दक्षिणगाजादेशे राफाविरुद्धं प्रचलितं युद्धं प्रायः समाप्तम्-बेन्जामिननेतन्याहू
इजरायलस्य प्रधानमन्त्री बेन्जामिननेतन्याहू दक्षिणगाजादेशे राफाविरुद्धं प्रचलितं युद्धं प्रायः समाप्तम् इति उक्तवान्। सः उक्तवान् यत् यावत् हमासः पूर्णतया सत्तातः न निष्कासितः न भवति तावत् एतत् युद्धं निरन्तरं भविष्यति।
दूरदर्शनसाक्षात्कारे नेतन्याहूमहोदयः अवदत् यत् इजरायलसैनिकाः शीघ्रमेव लेबनानदेशस्य सीमायां नियोजिताः भविष्यन्ति। एतत् तदेव स्थानं यत्र हिजबुल-सङ्घस्य गोलीकाण्डं वर्धते ।
दक्षिणगाजादेशे राफाविरुद्धं प्रचलितं युद्धं प्रायः समाप्तम्-बेन्जामिननेतन्याहू
नमस्कार मित्राणि! अहमस्मि डॉ.अमनदीपशर्मा। अहं हिमाचलप्रदेशस्य शिक्षाविभागे संस्कृतशिक्षकोऽस्मि। कांगड़ा जनपदस्य कस्बाकोटला (भटेड़) इत्याख्ये ग्रामे अहं वसामि, किञ्च स्वग्रामात् एव संस्कृतस्य प्रचारप्रसारकार्यं मया क्रियते। अधुना शैक्षणिकसंस्थासु आधुनिकभाषारूपेण संस्कृतस्य प्रचारः भवेत्, एतदर्थम् अहम् हिमसंस्कृतवार्ताः, संस्कृतगुरु 24 इत्यनयोः प्रकल्पयोः माध्यमेन कार्यं कुर्वन्नस्मि। यदि भवन्तः मदीयेन कार्येण सन्तुष्टा तर्हि अस्माकं सहयोगं कुर्वन्तु , अस्माकं संस्कृतप्रसारस्य ये प्रकल्पाः लोके प्रचलन्ति तान् सर्वत्र प्रसारयन्तु। अस्माकं कृते आनन्दस्य विषयः यत् हिमसंस्कृतवार्ता संस्कृतपत्रकारितायाः विषये हिमाचलप्रदेशस्य प्रथमः प्रकल्पः इदानीम् आविश्वे कीर्तिम् प्राप्नोति।
Leave a comment
Leave a comment