By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: IYD 2024 Celebration : लघ्वीकाश्यां मण्ड्यां बिजन-ढलवानविद्यालये आचरित: योगदिवस:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > IYD 2024 Celebration : लघ्वीकाश्यां मण्ड्यां बिजन-ढलवानविद्यालये आचरित: योगदिवस:
हिमाचलवार्ता

IYD 2024 Celebration : लघ्वीकाश्यां मण्ड्यां बिजन-ढलवानविद्यालये आचरित: योगदिवस:

डॉ मनोज शैल
Last updated: 2024/06/22 at 12:07 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

IYD 2024 Celebration : लघ्वीकाश्यां मण्ड्यां बिजन-ढलवानविद्यालये आचरित: योगदिवस:

हिमसंस्कृतवार्ता – लघ्वीकाशी मण्डी। 

अखिले देशे अन्ताराष्ट्रीययोगदिवस: प्रायोगिकरूपेण आचरित:। यस्मिन् क्रमे हिमाचलस्य सर्वेषु जनपदमुख्यालयेषु जनपदस्तरीया: कार्यक्रमा: अभवन्। लघ्वीकाश्यां मण्ड्यामपि ऐतिहासिके सेरीमञ्चे जिलास्तरीयम् आयोजनमभवत्। तत्रैव प्रदेशस्य सर्वकारीयेषु विद्यालयेषु अपि योगदिवस: महता उत्साहेन आचरित:। अस्मिन् क्रमे मण्डी जनपदस्य राजकीय- उच्च- पाठशालायां बिजन-ढलवाने मुख्याध्यापिकाया: मोनिकाठाकुराया: सान्निध्ये योगदिवस: आचरित:। यस्मिन् विद्यालयस्य शारीरिकशिक्षक: दिनेशकुमार: विविधान् योगासनान् कारितवान् तथा च शिक्षिका अंजलिशर्मा प्राणायामस्य विविधान् विधीन् कारितवती। विद्यालयस्य संस्कृतशिक्षक: डॉ. मनोज शैल: योगस्य महत्वं जीवने उपादेयता च इति प्रतिपादितवान्। मुख्याध्यापिका मोनिका ठाकुर अवदत् यत् वर्तमाने परिप्रेक्ष्ये स्वस्थजीवनाय योगस्य व्यायामस्य च अत्यावश्यकता वर्तते। यथा जीवितुं भोजनम् आवश्यकं तथैव स्वस्थरूपेण जीवितु़ं योग: आवश्यक:। केवलं योगदिवसे एव योगाभ्यास: मा भवेत् अपितु अस्मिकं दैनंदिनजीवने योगस्य समावेश: स्यात्। तदैव सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामया:….. वाक्यमिदं सार्थकं भविष्यति। योगसत्रानन्तरं छात्रै: योगस्य महत्वमभिलक्ष्य विविधानि स्फोरकपत्राणि अपि निर्मितानि।

You Might Also Like

Mandi Shivratri Festival – मण्डीशिवरात्रिमहोत्सवे केवलं पञ्जीकृतदेवतानां पूजनं भविष्यति, यतः पड्डलस्थलं देवानां कृते अतिलघु अभवत्

एचपीएसईबीएल – द्वारा विद्युत् विक्रयणात् ३०० कोटिरूप्यकाणां राजस्वं अर्जितम्- मुख्यमंत्री सुखविन्दरसिंहसुक्खुः

काङ्ग्रेसकार्यकर्तारः अपि सुखस्य सर्वकारे दुःखिताः – जयरामठाकुरः 

HP Panchayat Election – एप्रिलमासे निर्वाचनं सम्पादयितुं समस्या नास्ति-अनिलखाची

अनूपसिंहजसयालः पुस्तकालयविज्ञानविषये विद्यावारिधेः (पीएच.डी) उपाध्याः अलङ्कृतः

TAGGED: Chhoti Kashi, chhoti Kashi mandi, Education, Education department, Himachal news, HP NEWS, hpgovt, IYD 2024, Mandi News, School, Yoga Day celebration, छोटी काशी मण्डी, मण्डी, योग, योग दिवस, शिक्षा विभाग हिमाचल, सरकारी विद्यालय, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल शिक्षा विभाग, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article Central Sanskrit University IYD 2024 : विकसितभारतस्य संकल्पना  योगद्वारा एव पूर्णा भविष्यति – कुलपति प्रो. श्रीनिवासवारखेड़ी
Next Article अयोध्यायां राममन्दिरस्य प्राणप्रतिष्ठायाः मुख्याचार्यस्य पंडित- लक्ष्मीकान्त- दीक्षितस्य निधनम्; काश्यां यजुर्वेदस्य सुविद्वत्षु परिगणितः आसीत्।
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?