकसभा पूर्णदिवसाय स्थगिता 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > हिमसंस्कृतवार्ता: – National News – राष्ट्रीयवार्ता: संसदसत्रम् – नीट-परीक्षाप्रकरणमधिकृत्य द्वयोरेव सदनयोः कार्याचरणं बाधितं जातम्। लोकसभा पूर्णदिवसाय स्थगिता 
प्रादेशिकवार्ताराष्ट्रीयवार्ताः

हिमसंस्कृतवार्ता: – National News – राष्ट्रीयवार्ता: संसदसत्रम् – नीट-परीक्षाप्रकरणमधिकृत्य द्वयोरेव सदनयोः कार्याचरणं बाधितं जातम्। लोकसभा पूर्णदिवसाय स्थगिता 

डॉ मनोज शैल
Last updated: 2024/06/28 at 10:29 PM
डॉ मनोज शैल
Share
7 Min Read
SHARE

हिमसंस्कृतवार्ता: – National News – राष्ट्रीयवार्ता:

  • संसदसत्रम् – नीट-परीक्षाप्रकरणमधिकृत्य द्वयोरेव सदनयोः कार्याचरणं बाधितं जातम्। लोकसभा पूर्णदिवसाय स्थगिता 

नीट-परीक्षायां कथितानियमिततायाः विषये विपक्षियलानां विरोधस्व कारणेन लोकसभा आदिवसंस्थगित्ता जाता। राज्यसभा अपि त्रिवारं स्थगिता जाता। प्रथम स्थगनस्य अनन्तरं चदा मध्याद्वे द्वादशवादने लोकसभायाः कार्याचरणं समारब्धं तदा काङ्ग्रेसदलस्य सदस्याः अस्मिन् विषये शिक्षामन्त्रिणः धर्मेन्द्रप्रधानस्य त्यागपत्रस्य याचनं कुर्वन्तः उच्चैः उद्घोषितुम् आरब्धवन्तः। काँग्रेस, द्रविडा मुनेत्र कड़गम- डीएमके, तृणमूल कांग्रेस- टीएमसी, समाजवादी पार्टी चेत्यादिदानां सांसंदाः सदनमध्ये समागतवन्तः। लोकसभायाः अध्यक्षः ओम बिरला इत्यनेन उक्तं यत् अस्य विषयस्य विचारार्थ एका समितिः निर्मिता अस्तिः सः अवदत् यत् राष्ट्रपत्याभिभाषणस्य धन्यवादप्रस्तावे चर्चायाः समये सदस्याः एतत् विषयं उत्थापयितुं शक्नुवन्ति। नीट विषये विपक्षस्य चर्चायाः आग्रहम् अङ्गीकृत्य संसदीयकार्याणां मन्त्री किरेन रिजिजुः उक्तवान् यत् यस्मिन् काले राष्ट्रपतिनः धन्यवादभाषण संसदस्य द्वयोः सदनयोः संयुक्तत्सभायां पूर्वनिर्धारितं भवति तस्मिन् काले किमपि चर्चितुम् आज्ञाप्रदानस्य परम्परा न अस्ति।

NEET विषये राज्यसभायाः अपि कोलाहलः अभवत्। प्रथम स्थगनस्य अनन्तरं यदा मध्याले १२ वादने सदनकार्याचरणं पुनः समारब्धम् अभवत् तदा पुनः काङ्ग्रेस, टीएमसी, डीएमके, आम आदमी पार्टी चेत्यादीनि विपक्षवलानि पुनः नीट् विषये सर्वकारस्य विरुद्ध उच्चैपर्योष कर्तुम् प्रारभन्। राष्ट्रपतिसम्बोधने धन्यवादप्रस्तावस्य विषये चर्चा निरन्तरं कुर्वन् भाजपा सांसद सुधांशु त्रिवेदी सर्वकारस्य उपलब्धीनों प्रकाशन कृतवान्। पूर्वप्रधानमन्त्री, जेडीएस नेता च एच. डी. देवगौडा इत्यनेन उक्तं यत् अन्वेषणं बिना उत्तरदायित्वं निर्धारयितुं न शक्यते। सः अवदत् गत सर्वकारेण केन्द्रीय अन्वेषण विभागाग अनुसन्धानस्य आदेशः पूर्वमेव प्रदत्तः अस्ति, अतः सर्वैः प्रतिवेदनस्य प्रतीक्षा कर्तव्या।

 

  • आई एफ एस अधिकारी विक्रममिस्त्री अग्रिमविदेशसचिवरूपेण नियुक्तः

हिमसंस्कृतवार्ता:- प्रवीण कुमार:

१९८९ सत्रस्य भारतीयविदेशसेवायाः आईएफएस-अधिकारी विक्रममिस्त्री अग्रिमविदेशसचिवरूपेण नियुक्त:। सः विनयमोहन क्वात्रा इत्यस्य स्थाने स्थास्यति।  यस्य कार्यकालः आगामिमासस्य १४ दिनाङ्के समाप्तः भविष्यति।  मिस्त्रीमहोदयः सम्प्रति राष्ट्रियसुरक्षापरिषद्- सचिवालये उपराष्ट्रीय- सुरक्षापरामर्शकरूपेण कार्यरतोऽस्ति। सः चीनदेशे, म्यान्मारदेशे, स्पेनदेशे च भारतीयराजदूतरूपेण कार्यं कृतवान्। तं त्रयाणां प्रधानमन्त्रिणां निजसचिवरूपेण कार्यं कर्तुं अनुभवः अस्ति। महोदय: १९९७ तमे वर्षे इन्द्रकुमारगुजरालेन सह, २०१२ तमे वर्षे मनमोहनसिंहेन सह, २०१४ तमे वर्षे नरेन्द्रमोदी इत्यनेन सह कार्यम् कृतवान्।    

  • झारखण्ड- उच्च- न्यायालय: हेमन्त सोरेनाय भूमि- प्रवञ्चनप्रकरणेन सम्पृक्ते धनशोधनप्रकरणे कारवासात् मुक्ति प्रायच्छत्

 

झारखण्ड-उच्च-न्यायालयः अद्य राज्यस्व पूर्व मुख्यमंत्रिणे हेमन्त सोरनाय भूमि-प्रवञ्चनप्रकरर्णन सम्युक्ते धनशोधनप्रकरणे कारवासात् मुक्ति प्रायच्छत्। झारखंड मुक्ति मोर्चा इत्यस्य कार्यकारी अध्यक्षः सरिनः प्रवर्तन निदेशालयेन धनशोधनप्रकरणे अन्वीक्षणाय अस्य वर्षस्य जनवरी मासस्य एकत्रिंशदिनाङ्‌के निगदितः आसीत्। अष्टचत्वारिंशत्-वर्षीय सोरेनः अस्मिन् समये रांचीनगरस्य बिरसामुंडा करावासे बन्धकः अस्ति। उच्च न्यायालयेन सोरेनस्य बन्धनमक्तियाचिककाम् अधिकृत्य स्वकीयः निर्णयः जूनमासस्य त्रयोदशदिनाङ्‌के सुरक्षितः कृतः आसीत्।

 

  • राष्ट्रीय राजधान्यां दिल्ल्यां वृष्टिकारणेन अनेकानि स्थलानि जलाधिक्येन प्रपूरितानि जातानि

राष्ट्रीय-राजधान्यां दिल्ल्यां गुरुवासरस्य राज्यारभ्य प्रवर्तमानेन वृष्टिकारणेन अनेकानि स्थलानि जलाधिक्येन प्रपूरितानि जातानि। ऋतुविज्ञानविभागः प्रोक्तवान् यत् विगतासु चतुर्विंशतिहोरासु दिल्ल्याम् अष्टिशत्यधिक द्विशतं मिमीटरपरिमिता वृष्टिः सञ्जाता। विगतासु चतुर्विंशति होरासु एव सामान्यतः विगुणित-वष्टिपातेन जनाः कष्टपीडिताः अभवन्। यद्यपि जनाः द्विमासात् प्रविर्तितेन भीषणातपेन पीडिताः सन्ति यस्मात् विमुच्य ते अधुना आनन्दम् अन्वभवन्। राष्ट्रियराजधान्यां विगतेषु पञ्चदशवर्षेषु कदाप्यपि सम्पूर्ण जूनमासे द्विशतं मिमी परिमितं वृष्टिपातं नाभवत्। दिल्ल्याः राज्यपाल। ची. के सक्सेना अद्य दिल्ल्यां जलप्लाचस्य स्थिति समीक्षितु सर्वैः अभिकरणैः सह तात्कालिकोपवेशनम् अकरोत्। अस्मिन् उपवेशने दिल्ली-जलप्राधिकरणम्, सिञ्चनविभागः खाद्यनिभागः दिल्लीनगरनिगमः दिल्लीविकारप्राधिकरणम्, राष्ट्रियापद्विमोचनबलम् चेत्यादयः उपस्थिताः सन्ति।

 

  • प्रधानमन्त्री मोदी पूर्वप्रधानमंत्रिण: नरसिम्हारावस्य जयन्त्यावसरे श्रद्धाञ्जलिं प्रदत्तवान्

 

प्रधानमन्त्री नरेन्द्र मोदी अद्य पूर्वप्रधानमन्त्रिणः पी. वी. नरसिंहराव इत्यस्य जयन्त्यावसरे तस्मै श्रद्धाञ्जलिं प्रदत्तवान्। सार्वजनिक- संदेशपटले सः अवदत् यत् पी. वी. नरसिम्हारववर्यः तस्य नेतृत्व-बुद्धिमते अधिकृत्य संस्मरिष्यते। प्रधानमन्त्रिणा उक्त यत् मरणोपरान्त देशसेवाये तस्मै अस्य वर्षस्य प्रारम्भे भारतरानेति पुरस्कारेण सम्मानितं कुर्वन् भारतसर्वकारः गौरवम् अनुभवति।

 

  • अमरनाथयात्राया: प्रथमं दलं सुदृढ़सुरक्षायां कश्मीरे प्रवेशम् अकरोत्

जम्म्वा: आधार शिविरात् शुक्रवासरे प्रातः प्रवर्तमानं अमरनाथ तीर्थयात्रिणां प्रथमदलं अपराह्ने सुदृढ सुरक्षायाः मध्ये कश्मीरे प्रवेशम् अकरोत्। तीर्थ यात्रिणां कुलगामक्षेत्रस्य जनपदाधिकारिः राज्य- प्रशासनाधिकारिणः, पर्यटनविभागाधिकारिणः च स्वागतम् अकुर्वन्। अस्य वर्षस्य अमरनाथयात्रा चः बालताल-चंदनवाडी-मार्गयोः समारप्स्यते। उपराज्यपालः मनोज सिन्हा प्रातः बम-बम-भोले, जय भोलेनाथ चेत्वादिभिः उद्घोषैः सह वार्षिक-अमरनाथ-यात्रायाः समारम्भम् अकरोत्। तीर्थयात्रिषु देशस्य विभिन्नभागानां जनाः सम्मिलिताः सन्ति। अस्मिन् दले त्र्यधिकषट्शतोत्तर- चतुस्सहस्रं तीर्थयात्रिणः सन्ति येषु द्वात्रिंशदुत्तर- षट्- शताधिक-त्रिसहस्रं पुरुषाः एकादशोत्तर एकादशशतं महिलाः नवबालकाः सप्तत्रिंशदधिकद्विशतं साधवः च सम्मिलिताः सन्ति।

 

  • राज्यसभायां राष्ट्रपतिद्रौपदी-मुर्मूवर्यायाः अभिभाषणे धन्यवादप्रस्तावस्य विषये चर्चा

राष्ट्रपतिद्रौपदी-मुर्मूवर्यायाः अभिभाषणे धन्यवादप्रस्तावस्य विषये चर्चा अद्य राज्यसभायां नीट-प्रकरणे विपक्षस्य कोलाहलस्य मध्ये समारब्धा। चर्चायै एकविंशतिहोरायाः समयः एव निर्धारितः आसीत्। चर्चायाः आरम्भं कुर्वन् भाजपादलस्य सांसदः सुधांशु त्रिवेदी विगत-दशवर्षेषु नरेन्द्रमोदी- सर्वकारस्य सफलतायाः उल्लेखं कृतवान्‌। सद्यः समाप्तस्य लोकसभानिर्वाचनस्य विषये सः अवदत् यत् दक्षिणराज्येषु एनडीए-पक्षस्य मतभागः काङ्ग्रेसपक्षस्य अपेक्षया अधिकः अस्ति। त्रिवेदीमहोदयः अवदत् यत् काङ्ग्रेसदलं तृतीयप्रयासे अपि लोकसभायां बहुमतं प्राप्तुं असफलम् अभवत्। सः अवदत् यत् भारतं ब्रिटेनं परित्यज्य विश्वस्य तृतीया बृहत्तमा अर्थव्यवस्था जाता। त्रिवेदी इत्यनेन उक्तं यत् एनडीए-सर्वकारेण चतुस्त्रिंशत्- कोटि- एलईडी- गोलदीपाः वितरिताः सन्ति सहैव नवीकरणीय ऊर्जायाः दिशि गन्तुं सर्वकारः प्रतिबद्धः अस्ति। चर्चायां भाजपादलस्य सांसदः राकेशसिन्हा, भीमसिंहः, वाईएसआर काँग्रेसदलस्य सांसदः गोला-बाबूराव चेत्यादयः सदस्याः अपि भागं गृहीतवन्तः।

 

  • अपराधिणः विरुद्धं कठोरतमं कार्याचरणं करिष्यते शिक्षामन्त्री धर्मेंद्र प्रधानः नीट-परीक्षार्थिभ्यः आश्वासनम् प्रायच्छत्

शिक्षामन्त्री धर्मेंद्र प्रधानः नीट-परीक्षार्थिभ्यः आश्वासनम् प्रायच्छत् यत् अपराधिणः विरुध्य कठोरतमं कार्याचरणं करिष्यते। संसदः बहिः पत्रकारान् सम्बोधयत् सः प्रोक्तवान् यत् सर्वकारः अस्मिन् विषये संवेदनशीलः अस्त। सः विद्यार्थिभ्यः अभिभावकेभ्यः च आश्वासनं प्रायच्छत् यत् सर्वमपि आवश्यकं कार्याचरणं विधास्यते। सः प्रोक्तवान् यत् सर्वकारः सदने कस्मिन्नपि प्रकरणे चर्चायै तत्परः अस्ति।

 

  • जुलाईईमासस्य एकदिना‌ङ्कात् क्रियान्वितानि भविष्यन्ति नवीनविधेयकानि

भारतीय- न्यायसंहिता 2023, भारतीय- नागरिक- सुरक्षासंहिता 2023, भारतीय साक्ष्य- अधिनियम 2023 इत्यादीनि त्रीणि नूतन-अपराध-विधेयकानि अग्निमसासस्य एकदिना‌ङ्कात् क्रियान्वितानि भविष्यन्ति। एतनि विधेयकानि विगतवर्ष संसदः शीतकालीन सत्रावधौ पारितानि कृतानि अभवन्। नवीनापराधविधेयकानि भारतीय नागरिकान् सशक्तं कर्तुं सकारात्मकदिशि महत्वपूर्ण पदक्षेपम् अस्ति। नवाशात्यधिक नवदशतमाब्दस्य समूहस्य भारतीय- विदेश- सेवायाः आईएफएस अधिकारी विक्रम मिस्री इत्यसी अग्रिम- विदेशसचिवत्वेन नियुक्तः कृतः। सः विनय मोहन क्वात्रा इत्यस्य स्थानं स्वीकरिष्यति यस्य कार्यकालः आगामिमासस्य चतुर्दशदिनाङ्के समाप्यते। सः वर्तमानसमये राष्ट्रिय- सुरक्षा- परिषद- सचिवालये उपराष्ट्रिय-सुरक्षा-परामर्शकः इति रूपेण कार्यरतः अस्ति।

 

  • महिलाक्रिकेटस्पर्धा भारतं चतस्रणां क्रीडिकानां हानौ पञ्चविंशत्यधिक पञ्चशतं धावनाङ्कैः सह क्रीडति

महिलाटेस्टक्रिकेटस्पर्धायाः प्रथमे दिने एम. ए. चिदम्बरम- क्रिकेटक्रीडाङ्गणे भारत दक्षिण अफ्रीका इत्यनयोः मध्ये जायमाने क्रिकेटद्वन्द्वे भारतं चतस्रणां क्रीडिकानां हानौ पञ्चविंशत्यधिक पञ्चशतं धावनाङ्कैः सह क्रीडति। प्रथमे दिने शैफाली वर्मा तीव्रतमं द्विशतकं कृतवती। तया 205 धावनांका: कृता। स्मृति मंधाना अपि स्वकीयं शतकं पूरितवती। तया 149 धावनांका: अर्जिता:। जेमिमा रोड्रिग्स 55 योजितवती। दिनान्ते हरमनप्रीत कौर: अविजिता 42*, ऋचा घोष च अविजिता 43* धावनांकेषु क्रीडन्त्यौ स्तः। दक्षिण अफ्रीका पक्षतः डेलमी टकर: 2, नानकुलुलेको म्लाबा 1, नादिन डी क्लार्क च 1 स्तोभं प्राप्तवत्य:।

 

You Might Also Like

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

TAGGED: him sanskrit varta, him sanskritam, him sanskritam himsanskritnews, HIM SASNSKRIT VARTA, Himsanskritnews, India News, International news, National News, अन्तर्राष्ट्रीय समाचार, आज तक, इण्डिया न्यूज़, राष्ट्रीय वार्ता, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Himsanskritnews Headlines : विद्यालयीय- छात्रेभ्य: प्रार्थनासभायां वक्तुं प्रमुखा: संस्कृतवार्ता:
Next Article Mandi Film Festival : भारतीयसूचनाप्रौद्योगिकीसंस्थाने (IIT Mandi) प्रदर्शितं ब्रीणाप्रथायाम् आधारितं चलचित्रम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?